सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 400, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 400

३४८ मीमांसादर्शनम् [ सू०
प्रमाणप्रमेयबलाबलविचारः
अन्यत्तु दर्शनं सत्यपि विरोधे प्रमाणप्रमेयबलाबलविसंवादात्संदेहः ।
तथा हि—
श्रुतिस्मृत्योर्विरुद्धत्वे ज्ञातमेव बलाबलम् ।
धर्मधर्मिविरोधे च धर्मिणो बलवत्तराः ॥ २७९
वक्ष्यति हि 'अङ्गगुणविरोधे च तादर्थ्यादिति' न चेह स्मार्तः कस्यचिदपि
श्रौतस्य पदार्थस्य बाध आशङ्क्यते । क्रमकालपरिमाणानि तु समस्तपदार्थ-
धर्मत्वेन निश्चितानि । तत्र यदि प्रमाणबलाबलं बलीयः ततो बलवच्छ्रुतिप्रमे-
यत्वाद् दुर्बलस्वभावैरपि क्रमादिभिराचमनादीनां बाधः । प्रमेयबलाबलबली-
यस्त्वे तु पदार्थधर्मेभ्यः क्रमादिभ्यः पदार्थत्वेनाऽऽचमनादयो बलीयांस इति ।
सत्यपि स्मृत्याख्यप्रमाणे दुर्बलत्वे बलवदाश्रयानपि स्वरूपेण दुर्बलान्क्रमादीनेव
बाधिष्यन्ते ।
किं युक्तमविरुद्धत्वं क्रत्वर्थाङ्गस्मृतेरपि ।
न तदर्थक्रियायां हि श्रुतं किंचन हीयते ॥ २८०
यथैव विज्ञातबलाबलैरपि श्रुत्यादिभिः समाख्यापर्यन्तैर्यावन्तः शेषाः प्रमी-
यन्ते, ते सर्वे शेषिकथंभावेन प्रार्थिता इत्थंभावेन सहानारभ्यवादाधीतैर्गृह्यन्ते ।
स्मृत्या तथैव सन्तुष्ट्या शिष्टाचारेण चार्पिताः ।
गृह्यन्ते भावनाभाग्यैरपूर्वैः साधनांशवत् ॥ २८१
कथंभावापेक्षितापूर्वोऽपकारस्याज्ञातपरिमाणाङ्गसाध्यत्वाद् यावत्किंचिद्येन
केनचिदपि प्रमाणेन प्राप्नोति, तत्सर्वमङ्गं भवति । तस्मादाचमनादीन्यपि
यज्ञप्रयोगाङ्गानीत्युपन्यस्ते अभिधीयते ॥ ५ ॥
अथ चतुर्थं शिष्टाकोपाधिकरणम्
न्या० सु० -- अत्र भाष्यकारेणाचमनादीन्युदाहृत्य किमेतानि श्रुतिविरुद्धानि न कर्त्त-
व्यानि, उताविरुद्धानि कार्याणीति विचाररूपं दर्शितम्, तच्छ्रुतिविरुद्धस्मृत्यर्थाकर्त्तव्यत्वस्य
पूर्वाधिकरणे सिद्धत्वात्, अविरुद्धार्थकार्यंत्वस्य चाद्याधिकरणसिद्धत्वादनर्थकम् । भोजनादि-
निमित्तस्य चाचमनस्य शुद्धयर्थत्वेन पुरुषार्थस्य यज्ञोपवीतस्य च हिरण्यादिवत्पुरुषार्थ-
रूपेण नित्यधार्यंतया विहितस्य, दक्षिणाचारत्वस्य च भोजनादौ पुरुषार्थतया विहितस्या-
नाशङ्काविरोधत्वेन पूर्वपक्षासम्भवादयुक्तमाशङ्क्य व्याचष्टे— एवं तावदिति । उक्तेन
न्यायद्वयेन यद्यपि सर्वासां पुरुषार्थानां क्रत्वर्थानां च स्मृतीनामविरोधाविरोधयोः प्रामाण्या
प्रामाण्ये निरूपिते, यद्यपि च तावन्मात्रेण पुरुषार्थानामाचमनादिस्मृतीनामनाशङ्क्य