सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 411, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 411

७ ] प्रथमाध्याये तृतीयपादः ३५९
तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि
नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते ।
विरोधो नास्तीतिकथनं
यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना ।
अपि च—
शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता ।
सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम् ॥ ३०५
अतदङ्गेन हि तुल्यकक्ष्येण व्यवधानं भवति, न सर्वपदार्थेन ।
वेदं कृत्वा यदा वेदिमकृत्वाऽऽचामति क्षुते ।
वेदिमेव करोतीति स वक्तुं शक्यते तदा ॥ ३०६
वेदिरेव ह्यनाचम्य कुर्वतो विगुणी भवेत् ।
तामेव सगुणां कर्तुं शुद्ध्यै न व्यवधास्यते ॥ ३०७
इममेवार्थमभिप्रेत्य भाष्यकारेणोक्तं न चैवंजातीयका अर्थाः पदार्थानां व्यव-
धातारो भवन्तीति । इतरथा ह्यङ्गप्रधानार्थत्वेनाश्रीयमाणे शून्यहृदयवचन-
मेवैतत्स्यात् ।
तस्मादाचमनादीनां क्रतुभिः संग्रहे सति ।
पश्चात्प्राप्तक्रमेयत्ताकालशास्त्रविरोधिता ॥ ३०८
भाष्यकारोक्तोदाहरणाक्षेपः
नन्विदं यज्ञोपवीतमुदाहर्तव्यम् । दर्शपूर्णमासदिषु ‘उपव्ययते देवलक्ष्ममेव
तत्कुरुते (२-५-११) इति क्रत्वङ्गप्रत्यक्षविधानात् । तथा काठके चानारभ्यवाद-
विधिना सर्वयज्ञगतयजनयाजनसम्बन्धः, अध्यापनाध्ययनसम्बन्धश्च श्रूयते । प्रसृतेन
वै यज्ञेन देवा स्वर्गं लोकमायन्नप्रसृतेनासुरानपराभावयन् । प्रसृतो ह वै
यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनुपवीतिनो यद्वै किं च ब्राह्मणो यज्ञोपवीत्यधीते
यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्या
२-२—इति’
तथाऽऽचमनविधिरपि ‘दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचम्य,
द्विः परिमृज्य, दर्भाणां महदुपस्तीर्योपस्थं कृत्वा, प्राङ्मुख उपविश्य, स्वाध्यायम्-
धीयीत’ इति । यद्यपि ब्रह्मयज्ञप्रकरणे श्रूयते तथाऽपि वेदोच्चारणसंबन्धात्तद-
ङ्गत्वेनापि तावज्जायमानं सर्वयज्ञानां मन्त्रवत्प्रयोगित्वात्तदङ्गं भवति । तथा
च “न सोमेनोच्छिष्टा भवन्ति” इति प्राप्ताचमनप्रतिषेधार्थमेवावधार्यते ।