सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 409, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 409

७ ] प्रथमाध्याये तृतीयपादः ३५७
कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे
फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न
तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या-
नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं
जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति,
तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः,
तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना-
दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः ।
विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम-
यति—तस्मादिति ॥ ७ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु-
पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच-
नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् ।
अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते ।
तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७
विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य
यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क-
प्रमाणत्वं निश्चीयते ।
यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते ।
अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८
न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते,
यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत ।
अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते ।
विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९
इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः ।
पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९०
ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति ।
उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता ।
बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१
प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति ।
तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः ।
प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२