सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 412, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 412

३६० मीमांसादर्शनम् [ सू०
दक्षिणाचारत्वं तु—
यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना ।
तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९
“यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये
देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्-
कायोग्यमित्यनुदाहरणानि । तस्मान्नैव तदधिकरणान्तरम् ।
वेदाविरुद्धशाक्यादिवचसामप्रामाण्यनिरूपणम् ।
सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
वेदविहितं न बाधते, शिष्टान्वा वेदविदो न कोपयति । विहाराराममण्डलकरण-
वैराग्य-ध्यानाभ्यासाऽहिंसा-सत्यवचन-दम-दान-दयादि, तद्बुद्धादिभाषितं प्रमाणे-
नाविरुद्धमिति चेत् ?
न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाऽष्टादश वा विद्यास्थानानि
धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि, वेदोपवेदाङ्गोपाङ्गाष्टादशधर्मसंहिता-
पुराणशास्त्रशिक्षा-दण्डनीतिसंज्ञकानि, । न च तेषां मध्ये बौद्धार्हतादिग्रन्थाः
स्मृताः गृहीता वा ।
प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् ।
यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥ ३१०
तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयम्, अन्यकविकृतं वा
श्लोकम्, सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यात् कश्चिदपि धर्मार्थं प्रतिपद्येत ।
वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ।
नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ ३११
तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः ।
वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥ ३१२
तथा च “मनोर्ऋचः सामिधेन्यो भवन्ति” इत्यस्य विधेर्वाक्यशेषे श्रूयते
“मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजतायै” इति प्रायश्चित्ताद्युपदेशवचनं
पापव्याधेर्भेषजम् ।
न वैतच्छ्रुतिसामान्यमात्रं नित्येऽपि संभवात् ।
यज्ञेऽध्वर्युँरिव ह्यस्ति मनुर्मन्वन्तरे सदा ॥३१३
प्रतिमन्वन्तरं चैवं १स्मृतिरन्या विधीयते ।
स्थिताश्च मनवो नित्यं कल्पे कल्पे चतुर्दश ॥ ३१४
१. श्रुतिरन्येति पाठः ।