सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished804 पृष्ठ

इस ग्रन्थ के बारे में

पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।

यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।

ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।

७ ] प्रथमाध्याये तृतीयपादः ३९३
तन्मतेनैवं योज्यं यो ब्राह्मण इति ब्राह्मणमुद्दिश्य पूर्ववच्च ब्राह्मणोद्देशाभिधानस्योप-
लक्षणार्थत्वाद् वधं चोद्दिश्य यो ब्राह्मणहननाभावस्तं कुर्यादिति च वचनव्यक्त्यन्तरस्यापि
सम्भवाद् ब्राह्मणवधाभावं चोद्दिश्य हननस्य प्रतिषेधादभावादन्यल्लिङ्गं ब्राह्मणे प्रतिषेध-
शब्दवाच्ये वाऽभावे वा शब्दाद् वधे वा न विधीयत इति । हननमिति पाठे प्रतिषेधत इति
प्रथमार्थे तमङ्गीकृत्य यो ब्राह्मणो यद्धननम्, यः प्रतिषेध इत्युक्ते ब्राह्मणतद्गधतदभावानामु-
द्देश्यत्वात्तद्विशेषणं लिङ्गमन्त्यत्वापत्तेर्न विधीयत इति योज्यम् । परिपालनीयत्वरूपेण च
विधेयस्याप्यभावस्य स्वरूपेणोद्देश्यत्वमविरुद्धम् ।
ननु वधोद्देश्यपक्षे ब्राह्मणस्याप्युद्देश्यविशेषणाविवक्षायामविवक्षा प्रसज्येतेत्याशङ्कां
निराकुर्वन् श्लोकं व्याचष्टे—प्रतिषेधेति । नान्तरिक्षे न दिवीत्यादिवन्निषेधानुवादाशङ्का-
निराकरणार्थो विधिशब्दः, निर्विषयवधाप्रसक्तेर्मृञ्चामहे हविषा विशेषणमित्येनेन न्यायेनो-
द्देश्यान्तर्गत्यङ्गीकारेण ब्राह्मण्यविवक्षा युक्तेत्याशयः । सकृच्छ्रुतप्रत्ययस्यानेकार्थविधिपर-
त्वायोगात्निर्विषयस्य च लिङ्गस्य विधातुमशक्यत्वाद्यो ब्राह्मणः तं न हन्यात्तं च ब्राह्मण-
युग्मं स मेति ब्राह्मणलिङ्गविधौ ब्राह्मणपदप्रत्ययोरावृत्तिः, यद् ब्राह्मणहननं तन्न कुर्यात्तं
च पुंसो हननमिति वधलिङ्गविधौ हन्तिप्रत्यययोरावृत्तिरिति विवेकः । प्रतिषेधशब्दोऽपि
कर्मव्युत्पत्त्या वधपर एव प्रतिषेधे वध इत्यर्थः । अविभक्तिकवधशब्दपाठे वधश्चासौ
प्रतिषेधश्चेति कर्मधारयावृत्तिग्रहणमुपलक्षणार्थम् ।
द्वितीयव्याख्याने तु प्रतिषेधविधिपरो हि प्रतिषेधशब्देनाभावोऽभिप्रेतः । शुद्धवधा-
सम्भवात्तद्विशेषणब्राह्मण्यविवक्षाप्रतियोगिनिरूपणाधीनत्वेन शुद्धस्याभावाख्यस्य प्रतिषेध-
स्यासम्भवात्तद्विशेषणवधविवक्षाप्रतिषेधे वेति यो ब्राह्मणहननाभावः तं कुर्यात्तं च पुंसोऽ-
भावमित्यभावलिङ्गविधौ नञ्प्रत्यययोरावृत्तिरुक्ता एवं तावन्नञुपहितस्य लिङो निषेधकत्वे
प्रवर्त्तनाप्रतीत्यभावेन तदाक्षिप्तसाध्याभावाद् ब्राह्मणस्यानुपयोगित्वेनासंस्कार्यत्वादनुपादेय-
पञ्चकव्यतिरेकेण वास्तवोद्देश्यत्वाभावेऽपि शब्दवृत्तेनोद्देश्यत्वादविवक्षितलिङ्गतोक्ता ।
यदा तु नञ्मात्रेण निषेधसिद्धेर्द्वेषप्रचयंप्राप्तप्रवर्त्तनानुवादार्थत्वं लिङोऽङ्गीक्रियते, तदा
प्रवर्त्तनाक्षिप्तवैरनियतनिादिसाध्यसिद्ध्युपयोगिहननसंस्कार्यत्वोपपत्तेर्वस्तुतोऽप्युद्देश्यत्वासुतरां
लिङ्गाविवक्षेत्याह—येषां त्विति । प्रवर्त्तनात्मकनिषेधवचनत्वासम्भवप्रतिपादनार्थम्—
अत्यन्तभिन्नावित्युक्तम् । वाक्यार्थभावनाविषयत्वेन विधिवन्निषेधस्यापि सर्वपदार्थान्प्रति
प्राधान्यात्तद्वाचिनो नञोऽपि प्रत्ययानुग्राह्यत्वोपपादनायोपचाराद्वाक्यार्थावित्युकम् ।
नानाख्याताथैस्यापि प्राधान्ये वाक्यार्थव्यवस्था स्यादित्याशङ्क्य भावनैव सर्वपदार्थानुर-
ञ्जनसहत्वात्सर्वत्र वस्तुतो वाक्यार्थः तद्विषयत्वेन तूपचाराद्विधिनिषेधयोर्वाक्यार्थत्वम्, न
चान्यस्य भावनाविषयतास्तीति सूचयितुम्—द्वावेवेत्युक्तम् । तेषां मते श्रूयमाणमपि लिङ्गं
प्रतिषेधं प्रत्यनुपयुज्यमानत्वात्तेनापरिगृहीतत्वादविवक्षितमित्यन्वयः । तदुपपादनार्थम्—
नञ्स्थित्याद्युक्तम् । पूर्वमतापेक्षयास्मिन्मते विध्यर्थनिषेधाधिक्याल्लिङ्गनिषेधे गौरवातिशय-
द्योतनार्थो विध्यर्थमपीत्यपि शब्दः । ब्राह्मणविशिष्टेन हननेन विशिष्टं विध्यर्थं प्रतिषिध्य

३९४ मीमांसादर्शनम् [ सू०
चरितार्थत्वान्न लिङ्गं ब्राह्मणे वधे विधी वा कर्त्तव्यतारूपे नञि निषेद्धुं शक्नोति यद्ब्राह्मणं
हन्यात्तं च ब्राह्मणं पुमांसं नेति नञ्ब्राह्मणपदयोरावृत्त्यापत्तेः । ब्राह्मणं न हन्यादित्यत्र
च ब्राह्मणहननं न कुर्यादित्येव विगृह्याऽर्थप्रतीतेस्तच्च पुंसो हननं नेति वधे लिङ्गनिषेधेन
नञ्हन्त्योरावृत्त्यापत्तेः । विधौ च लिङ्गनिषेधे तच्च पुंसः कर्त्तव्यं नेति नञ्प्रत्यययोरा-
वृत्त्यापत्तेरित्यर्थः ।
ननु विशिष्टविधिवद्विशिष्टनिषेधेनापि विशेषणानामर्थाक्षेपोपपत्तेर्नोच्चारणावृत्त्यापत्ति-
रित्याशङ्क्य - अनूदितमित्युक्तम् । विधेयस्य यागादेरन्यतो सिद्धस्यापि विधितः स्वरूपा-
वधारणसम्भवेन स्वरूपानुवादानपेक्षत्वात्पश्वेकत्वाधिकरणन्यायेन विशेषणविवक्षा युक्ता ।
निषेध्यस्य स्वन्यतो सिद्धौ निर्विषयनिषेधायोगेनानुवादापेक्षावश्यम्भावादग्रहाधिकरणन्यायेन
विशेषणाविवक्षेति भावः । नन्वेवं सति ब्राह्मणहननयोरप्यविवक्षा स्यादित्याशङ्क्य-
पूर्वोक्तेत्युक्तम् । सर्वव्यवहारनिरोधापादकत्वे कर्त्तव्यमात्रस्य निषेध्यत्वायोगाद् वधस्य च
निर्विषयस्याप्रसक्तेः प्रतिषेध्यत्वासम्भवस्य पूर्वमेवोक्तत्वात् ब्राह्मणविशिष्टस्यैव विध्यर्थ-
स्योद्देश्यत्वेनोभयोरपि ब्राह्मणहननयोरुद्देश्यान्तर्भावात्(यस्योभयं हविरार्त्तिमार्च्छतीत्यत्र
यस्य कस्यचिदार्त्तौ सत्यां निर्विषयकनिमित्तकयागस्याप्राप्तेः हविःशब्दस्य विवक्षा ।
तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्, तद्विधाने वाक्यभेदापत्तेः । तस्मादुभयशब्द-
स्याविवक्षेति हविरार्त्त्यधिकरणराद्धान्तः १) हविवद्विवक्षा युक्तेत्याशयः । विध्यभावाद्
वधकर्त्तव्यत्वस्याप्राप्तेरनुवादासम्भवमाशङ्क्य-द्वेषादीत्युक्तम् । नन्वाख्यातयोगित्वेनास्य
नञो नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनाथत्वं न युक्तमित्याशङ्क्य-प्रत्ययेत्युक्तम् ।
'य एवं विद्वान्पौर्णमासीं यजत, इत्यादावनुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्ण-
मास्यादिशब्दस्य यागवाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नञोऽर्थान्तरवाचित्वेनानुप-
पन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नञ्युक्तेष्वपि वाक्येषु नञो विषयसमर्पकत्वा-
त्प्रवर्त्तनाथं एव लिङादिरित्येन्मताश्रयेन पूर्वग्रन्थो व्याख्यायते, तदा येषां त्विति
ग्रन्थस्य तन्निराकरणार्थत्वाद्व्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि
वाक्यार्थरूपा भावना विषय एव, न तु धात्वर्थस्यैव विषार्थिणोति-वाक्यार्थशब्देनोक्तम् ।
अत्यन्तभिन्नावित्यनेनैकत्वनिराकरणार्थं विपरीतस्वभावतोक्ता ।
तथा हि-
फल-बुद्धि-प्रमेयाधिकारिबोधकभेदतः ।
पञ्चधात्यन्तभिन्नत्वाद् भेदो विधिनिषेधयोः ॥ १
विधिरिष्टफलोऽनिष्टपरिहारफलो परः ।
प्रेरितोऽस्मीति धीः पूर्वे, वारितोऽस्मीति चापरे ॥ २
विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते ।
निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता ॥ ३
१. अयं पाठ सर्वत्र नास्ति ।

७ ] प्रथमाध्याये तृतीयपादः ३९५
विधिश्चाधिकरोत्यन्यत्कारणेनाप्रवर्त्तितम् ।
रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ ४
नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् ।
लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ ५
एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम्—
अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः ॥ ६
दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति ।
शेषं समानम् ।
अस्मिन्नेव पक्षे स्पष्टीकरणार्थं वचनव्यक्तिमाह—एषा हीति । तव्ययुक्तवाक्यान्तरा-
भिप प्रायो वचनव्यक्त्यन्तरोपन्यासः । पूर्वस्मिन्पक्षे कीदृशी वचनव्यक्तिरित्यपेक्षायामाह—
विध्येकत्वे पक्षे पुनरिति । विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभावान्नञा सहैकीकृतत्य
तत्सहितस्य निषेधपरत्वं युक्तम् । द्वितीये व्याख्याने तु विधिरेवैकः सर्वत्र, न क्वचिन्नि-
षेधोऽस्तीति विध्येकत्वमेकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु-
मशक्यत्वेऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् ।
शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोद्देशः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादि-
निषेधानुवादशङ्कानिराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावोऽभिप्रेतः । न
कुर्यादिति चाख्यातयोगिनो नञोऽभाववचनत्वादभावं कुर्यादित्यर्थः । न हन्यादित्यक्ते
प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्तं वा प्रागभावपरिपालनं विधीयते
यो ब्राह्मणहननाभावस्तं कुर्यात्, पालयेदित्यपि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन-
व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति—सर्वथेति । सुरापाने वैषम्यमाह—ब्राह्मण इति ।
व्यतिरेकोपपादनायं कत्रेत्युक्तम् । ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्राख्यातप्रत्ययो-
पात्तक्रियागुणभूतत्वेनोपादीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे-
षणत्वेनोपादानान्न पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वेनोपादीयमानत्वप्रतीतेरित्यर्थः ।
श्रुतावपीमं न्यायमतिदिशति—तस्मादिति । पार्श्वस्थापादितमतिप्रसङ्गद्वयं परिहृत्य
ब्राह्मणानां सुरापानप्रतिषेधाभावशङ्कामुपसंहरति-अतश्चेति । सुरापाने ब्राह्मणस्यानुद्देश्यत्वेऽ-
प्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति—नैतदिति । नन्वनुवाद्यत्वेऽप्युपादेयत्वाद्विशेषण-
विवक्षा भविष्यतीत्याशङ्कयाह—नोपादेयत्वमिति । उद्देश्यविशेषणविवक्षायां वाक्यभेदा-
पत्तेस्तत्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वेऽप्यविधेयविशेषणस्य विधिना स्प्रष्टुम-
शक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रमन्वारम्भणादौ प्रकरणप्राप्तस्यापि
यजमानस्य कर्तृत्वेन विधानाद्विशेषणविवक्षा युक्तेति भावः । नन्वनुवाद्यत्वेऽपि ब्राह्मणस्य
क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्वविशेषणविशिष्टब्राह्मणविशिष्ट-
क्रियानुवादेऽपि यत्पुमान् ब्राह्मणः सुरां पिवेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदा-
भावादेकक्रियावशीकारेण चारुणैकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्यपरि-

३९६ मीमांसादर्शनम् [ सू०
समासिकलक्षणस्यापि वाक्यभेदस्याभावात्किमिति विशेषणाविवक्षेत्याशङ्क्याह-अनूद्यमान
इति । न केवलं प्राधान्येनानूद्यमानस्य प्राप्यपेक्षत्वम्, किन्त्वनुवाद्यविशेषणत्वेनाप्यनूद्य-
मानस्येति सर्वशब्देन सूचितम् । तत्रानुवादस्य प्राप्यपेक्षत्वे सत्यनूदितस्य सुरापानस्य
स्त्रीपुंसकत्तृकत्वेन प्रागेव प्रतीतेर्लिङ्गविशेषणस्यानाकाङ्क्षितत्वाद्विधेयेऽप्येककर्त्तृकपानाप्रस-
क्तेरनुवाद्यपानविशेषणत्वेनाज्ञातज्ञाप्येभ्यो ब्राह्मणादिभ्योऽन्यल्लिङ्गं न विधीयते । नानुवाद्य-
विशेषणत्वेनाज्ञातं ज्ञाप्यत इत्यर्थः ।
नन्वप्राप्तनिषेधायोगान्निषेध्यप्राप्त्यर्थं 'ब्राह्मणः सुरां पिवेदित्यवान्तरवाक्यार्थपर्यवसान-
वेलायां विधेयविशेषणत्वेन लिङ्गादिविवक्षा प्रसक्ता पश्चान्निषेधान्वयेऽपि न केनचिद्
बाध्यत इत्याशङ्कते तावत्-यदि हीति । तत्र किमप्राप्तस्य पानस्य निषेधायोगादन्यतश्चा-
प्राप्तैरर्थाद्विधेयत्वं कल्प्यते 'किं वा वाक्यस्वरसादेव विधिपरत्वं प्रतीयते इति विकल्प्य
आद्यं तावत्पक्षं दूषयति-यत्तस्त्विति । द्वितीयं दूषयति-प्रतिषेधेति । यदा च पानं
न विधीयते, तदा तत्र ब्राह्मणादेः सत्यपि गुणवादेऽनुवाद्यत्वात्प्रतिषेधे चाक्रियात्मनि
गुणत्वायोगात् प्रत्युत प्रत्यवायव्यावृत्त्यानुग्राह्यत्वेन प्राधान्याद्विधानं न सम्भवतीत्याह-
तेनेति । भेदवादिमते नाद्यवचनव्यक्तौ पानस्य कर्त्तव्यत्वेनानूदितस्य प्रतिषेधः । विध्येकत्व-
वादिमतेन द्वितीयवचनव्यक्तौ पानं स्वरूपेणानूद्य प्रतिषेधेन विधीयमानेनेति कर्मव्युत्पन्नस्य
विधिशब्दस्य प्रतिषेधशब्देन सह कर्मधारयः । द्वितीयव्याख्याने प्रतिषेधस्याभावस्य
विधिनेत्यर्थः । एवं सत्यपि यदि स्त्रीकर्तृकं पानं लोके न प्राप्नुयात् ततस्तन्न निषेध्येत,
न त्वेतदस्तीत्याह-लोके चेति । एवमनूद्यमानः सर्वो हीति पूर्वार्द्धोक्तमर्थं प्रकृते योजयित्वा,
तत्रानाकाङ्क्षितमित्युत्तरार्द्धं योजयति-न चेति । नन्वेवं तर्हि यो ब्राह्मणः पिवेत्स
पुमानिति ब्राह्मपदोपात्तनिषेधपरित्यागेनानुवादपदान्तर्गतसन्निकृष्टब्राह्मणपदोपात्तलिङ्ग-
सम्बन्ध एव केवलो विधीयतामत आह-न चास्येति । निषिद्धश्रुतिवैय्यर्थ्यापत्तेरिति भावः ।
उपसंहरति-ततश्चेति । प्रासङ्गिकाशङ्काशेषनिराकरणावताराय-उभयत्रापीत्युक्तम् ।
ननु वधनिषेधे लिङ्गाविवक्षायां ब्राह्मणवधेऽपि ब्रह्महत्यापत्तेर्महापातकनिमित्तकर्म-
हान्यादिप्रसङ्गः स्यादित्याशङ्काक्षेपमाह-नन्विति । अत्र कुशावस्था अस्तीत्यात्रेयी
गर्भिणी । अभ्युपगमेनैव परिहरति-ब्राह्मणेति । न च महापातकत्वे प्रायश्चित्ताल्पत्वं
विरुद्धयते, पुंब्राह्मणवधेऽपि रहस्ये प्रायश्चित्ताल्पत्वदर्शनादित्याह-न चेति । उपसंहरति-
तस्मादिति । सुरापानस्य तु स्त्रीकर्त्तृकस्यापि प्रायश्चित्तान्तरानाम्नानान्निःसन्दिग्धं महापात-
कमित्यहिच्छत्रब्राह्मणीसुरापानस्य स्मृतिविरोधो दुःपरिहर इत्याह-सुरापाने पुनरिति ।
नन्वापस्तम्बेन देशव्यवस्थया विरुद्धाचारप्रामाण्याभिधानाद्देशान्तरनिवासिब्राह्मणी-
विषया सुरापाननिषेधस्मृतिः कल्पयिष्यत इत्याशङ्क्याह-यापि चेति । स्मृतिविरोधेऽदृ-
तनाचाराप्रामाण्यं विस्तरेणोपपाद्योपसंहरति-इतीति ।
एवमुत्सूत्रं पूर्वपक्षं कृत्वा सदाचारप्रामाण्यप्रतिपादनपरतयाऽपि वेति सूत्रं व्याख्याय,
इदानीं सूत्रारूढं पूर्वपक्षं कर्तुं न शास्त्रपरिमाणत्वादिति पूर्वाधिकरणसिद्धान्तसूत्रमाचारा-

७ ] प्रथमाध्याये तृतीयपादः ३९७
धिकरणपूर्वपक्षेऽप्यावृत्त्या योजयितुमुपक्रमते-अथ वेति । पूर्ववर्णके दुराचारसङ्करेण
पूर्वपक्षाभिधानाय सर्वदेशनिवासिशिष्टाचारोदाहरणाद् तद्व्यावृत्त्यर्थमार्यावर्त्तनिवासिशि-
ष्टाचारणामेवोदाहरणत्वमाह-इहेति । अर्थकामाचारव्यावृत्त्यर्थं धर्माचाराणामेवोदाहरणत्वं
दर्शयन्सन्देहमाह-धर्मबुद्धयेति । दुराचारसङ्करस्याप्रामाण्यहेतोरायावर्त्तनिवासिधर्माचारेष्व-
सम्भवात् सन्देहहेतुं प्रश्नपूर्वकमाह-कुत इति । नन्विदं कर्त्तव्यमिदं कर्त्तव्यमिति
सदाचाराणां विशेषरूपेणानिबन्धनेऽपि, सदाचारः प्रमाणमिति सामान्यतो निबन्धनमस्ती-
त्याशङ्कते - ननु चेति । स्मृत्यधिकरणसाधितोत्स्मृतिप्रामाण्यादेवाचारप्रामाण्यं सिद्धमि-
त्यर्थः । अष्टकादिस्मृतीनां मूलश्रुत्यदर्शनेऽपि तदभावे हेत्वदर्शनादविरुद्धं श्रुत्यनुमानम् ।
आचारप्रामाण्यस्मृतौ तु मूलश्रुत्यभावसाधनस्य हेतोराचारमूलत्वलक्षणस्य स्मृत्यन्तरेभ्यो-
ऽतिरिक्तत्वात्स्मृत्यन्तरन्यायेनाचारप्रामाण्यस्मृतिप्रामाण्यासद्धेनं स्मृतिवलादाचारप्रामाण्य-
सिद्धिरिति । परिहरति-नेति । एतदेव विवृणोति - शास्त्रान्तरेति । आचारदर्शनमात्र-
प्रवृत्तमेवोपपादयितुं प्रतिजानीते- यथैव चेति । उपपादयति - यदि हीति । अतो न्याय-
मूलत्वात्स्मृतेर्न्यायसाध्वसाधुतैव विचार्येत्याह-इतीति । सन्देहमुपपाद्य पूर्वपक्षसूत्रगतनवर्थ-
व्याख्यानार्थं सिद्धान्तेनोपक्रमते - तत्रेति । विरोधाधिकरणे विरुद्धस्मृतिप्रामाण्यापवादे-
नाविरुद्धस्मृतिप्रामाण्यं निरपवादमुक्तमिति मत्वा द्वयबलेनेत्युक्तम् । प्रतिज्ञानम् = उपक्रमः।
घञन्तात्करोतेः कारशब्दं व्यापारवचनं व्युत्पाद्य सोऽस्यास्तीति मत्वर्थीयेनिप्रत्ययान्तस्य
कारिशब्दस्य कर्तृवचनत्वाच्छ्रौतस्मार्तस्तुल्याः कर्त्तार एषामिति विग्रहः कार्यः। मन्वादिभि-
श्चाचारमूलश्रुत्यदर्शनेऽपि तदर्थस्य शिष्टव्यवहारादेव सुज्ञानत्वेनानिबन्धनोपपत्तेः स्मृतितो-
ऽप्याचारप्रामाण्यं सिध्यतीत्याह - स्मृतिकारैरिति । उपक्रान्तसिद्धान्तनिराकरणार्थत्वेन
पूर्वपक्षसूत्रमवतार्यं व्याख्यातुमध्याहारेण पूरयति - तद्विति । व्याचष्टे - शास्त्रेति ।
तृतीयासमासाभिप्रायं कर्मव्युत्पत्तिप्रदर्शनम्, बहुव्रीहौ तु भावव्युत्पत्तिरेव षष्ठीसमासेन
च विद्यास्थानातिरिक्तत्वेन शाक्यादिग्रन्थवदाचाराणामप्येनेनाप्रामाण्यमुच्यत इत्यन्यथा
व्याचष्टे - परिमितानि चेति । ननु शब्दात्मकानामेव शास्त्राणामियत्तानियमादशब्दात्म-
कस्यापि सदाचारस्य पुरुषहितबोधकत्वाच्छास्त्रत्वं भविष्यतीत्याशङ्क्य स्वरसेन त्वेषां
धर्मबोधकत्वम्, आचारश्चैव साधूनामिति स्मृत्यनुसाराद्वेति विकल्प्य आद्ये पक्षे स्वरूपेण
तावदाचारस्य क्रियारूपस्याबोधकत्वाच्छास्त्रत्वमनाशङ्क्यमेवेत्याह-न चेति । ननु
स्वरूपेणाबोधकत्वेऽपि शिष्टानुष्ठानदर्शनादस्मदादीनां धर्मबुद्धयुत्पत्तेस्तद्द्वारेण शास्त्रत्वं
भविष्यतीत्याशङ्कयाह - नापीति । शिष्टानुष्ठानान्यथानुपपत्त्या अनुष्ठेयस्योत्सवादेर्धर्मत्वं
कल्प्यम्, भ्रान्त्यादिनापि त्वनुष्ठानोपपत्तेर्नैकान्ततः शिष्टैरनुष्ठीयमानस्याचारस्यास्मदादि-
भिर्दर्शनम्, शिष्टाचारानुष्ठानं वा धर्मत्वं कल्पयितुं शक्यम्, विशेषतश्च दर्शनस्यानुष्ठान-
मात्रानुविधायित्वेनात्यन्तपरायत्तत्त्वादनुष्ठानस्य च प्रमेयत्वादबोधकत्वादित्यर्थः । द्वितीयपक्षे
दूषणमाह - स्मृतेस्त्विति ।
तृतीयप्रकारेण व्याख्यातुं विकल्पयति - किं चेति । एकश्रुत्यनुमानासम्भवं ताव-
दुपपादयति - न तावदिति । अनेकश्रुत्यनुमानासम्भवमपरिमितानां पाठाशक्तेरपठितानां

३९८ मीमांसादर्शनम् [ सू०
च मूलत्वासम्भवेनोपपादयति-यावदाचारं हीति । तुशब्दार्थे हिशब्दः । ननु सर्वाचाराणा-
मेकश्रुतिमूलत्वासम्भवेऽप्येकदेशादिगतानां भिन्नानामप्येकमूलत्वोपपत्तेरनेक श्रुत्यनुमानेऽप्यल्प-
त्वान्न वेदसम्मितश्रुतिकल्पनापत्तिरित्याशङ्क्याह-एकस्य त्विति । एकदेशादिगताना-
मप्यनेकेषामेकोपलक्षणाभावान्नैकमूलत्वोपपत्तिरिति भावः ।
अभ्युपगम्याप्यल्पत्वेन शक्यपाठत्वमनिबन्धनामूलदर्शनाभावोऽवसीयेत इत्याह-न चेति ।
ननु प्रत्यक्षोपलम्भाभावेऽप्याचारदर्शनादेव तत्तदाचारमूलभूताः श्रुतीरनुमायाऽन्येषामपि
तथैव श्रुत्यनुमानसिद्धयर्थं सामान्यमात्रेणाचारप्रामाण्यमुपनिबद्धमित्याशङ्कयाह-न चेति ।
मूलत्वेनाचारस्य बलवत्त्वोपपत्तेर्मूलित्वेन च स्मृतेर्दौर्बल्यापत्तेर्वक्ष्यमाणं स्मृतिबलीयस्त्वं
विरुध्येतेत्याशयः । मूलमूलिभावस्य वलावलभावस्य च विपर्ययप्रसङ्गादिति वा योज्यम् ।
अस्मिन्नेवार्थे शास्त्रस्य परिमितस्य स्तोकस्यैवानुमातुं शक्यत्वादितिसूत्रं योजयति-
अत इति । ननु बहूनामप्याचाराणामेकैव स्मृतिः सरूपा श्रुतिमूलभूतानुमास्येतऽत आह-
न चेति । न केवलमाचाराणां श्रुतिमूलत्वाभावप्रसङ्गः, किं तु श्रुतेरेवाचारपूर्वकत्वापत्ते-
र्विपर्ययोऽपि प्रसज्येतेत्यर्थः । एतदेवोपपादयति -- शिष्टाचार इति । एतमेवार्थमर्थान्तर-
न्यासेन दर्शयितुं शास्त्रशब्दे शास्त्रीयमर्थं लक्षयित्वा तस्य परिमित्वादल्पत्वादिति चतुर्थं
व्याख्याप्रकारमाह-शास्त्रेति । यद्वा शास्त्रीयस्यार्थस्य परिमितत्वात्कतिपयत्त्वान्मानान्तरा-
गोचरत्वादिति वदतानेन सूत्रेण परिमिते मानान्तरागोचर एवार्थे शास्त्रं प्रवर्त्तते । सदा-
चाराणां तु शिष्टव्यवहारादेव सिद्धत्वेन मानान्तरगोचरत्वान्न शास्त्रविषयत्वं सम्भवती-
त्युक्तमिति पञ्चमं व्याख्याप्रकारमाह-परिमित्तेति । एतमेवार्थमुपपादयितुं गृहस्थ्यादि-
कर्मणामशास्त्रीयत्वप्रतिपादनाथंस्य 'अशास्त्रा तूपसम्प्राप्तिः शास्त्रं स्यान्न प्रकल्पकं तस्मादर्थेन
गम्येताऽप्राप्ते शास्त्रमर्थवदि' (६.२.१८) त्यस्य षष्ठाध्यायगतस्य सूत्रस्यैकदेशं पठति-
अप्राप्ते इति । मानान्तरगोचरत्त्वमेवार्थं सुखाङ्गत्वेन द्रढयति-दृश्यमानेति । अर्थसुखा-
ङ्गानां धर्मत्वाभावे दृष्टान्तमाह-वैश्यानामिति । पूर्वपक्षमुपसंहरति-तस्मादिति ।
शीलात्मतुष्टिग्रहणेन तयोरपि तुल्यन्यायत्वाद्विचारविषयत्वं दर्शितम्, स्वभावरचितं शीलम् ।
निषेधस्याश्रौतत्वे नञो सामञ्जस्यापत्तेरपरितोषात् सिद्धान्तोपक्रममपि सूत्रारूढं
कर्तुमुपक्रमते-यद्वेति । अस्मिंश्च पक्षे शिष्टाकोपसूत्रमप्यावृत्त्या वेदाविरुद्धशाक्यादिवाक्य-
विषये पूर्वपक्षसूत्रत्वेन शिष्टाचारविषये च सिद्धान्तोपक्रमार्थत्वेन योज्यं द्वितीयवर्णकव-
दत्राप्यार्यावर्त्तनिवासिशिष्टाचारणामेवोदाहरणत्वमनिबन्धनत्व-कर्तृ सामान्यरूपधर्मद्वयदर्शनं च
सन्देहकारणम्, सूत्रयोजनामात्रतिरिक्तमिति दर्शयन् सिद्धान्तोपक्रमं सूत्रारूढं करोति -
इहेति । तत्राकोपाविरुद्धशब्दयोः पौनरुक्त्यमाशङ्कयाचेनाविरोधोऽभिहितो द्वितीयेन
प्रामाण्यमिति स्वरूपतस्तावद्व्याचष्टे-तथा हीति । नन्वविरोधेऽप्याचाराणां विद्यास्थानाति-
रिक्तत्वाच्छाक्यादिग्रन्थवदप्रामाण्यं भविष्यतीत्याशङ्क्य, स्मृतिकारानुज्ञानेनातिरेकस्यादोषत्वं
दर्शयितुं विरोधे सत्येवाप्रामाण्यं स्यात् नान्यथेत्येवं परतया व्याचष्टे-यदीति ॥ ७॥
॥ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ ५॥

७ ] प्रथमाध्याये तृतीयपादः ३९९
भा० प्र०—"अपि वा" = पूर्व पक्ष के निवारण अर्थ को कह रहा है, "कारणा-
ग्रहणे" = कारण का अर्थात् स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह
आदि हैं, उनके अग्रहण में अर्थात् ग्रहण या ज्ञान न होने पर, "प्रयुक्तानि" = स्मृति-
प्रयुक्त अर्थात् स्मृति से विहित आचमन आदि कर्म, "प्रतीयेरन्" = अविरुद्ध अर्थात्
प्रमाण या अनुष्ठेय के रूप में प्रतीत होंगे ।
स्मृति विहित कर्म के अप्रामाण्य का कारण जो लोभ मोह आदि हैं उनकी सम्भावना
न रहने पर श्रौत क्रम आदि के विरोधी होने पर भी आचमन आदि स्मार्तं कर्म को
प्रमाण अर्थात् अनुष्ठेय समझना चाहिए ।
आशय यह है कि सूत्र में "अपि वा" इस शब्द से पूर्वपक्षी की आशङ्का का निवारण
किया गया है । श्रौतकर्म काल एवं परिमाण आदि के विरोधी होने पर भी आचमन
आदि स्मार्तं पदार्थ अर्थात् कर्म अनुष्ठेय होगा, क्योंकि इन कर्मों के अप्रामाण्यका कोई
कारण नहीं है । लोभ, मोह आदि ही अप्रामाण्य का कारण है; किन्तु आचमन दक्षिणाचार
आदि स्मार्तं कर्म लोभादिमूलक नहीं है । अत एव उनका अप्रामाण्य नहीं है, अपितु प्रमाण
होने से अनुष्ठेय हैं । इस स्थल में आचमन आदि पदार्थ अर्थात् पदप्रतिपाद्य कर्मफल
धर्मी है और आनन्तर्य आदि उस पदार्थ के आश्रित धर्म है । अतः धर्म और धर्मी में
विरोध होने पर धर्मी ही निर्बाध होता है । क्योंकि, धर्मिरूप आश्रय के बाधित होने पर
धर्मरूप आश्रित रह ही नहीं सकता है । इसलिए पदार्थ (कर्म) में आश्रित आनन्तर्य
आदि क्रम श्रौत होने पर भी उसके द्वारा स्मृतिविहित आचमन आदि कर्मों की बाधा
नहीं हो सकती है । धर्मी के आविर्भाव के बाद धर्म का आविर्भाव होने से आचमन आदि
धर्म के पूर्व में या एक समय में आनन्तर्य आदि रूप क्रम आदि उपस्थित ही नहीं है ।
सभी शास्त्रीय कर्मों का शुद्ध होकर अनुष्ठान करना पड़ता है—यही नियम है । आचमन
यज्ञोपवीतित्व, दक्षिणाचारता आदि शुद्धि या शौच का हेतु है, अतः ये कर्म के ही अङ्ग
है । अङ्ग प्रधान या अङ्गी की परिपूर्णता का ही साधन करता है, प्रधान का बाधक
नहीं होता है, क्योंकि जो जिसका अङ्ग नहीं होता है ऐसा समकक्ष पदार्थ (कर्म) एक
में दूसरे की बाधा को उत्पन्न कराता है । किन्तु आचमन आदि स्वतन्त्र कर्म नहीं हैं,
ये सभी कर्म के ही अङ्ग हैं । इसलिए ये समय में ही अनुष्ठेय हैं । इसीलिए शास्त्रकार
ने कहा है—
सदोपवीतिना भाव्यं सदा बद्धशिखेन तु ।
विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥
अर्थात् "सदा उपवीति अर्थात् बायें कन्धे पर यज्ञोपवीत को धारण करे एवं
सभी कार्य शिखा को बांधकर करे शिखाहीन होकर एवं उपवीती हुए बिना, जो कुछ
भी करता है, वह न करने के समान है इस प्रकार वामहाथ से किया गया कार्य भी

४०० मीमांसादर्शनम् [ सू०
अग्राह्य ही रहता है। इसलिए आचमन उपवीतित्व बद्धशिखत्व, दक्षिणाचारता अवश्य
ही कर्तव्य है।
सभी स्थलों में कृताचमनत्व, यज्ञोपवीतित्व, बद्धशिखत्व, दक्षिणाचारता आदि
विचारित विषयों में सभी का अनुकूल वेद वचन विद्यमान रहने से इनको स्मार्तं कर्म
अर्थात् अप्रत्यक्ष श्रुतिविहित कर्म मानकर श्रुतिविहित क्रम इत्यादि के साथ इनका
विरोध उपेक्षणीय है या नहीं—इसप्रकार किया गया विचार दृढ़ नहीं है, कारण; ये यदि
प्रत्यक्षश्रुति से उपदिष्ट न होते तो श्रौत कर्म और स्मार्तं कर्म या पदार्थ का विरोध
उपेक्षणीय है कि नहीं—इस प्रकार का विचार बलवान् होता, किन्तु, दोनों ही श्रौत
हैं तब उनका विरोध रहने पर भी वे प्रबल नहीं हैं। इसलिए, वार्त्तिककार ने इस स्थल
में भिन्न प्रकार से ही अधिकरण की रचना की है। अतः पूर्व अधिकरण का “विरोघे
त्वनपेक्षं स्यात् असति ह्यनुमानम्” “हेतुदर्शनाच्च” शिष्टाकोपेऽविरुद्धमिति चेत्” “न
शास्त्रपरिमाणत्वात्” इन चार सूत्रों को लेकर एक अधिकरण माना है। “अपि वा
कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” यह सूत्र एवं आगे के सूत्र का 'तेष्वदर्शनात् विरोधस्य'
यहाँ तक के अंश को ग्रहण कर दूसरा अधिकरण होता है। इस प्रकार जिन दो अधिकरणों
की रचना हुई है; उनमें पूर्व अधिकरण में पाञ्चरात्र, पाशुपत एवं शाक्यमत के प्रामाण्य
का खण्डन किया गया है। पाञ्चरात्र, एवं पशुपत ये कहो वेदमूलक भी हैं, किन्तु शाक्य-
मत तो सर्वथा वेद बाहर है। इसलिए शाक्यमत का खण्डन ही वार्त्तिक मत में प्रदर्शित
किया गया है।
पूर्व अधिकरण के द्वारा स्मृतियों का वेदमूलकत्व सिद्ध किया गया है, प्रदर्शित दृष्टि
के अनुसार यदि शाक्य आदि के स्मरणों को भी वेदमूलकत्व मानकर उनके प्रामाण्य की
आशङ्का भी की जा सकती है, शाक्य सिंह (बुद्ध, महावीर) क्षत्रिय हैं, अतः क्षत्रिय मनु की
स्मृतियों के समान उनका भी प्रामाण्य मानने में क्या आपत्ति है, क्योंकि, उन लोगों ने
भी वेद का ज्ञान किया होगा ? इस प्रसङ्ग में यह कहना है कि “विरोधे त्वनपेक्षं
स्यादसति ह्यनुमानम्”, “हेतुदर्शनाच्च”। आशय यह है कि शाक्य आदि की स्मृतियों
का वेदमूलकत्व अनुमान नहीं हो सकता है, क्योंकि “असति अनुमानम्” वेद का विरोध
न रहने पर वेदमूलकता का अनुमान हो सकता है, किन्तु, “विरोधे त्वनपेक्ष्यम्” अर्थात्
शाक्य आदि की वेद विरुद्धता अतिशय स्पष्ट है, इसलिए उनकी स्मृतियां वेदमूलक नहीं
है। धर्म का उपदेश करना क्षत्रिय का कर्तव्य नहीं है। ब्राह्मण से अतिरिक्त वर्णों के
लिए धर्म का उपदेश करना निषिद्ध है, केवल ब्राह्मण का ही यह कार्यं है। बुद्ध आदि
ने क्षत्रिय होकर भी अशेष जीवन को धर्म के उपदेश देने में ही व्यतीत किया है, अतः
उनका सम्पूर्ण जीवन शास्त्र विरुद्ध कर्मों के अनुष्ठान में ही व्यतीत हुआ है। आत्मा का
उद्धार करना ही सभी लोगों के लिए प्रथम कर्तव्य के रूप में शास्त्र में कहा गया है,
किन्तु, उन्होंने कहा कि मैं अनन्त नरक में ही जाऊँ कोई क्षति नहीं है, संसार के

७ ] प्रथमाध्याये तृतीयपादः ४०१
प्राणियों की मुक्ति हो, जो व्यक्ति आत्मघाती है स्वयं ही धर्म को नहीं मानता है, नरक
का भय नहीं करता है—वह धर्म का उपदेश कैसे देगा ? वह उपदेश दे भी तो उसका
उपदेश वेदमूलक कैसे हो सकता है ? उन्होंने वेद से ही धर्मतत्त्व की अवगति की और
वेद के विरुद्ध प्रचार किया, माता और पिता का द्रोही है जो माता और पिता को जनक
और जननी नहीं मानता है, गौतम बुद्ध ने भी वेद से ही धर्म के तत्त्व की अवगति की
किन्तु वह अपने धर्मोपदेश को वेदमूलक नहीं मानता है, धर्म और अधर्म प्रत्यक्ष के
अयोग्य हैं, अतः कितना बड़ा भी योगी क्यों न हो, वह अपने प्रभाव से उनका प्रत्यक्ष
कर उपदेश नहीं दे सकता है। इसलिए, जब उस मत को मानने वाले स्वयं ही जब धर्म
को वेदमूलक नहीं मानते हैं, तब श्रद्धा के कारण जड़मति वर्णाश्रम को मानने वाला
उनके उपदेश को वेदमूलक कहे तो यह कैसे सङ्गत होगा ? “हेतु-दर्शनात् च” । इनकी
स्मृतियाँ लोभ आदि अनेक कारणों के वर्तमान रहने से, उनको वेदमूलक नहीं कहा
जा सकता है। बौद्धगण अपने सम्प्रदाय में अनुस्मृत स्मृतियों को वेदमूलक होने से प्रमाण
नहीं माना है। अपि तु अनेक हेतु जालों से उनके उपदेश की धर्मप्राणता सिद्ध करने का
प्रयास किया है। वैदिकों के धर्मोपदेश के आधार पर यागादि को धर्म नहीं माना है।
यदि इस प्रसङ्ग में यह कहा जाय कि “शिष्टाकोपे अविरुद्धम्” । साधारण रूप में बुद्ध
आदि की स्मृतियाँ अनादरणीय भले ही हो, किन्तु अहिंसा, शम, दम, दान आदि विषयों
की कर्त्तव्यता का उपदेश होने से उनके साथ वेदानुशिष्टकर्मों का किसी प्रकार का विरोध
न होने से वे प्रमाण हैं और वे धर्मार्थ में बुद्धादि की स्मृति होने पर भी ज्ञातव्य क्यों नहीं
होगी ? अर्थात् ज्ञातव्य ही होगी । इस प्रसङ्ग में कहना है कि ऐसा नहीं हो सकता है,
क्योंकि, यह सङ्गत नहीं है, “शास्त्रपरिमाणत्वात्” क्योंकि, सभी शास्त्र परिमित हैं,
क्योंकि किस-किस शास्त्र से धर्म ज्ञातव्य है—इसका शास्त्रों में ही निर्देश कर दिया
गया है। बौद्ध आदि स्मृतियाँ उनके अन्तर्गत नहीं हैं, अतः उनसे धर्म ज्ञातव्य नहीं है।
“मनुर्वे यत्किञ्चिन आवदत् तद् भेषजम्” अर्थात् मनु ने जो कहा है वह मनुष्य के पाप=
व्याधि का भेषज=औषध है, इत्यादि वेद वचन के द्वारा ही निर्दिष्ट है। किस शास्त्र से
धर्म ज्ञातव्य है—इसमें वेद का निर्देश ही प्रमाण है। वेद के अनुसार ही स्मृति में भी
कहा गया है—
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
चार वेद, छ वेदाङ्ग, पुराण, न्याय, मीमांसा एवं धर्मशास्त्र ये चौदह स्थान अर्थात्
शिष्टों से परिगृहीत शास्त्र ही विद्या एवं धर्म के चतुर्दश स्थान हैं। ये नित्य हैं, प्रत्येक
कल्प में मनु आदि महर्षिगण पूर्ववत् वेदार्थ का स्मरणादि (स्मृतियाँ) निबद्ध कर देते हैं,
आकल्प विच्छेद से ये सर्वथा रहित हैं। अतः, इनसे ही धर्मतत्त्व ज्ञातव्य है बौद्ध ग्रन्थों
से ज्ञातव्य नहीं हैं।
२६

४०२ मीमांसादर्शनम् [ सू०
अहिंसा, दान आदि वेद से उपदिष्ट होने पर भी बौद्धों के संस्पर्श से सुराभाण्ड में
स्थित गङ्गाजल के समान हैं, कुत्ते के चमड़े से बनायी गई दृति (किस्ति) में रखे गये
गोदुग्ध के समान वह अपवित्र हो जाने से उनकी स्मृतियों से वे ज्ञातव्य होने पर धर्म
नहीं होंगे। अपितु वेद में उल्लिखित महर्षियों के ग्रन्थों से ही धर्म होता है—इसीलिए
आचार्य कुमारिल भट्ट ने कहा है—
“वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ।
नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥
तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः ।
वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥”
वेदोक्त अहिंसा आदि और बुद्धोपदिष्ट अहिंसा आदि समान नहीं है, क्योंकि उनके
मत में हिंसात्व अवच्छेद में हिंसा वर्जित होने से ज्योतिष्टोम आदि यज्ञ में भी हिंसा
परित्याज्य होगी, किन्तु, इस पक्ष में वेद विधि रूप में विहित हिंसा में पाप नहीं है,
अपि तु वेदविधि के अविषयत्व एवं वेद निषिद्धत्व रूप में हिंसा पाप है। ज्योतिष्टोम
आदि यज्ञ में हिंसा वेदविहित होने से वह अवश्य अनुष्ठेय है, किन्तु उनकी स्मृति के
अनुसार अहिंसा अवलम्बनीय होने से ज्योतिष्टोमादि यज्ञ के स्थल में भी हिंसा का परित्याग
करना होगा। सन्देह नहीं कि आज बौद्ध धर्मों में अतिशय अनुराग होने से विहित स्थल
में भी हिंसा के वर्णन का विपुल प्रयास चल रहा है साथ ही अमेध्य मांस भक्षण की
प्रवृत्ति भी उसी अनुपात में बढ़ रही है। धन्य है धर्म और अन्धानुराग-परम्परा एक
ओर हिंसा का विरोध और दूसरी ओर हिंसाजन्य उपलब्ध मांस भक्षण की अतिशय
प्रवृत्ति । इसीलिए वार्त्तिककार ने कहा है—
शोभासोक्त्यं-हेतूक्तिकलिकालवशेन वा ।
यज्ञोक्तपशुहिंसादित्यागभ्रान्तिमवाप्नुयुः ॥
वेदादिशास्त्रों में ब्राह्मण से भिन्न को विधिपूर्वक सम्प्रदान निषिद्ध है, किन्तु
बौद्धादिस्मृतियों में इसे ही प्रशंसनीय विषय के रूप में स्वीकार किया गया है। शम,
दम आदि के सम्बन्ध में भी यही रीति अपनानी चाहिए। अतः वेद बहिर्भूत बौद्धादि-
स्मृति प्रमाण नहीं है।
“अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्” इस सूत्र की व्याख्या में वार्त्तिककार
ने शिष्टाचार का प्रामाण्य प्रतिष्ठापित किया है। होलाक (होली का उत्सव) आदि कर्म
जो प्रत्यक्ष श्रुति से विहित नहीं हैं एवं स्मृतिकारों ने उन्हें निबद्ध नहीं किया है, किन्तु
शिष्ट = वेदप्रामाण्यवादियों ने इनका अनुष्ठान किया है। अतः यह विचारणीय है कि ये
शिष्टाचार प्रमाण है या नहीं ? इस सन्देह में यदि यह कहा जाय कि (पूर्वपक्ष के रूप में)
शिष्टाचार संख्याबद्ध एवं व्यवस्थित प्रमाण नहीं है, साथ ही अनेक शिष्टों ने भी बहुत

८ ] प्रथमाध्याये तृतीयपादः ४०३
से अकर्म किये हैं, अतः, शिष्टाचार प्रमाण नहीं है। इस प्रसङ्ग में कहा है—
"कारणाग्रहणे" शिष्टाचार के मूल में यदि काम, क्रोध आदि कारण न रहें तो
"प्रयुक्तानि" अर्थात् स्मृति रूप में निबद्ध न रहने पर भी वे कर्म शिष्टों के द्वारा आचार
के रूप में सम्पादित हो रहे हैं, वे "प्रतीयेरन्" धर्म के रूप में प्रतीत होंगे। "तेषु
अदर्शनात् विरोधस्य" अर्थात् उन कर्मों के विरुद्ध वचन शास्त्र में नहीं देखे गये हैं।
अतः शिष्ट धर्म की बुद्धि से जो अनुष्ठान कर रहे हैं, वे भी धर्म में प्रमाण है और
और वे ग्राह्य हैं। ये शिष्टाचार देश के भेद से, कुल के भेद से अनेक होने से, ग्रन्थ
के विस्तार के भय से स्मृतिकार ने उन्हें उपनिबद्ध नहीं किया है। इसीलिए उन्होंने
शिष्टाचार को प्रमाण कहा है। यथा—
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ मनु० २/६
समग्र वेद धर्म में प्रमाण है एवं वेदवेत्ताओं की स्मृतियां और शास्त्र शिष्टों का
आचार एवं आत्मतुष्टि धर्म में प्रमाण है। याज्ञवल्क्यस्मृति में कहा गया है—
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ (याज्ञव० स्मृ०)
श्रुति, स्मृति, सदाचार, अपना प्रिय अर्थात् आत्मतुष्टि एवं सम्यक् सङ्कल्पमूलक
कामना ये धर्म में प्रमाण है। अतः स्मृति के समान ही शिष्टाचार भी प्रमाण है। शिष्टा-
चार प्रमाण भी अनुमान के द्वारा ही प्रतिपादित है—
होलाक प्रभृति आचार प्रमाण हैं (प्रतिज्ञा)
यतः वे धर्मबुद्धि से शिष्टों से (वैदिकों) अनुष्ठित हैं (हेतु)
जैसे अष्टका आदि का अनुष्ठान (उदाहरण)
शिष्टाचार को प्रमाण मानने पर स्थल विशेष में शिष्टों का अकर्म भी प्रमाण होगा,
यह आपत्ति ठीक नहीं है, क्योंकि वे आचरण धर्म बुद्धि से उनके द्वारा सम्पादित नहीं
है। अतः अविगीत (अनिन्दित) शिष्टाचार को ही प्रमाण माना गया है ॥ ७ ॥
अथ चतुर्थयववराधिकरणम्
[४] तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् ॥८॥ पू०
शा० भा०—'यवमयश्चरुः, वाराही उपानहौ, वैतसे कटे प्राजापत्यान्
संचिनोति' इति यववराहवेतसशब्दान् समामनन्ति। तत्र केचिद्दीर्घशूकेषु
यवशब्धं प्रयुञ्जते, केचित् प्रियङ्गुषु। वराहशब्दं केचित्सूकरे, केचित्कृष्ण-
शकुनौ। वेतसशब्दं केचिद्वञ्जुलके, केचिज्जम्बवाम्। तत्रोभयथा पदार्थाव-
गमाद्विकल्पः ॥ ८ ॥

भा० वि०—एवं तावत्स्मृत्याचारयोः उत्सर्गतः प्रामाण्यम् श्रुतिविरोधे तद-
पवादम्, क्वचिदपवादादपवादं चोक्तेदानीमाचारयोरेव मिथो विरोधे किं बलीय
इति विचारयति इति । तत्र शब्दानामर्थविषये प्रयोगरूप आचारविशेषे विप्रति-
पत्त्या संशयं दर्शयितुं शब्दानुदाहरति—यवमय इत्यादिना । एतद्वाक्यगतानां
यव-वराह-वेतसशब्दानां लौकिकप्रयोगेषु विप्रतिपत्तिमाह—तत्र केचिदिति ।
अत्र प्रयुञ्जत इति प्रियङ्गवादिष्वनुषज्यमानवर्तमानोपदेशसामर्थ्याद्यव-वराह-
वेतसशब्दानां प्रियङ्गु-वायस-जम्बूष्वार्यप्रयोगाभावेऽपि, म्लेच्छप्रयोगे भाष्यकारे-
णोपलब्ध इति गम्यते, अतो नोदा^१हरणत्वानुपपत्तिरित्यवसेयम् अनेन च विप्रति-
पत्तिप्रदर्शनेन किं द्वावप्यर्थावृतैक एवेति तुल्यबलत्वातुल्यबलत्वाभ्यां संशयस्सू-
चितः, न चानवधृतप्रामाण्यस्य म्लेच्छाचारस्य बलाबलचिन्तैवानुपपन्नेति वाच्यम्,
उत्तराधिकरणन्यायेन प्रामाण्यावधारणमाश्रित्य बलाबलचिन्तोपपत्तेरित्यवसेयम् ।
प्रयोजनं तु विचारस्य चर्वादौ दीर्घशूकादेः प्रियङ्गवादिना सह विकल्पप्राप्तिः
तेष्वित्यादिसूत्रं योजयन् पूर्वपक्षमाह—तत्रेति ।
अयमर्थः यदि म्लेच्छप्रसिद्धेरार्यप्रसिद्धिर्बलीयसी, ततस्तत्सिद्ध एवार्थो
ग्राह्यः । नत्वेवं धर्मविषये शास्त्रानुसारिण्यास्तस्या बलवत्त्वेऽपि, वृद्धव्यवहाराव-
गम्यपदार्थेषु शिष्टम्लेच्छप्रसिद्धयोर्विशेषादर्शनेनोभयथा शिष्टानां स्वस्वप्रसिद्धा
म्लेच्छप्रसिद्धा च म्लेच्छानामपि स्वप्रसिद्ध शिष्टप्रसिद्धा च शब्दार्थावगमसंभवे
सति द्वयोरपि पदार्थप्रतिपत्त्योः मूलप्रमाणाविशेषेण तुल्यबलत्वाद्व्वावप्यर्थाविति
विकल्पेन पदार्थप्रयोगः प्राप्नोतीति । अनेन च तेषु पदर्थेषु शिष्टम्लेच्छप्रसिद्धयोः
विरोधस्य वैलक्षण्यस्य विशेषस्यादर्शनात्, समा-समबलैव स्यात् विप्रतिपत्ति-
रिति सूत्रार्थो दर्शितः ॥ ८ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषयप्रयोग-
शिष्टारविप्रतिपत्तौ सन्देहः ।
एकशब्दमनेकार्थ शिष्टैराचर्यते यदा ।
विगानेन तदा तत्र कोऽर्थः स्यात्पारमार्थिकः ॥ ३९९
यव-वराह-वेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयु-
ज्यन्ते ।
तेन तद्द्वचनत्वे हि सन्देह उपजायते ।
अनिरूपिततत्त्वानां यावद् दृष्टानुसारिणामम् ॥ ४००
तत्राऽऽह नैव सन्देहः कर्तव्योऽत्र मनागपि ।
प्रयोगं प्रति तुल्यत्वात्सर्वलोकप्रयोगिणाम् ॥ ४०१
१. अत्र वार्तिककृता भाष्यमते समुद्भाविते दोषं निरस्यतीति बोध्यम् ।

८ ] प्रथमाध्याये तृतीयपादः ४०५
यत्र देशे हि यः शब्दो यस्मिन्नर्थे प्रयुज्यते ।
शक्तिस्तद्गोचरा तस्य वाचिकाख्या प्रमीयते ॥ ४०२
तस्याश्च सर्वगामित्वं तन्न्यायत्वात्प्रमीयते ।
नैकेषामेव सा ह्यस्ति केषांचिद्वा न विद्यते ॥ ४०३
ज्ञाताज्ञातविभागस्तु ज्ञातृभेदेऽवकल्पते ।
तस्माच्चैरपि न ज्ञाता यच्छब्दार्थस्य वाच्यता ॥ ४०४
तैरप्यभ्युपगन्तव्या स्वप्रसिद्धिसमा हि सा ॥ ४०५
न चाल्पत्वबहुत्वाभ्यां प्रयोक्तॄणां विशिष्यते ।
वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ ४०६
बिभीतकेऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते ।
तथाऽपि वाचकस्तस्य ज्ञायते शकटाक्षवत् ॥ ४०७
तथा चोक्तं शवतिर्गतिकर्मा कम्बोजेष्वेव दृष्टः । विकारापन्नमार्याः प्रयुञ्जते,
शवमिति मृतशरीराभिधानादित्यादि । बहव एव हि धातवो नामशब्दाश्च प्रति-
देशमर्थभेदेषु व्यवस्थिता दृश्यन्ते तस्मात्समयेमभिधाने विप्रतिपत्तिः स्यात् । एवं
च विकृतिषु केषांचिदर्थानां साधारणशब्दवाच्यत्वात्प्रकृताविवाविकृतप्रयोगादार्षं
चोदकोऽनुग्रहीष्यते । 'तेष्वदर्शनाद्विरोधस्य' इत्यत्रैव चैतद् व्याख्येयम् । इतरत्र
विप्रतिपत्त्यविरोधयोरघटमानत्वात् । तस्मादाचारविप्रतिपत्तेः समत्वाद्विकल्प
इति प्राप्ते ॥ ८ ॥
न्या० सु० -- शिष्टाकोपाधिकरणे पूर्वपक्षोक्तं विरोधमभ्युपेत्य प्रमेयवलाबलीस्त्वमात्रेण
सिद्धान्ते विरोधादर्शनस्यावक्तव्यत्वात्तेष्वदर्शनादिति सूत्रावयवस्य पूर्वशेषत्वानुपपत्तेरुत्तर-
सूत्रशेषत्वं तस्मिन्पक्षेऽङ्गीकार्यमित्याह— तेष्विति । अत्र भाष्यकृता सौत्रविप्रतिपत्ति-
शब्दव्याख्यार्थं यवमयश्चरत्यादिवाक्यगतान्येव वराहवेसशब्दानुदाहृत्य वाच्यविषयप्रयोगे
विप्रतिपत्तिरुक्ता तत्रास्य विप्रतिपत्त्यभिधानस्य किं प्रयोजनम्, का च विचारसङ्गति-
रित्यपेक्षिते साधितप्रामाण्यशिष्टाचारबलाबलविचारात्मकत्वेन सङ्गतिं सूचयन्विचार-
विषयप्रदर्शनप्रयोजनमाह—शब्देति । शब्दस्यार्थविषयः प्रयोगः स चासौ शिष्टाचारश्च
तस्मिन् विप्रतिपत्ताविति विग्रहः । भाष्यकृद्व्याख्यानेऽपि स्मृत्यधिकरण एवाचारप्रामाण्य-
स्यापि व्युत्पादितत्वाद्विरोधाधिकरणे तस्यापि स्मृतिवद्वेदविरोधविषये प्रामाण्येऽपोदिते
शिष्टाकोपाधिकरणे च क्रत्वङ्गपदार्थविषयाचाराणां क्रमाद्यविरोधाद्विरोधेऽपि वा प्रमेय-
बलीयस्त्वादनपवादेऽभिहिते सम्प्रत्याचारयोरेव परस्परविरोधे किं बलाबलविरोधोऽस्तु,
न वेति चिन्ता सङ्गतेवेत्याचारशब्देन सूचितम् । व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव
बलाबलचिन्ता युक्ता, नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्येति मत्वोद्भाष्यमपि शिष्टा-
चारविषयत्वं चिन्तायाः शिष्टशब्देन सूचितम् ।

४०६ मीमांसादर्शनम् [ सू०
कीदृशः सन्देह इत्यपेक्षायामाह—एकशब्दमिति । एकः शब्दोऽस्मिन्ननेकार्थोऽस्मिन्निति
द्वावपि बहुव्रीही । आचयंत इति भावेोत्पन्नलकारान्तेनाचरणं क्रियत इत्युक्तम् ।
आचरणमन्यपदार्थः । अक्षादिशब्दवैलक्षण्यप्रतिपादनार्थंविप्रतिपत्तिशब्दव्याख्यानार्थम्—
विगानेनेत्युक्तम् । कोऽर्थं इति, किं द्वावप्युतैक एवेत्यर्थः । ननु शास्त्रानुसारिशिष्ट-
व्यवहारावगतस्यैव वाच्यत्वनिर्णयात्सन्देहो न युक्त इत्याशङ्क्याह—यवेति । अविद्यमान-
प्रयोगारोपसूचनार्थः किलशब्दः वाच्यवाचकसम्बन्धे शास्त्रस्याव्यापारसूचनाय—अनिरू-
पितेत्याद्युक्तम्—समेति पूर्वपक्षप्रतिपादनाथंसूत्रावयवव्याख्यानार्थं तत्रेति भाष्यं व्याचष्टे—
तत्राहैति । भाष्ये च विकल्पशब्देन प्रतिज्ञानार्थत्वमुभयथेत्यनेनास्यैवावृत्त्या हेत्वर्थत्वं
व्याख्यातमिति सूचयितुम्—तुल्यत्वादियुक्तम् । सर्वलोकस्थानां प्रयोगिणामित्यर्थः । तुल्य-
त्वमेवोपपादयति—यत्रेति ।
नन्वेवमपि देशव्यवस्थया वाच्यव्यवस्थोपपत्तेः समविकल्पो न युक्त इत्याशङ्कयाह—
तस्याश्चेति । तस्मिन्सर्वंगामित्वे न्यायो युक्तिर्यस्याः शक्तेरस्ति, सा तन्न्याया तद्भावस्त-
न्न्यायत्वम् । कीदृशो न्याय इत्यपेक्षायामाह—नैकेषामिति । एकस्यैव वस्तुनः सदसत्त्व-
विरोधादित्याशयः । एवं तर्हि सर्वान्प्रत्यसत्त्वमेवास्त्वित्याशङ्क्य, सत्त्वे कस्यचिद्दर्शनानु-
पपत्तेन्निराकरोति—केषांचिद्वेति । सर्वेषामपि पुंसां पाचकशक्तिनं विद्यत इत्येतदपि
नास्तीत्यर्थः । ननु सदसत्त्ववदेकस्य ज्ञाताज्ञातत्वविरोधोऽपि स्यादित्याशङ्क्य, ज्ञानव्याप्य-
त्वाव्याप्यत्वोपाधिकत्वादज्ञाताज्ञातत्वयोर्ज्ञानस्य च पुरुषाश्रितत्वेन तद्भेदे सदसत्त्वाविरो-
धान्निराकरोति—ज्ञातेति । शक्तेः सर्वगामित्वमुपपादितमुपसंहरति—तस्मादिति । नन्वष्ट-
दोषविकल्पापादकमनेकक्तिकल्पनमन्याय्यमेवागृह्यमाणविशेषत्वेनागत्या क्वचिदङ्गीक्रियते,
इह तु प्रयोक्तुरल्पत्वबहुत्वविशेषग्रहणान्नानेकक्तिकल्पनं युक्तमित्याशङ्क्याह—न चेति ।
दृष्टान्तं व्याचष्टे—विभीतक इति । एकदेशप्रयुक्तानामपिशब्दानां सर्वगामित्वं निरुक्त-
कृद्वचनेन द्रढयति—तथा चेति । प्रकृतय एवैकेषु जनपदेषु प्रयुज्यन्ते, विकृतय एवैकेष्वि-
त्युपक्रम्य निरुक्तकृता शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारमस्यार्या भाषन्ते शव-
ति-२-२-८ इति युक्तम् । तदर्थतः पठितम् । कम्बोजेष्वेव जनपदविशेषेषु शवतिर्धातुर्गति-
वाची दृष्टः । गच्छतीत्यस्मिन्नर्थे शवतीति प्रयोगात् । आर्यास्तु जनपदविशेषाः ऋदोर-
बित्यप्रत्ययान्तत्वेन विकारापन्नं शवतिधातुं न गतौ युञ्जते । शवशब्देन मृतस्याभिधाना-
दित्यर्थः । महाभाष्यकृता तु विकारापन्नमार्या भाषन्तइति पाठान्तरमुदाहृतम् । तत्र मृता-
वस्था विकारशब्देनोक्ता । न केवलं शवतिरेव देशविशेषे व्यवस्थितः । किं त्वन्येऽपि
बहवो धातवो नामशब्दाश्च व्यवस्थिता एव प्रयुज्यन्ते—इत्यादीति । प्राच्येषु हि जनपदेषु
दातिर्धातुर्लवनार्थो दातीत्यस्मिन्नर्थे चतीति प्रयोगात् तमेव दात्रमिति ष्ट्रन्प्रत्ययान्तत्वेन
विकारापन्नमुदीच्याः प्रयुञ्जते ।
प्राच्येषु गच्छतीत्यर्थे मध्यमेषु वरं हृति ।
हन्ततिश्च सुराष्ट्रेषु गमिस्त्वार्येषु भाष्यते ।।

८ ] प्रथमाध्याये तृतीयपादः ४०७
महाभाष्यकृतैस्तेऽन्ये प्रतिदेशं व्यवस्थिताः ।
उदाहृता धात्वतोऽतो त्रादिशब्दस्तदाशयः ॥
पूर्वपक्षमुपसंहरति—तस्मादिति ।
तेष्वदर्शनादित्युपक्रमसूचनं समेत्यस्य प्रतिज्ञामात्रार्थत्वादुभयशव्दार्थावगम इत्यनेन
तेष्विति सूत्रावयवो हेत्वर्थेन योजितः । तद्व्याचष्टे—एवं चेति । प्रकृतिवदिति हि चोद-
केनार्षं समाम्नायावगतमेव मन्त्ररूपमतिदिश्यते, कार्यप्राधान्यात् तदसम्भवे व्रीह्यादिशब्द-
स्थाने नीवारादिशब्दोहेनानन्यथात्वं कल्प्येत । साधारणशब्दे च न तत्कल्पनापत्तिरित्यर्थः ।
किमिति विकृतिविषयत्वेनायं सूत्रावयवो व्याख्यात इत्यपेक्षिते प्रकृतौ विप्रतिपत्तिदर्शनेना-
विरोधाद्योगादिति कारणमाह—तेष्विति । एतदुपक्रमत्वस्यानभिमतत्वद्योतनार्थं पूर्वोप-
क्रमाभिप्रायेण समेत्यस्यैवावृत्त्या हेत्वर्थत्वं दर्शयन्नुपसंहरति--तस्मादिति ।
शास्त्रस्था वा तन्निमित्तत्वादिति सिद्धान्तसूत्रं स्वयं तावदवतारणपूर्वकं व्याचष्टे—
इतीति । वाशब्देन साम्यं निराकृत्य पूर्वसूत्रगतस्याच्छब्दानुषङ्गेण शास्त्रस्था स्यादित्युक्ते,
तस्या एव बलीयस्त्वमर्यादुक्तं भवतीति मत्वा—बलीयसीत्युक्तम् । शास्त्रानुसारवगत-
शब्दार्थंगतगुणयोगनिमित्तत्वेनाप्यर्थान्तरप्रतीत्युपपत्तेर्नोभयत्र शक्तिः कल्प्येत्येवमर्थत्वेन
तन्निमित्तत्वादिति सूत्रावयवं व्याख्यातुम्—लौकिकोत्युक्तम् । एतदेव विवृणोति—नानेति ।
भाष्यकृता त्वेकस्यापि वाच्यत्वे तत्सादृश्येनेतरप्रतीत्युपपत्तेर्नोभयोः, साम्यं कल्प्यमिति
वाशब्दं व्याख्याय, कः पुनरित्यादिना 'शास्त्रस्थेति' विष्ठत्यावृत्त्या शिष्टापरत्वेन शास्त्रस्थ-
शब्दो व्याख्यातः ।
तन्निमित्तत्वादिति च तेषां शिष्टानां श्रुतिधारणवच्छन्दार्थस्मृतिधारणवच्छब्दार्थस्मृति-
धारणनिमित्तत्वादित्येवं तेषामित्यादिना व्याख्याय शास्त्रनिमित्तत्वाच्छिष्टगतायाः प्रतिपत्ते-
रिति, तस्यैवावृत्त्या ते चैवमित्यादिना व्याख्यानानन्तरं तत्र शास्त्रस्थशब्दव्याख्यानार्थं
तावद्भाष्यं व्याचष्टे—शास्त्रस्था इति । तेषामित्यादिभाष्यं व्याचष्टे—सप्रत्ययेति । सप्र-
त्ययतरत्वं तेषामुपपादयति —शास्त्रार्थेष्विति । शिष्टानां प्रत्ययिततरत्वोपपादनस्य प्रकृतो-
पयोगमाह—तस्मादिति ।
ननु शिष्टप्रतिपत्तेर्बलीयस्त्वेऽप्यविरोधादर्थान्तरस्यापि वाच्यत्वे भविष्यतीत्याशङ्का-
निराकरणार्थत्वं द्योतयितुं यवशब्द इत्यादि वाशब्दव्याख्या । भाष्याभिप्रायमिदानीं
व्याचष्टे—अनवस्थितेति । ते चैवमित्यादिभाष्यं व्याचष्टे — अविप्लुतश्चेति । ननु वाक्य-
शेषकृतस्य निर्णयस्य यवमयश्चरुरित्यादिषु वाक्यशेषरहितेष्वसम्भवात्प्रस्तुतोदाहरणगत-
शब्दार्थनिर्णयो न सम्भवतीत्याशङ्क्य, अभिधेयनिर्णयस्यैकत्र कृतस्याविशेषात्सर्वत्र निर्णय-
कत्वं वक्ष्यमाणमभिप्रेत्य परिहरति—तत्रेति । भाष्यकारोयस्य करम्मविधिधेषत्वाभिधा-
नस्य विध्यन्तरशेषत्वव्यावृत्त्यर्थत्वशङ्कानिराकरणार्थं विध्यन्तरं दर्शयति—यवमतीभि-
रिति । दीर्घशूकानिति भाष्यमुपपादयति—फाल्गुन इति । तस्माद्वराहमित्यादिवराह-

४०८ मीमांसादर्शनम् [ सू०
वेतसशब्दार्थनिर्णयार्थं वाक्यशेषान्तरोपन्यासभाष्यं व्याचष्टे-एवमिति । त्रिवृदादिशब्दा-
भिप्रायं बहुवचनम् ।
व्युत्पादितप्रामाण्यस्य शिष्टाचारस्यैव परस्परविरोधे साम्यवैषम्यचिन्ता युक्ता ।
नाव्युत्पादितप्रामाण्यस्य म्लेच्छाचारस्य । न क्वचित् शिष्टदेशे यवादिशब्दः प्रियङ्गवा-
दिषु प्रयुज्यत इति मत्वोदाहरणानि दूषयति-नन्वेतानीति । नन्वेतदुदाहरणसम्भवेऽप्यु-
दाहरणान्तरेषु न्यायस्य फलवत्त्वोपपत्तेरुदाहरणदूषणमयुक्तमित्याशङ्कयाह-अध्यारोष्येति ।
उदाहरणान्तरसम्भवे तदेवोदाहार्यं, न त्वसद्ध्यारोपो युक्त इत्याशयः । न चोदाहरणान्त-
रेऽप्ययं न्यायो व्युत्पाद्य, अन्यत्र व्युत्पादयिष्यमाणत्वादित्याह-सन्दिग्धेषु चेति । न
केवलं यवाद्युदाहरणानि न कार्याणि, तु विचारणापि न कार्येत्यपिशब्दो योज्यः । यद्वो-
दाहरणाभावात्तावन्न कार्या पौनरुक्त्यादपीति ।
ननु तत्रोपादाननिर्णयाद्वाक्यशेषवलाच्चैकत्वं धूतोपादाननिर्णयेऽन्यत्र वाक्यशेषा-
भावेऽपि तदेवोपादेयमिति नियमाभावादिह त्वभिधेयनिर्णयादेकत्र चाभिधेयत्वेन निर्णीत-
स्यान्यत्रापि तद्रूपत्यागायोगात्सर्वत्राभिधेयत्वनिर्णयः इत्यपौनरुक्त्यमाशङ्क्य न्यायफल-
वैषम्येऽपि विधिस्तुत्योरेकविषयत्वनियमात्स्तुत्यस्यैव विधेयत्वमिति व्युत्पाद्यन्यायस्वरूपै-
क्यादपरिहार्यं पौनरुक्त्यमित्याह-यद्यपीति ।
ननु नात्र दीर्घशूकादीनां यवादिशब्दवाच्यत्वसन्देहो निराक्रियते, किं तु दीर्घशूका-
दिवत्प्रियङ्गवादीनामपि प्रतीतिप्रयोगाभ्यानुपपत्त्या प्रसक्तावाच्यता गौणत्वेनापि प्रतीति-
प्रयोगोपपादनेन निराक्रियते । नासावन्यत्र निराकृतेत्याशङ्कयाह-तत्सिद्धिसूत्रे चेति ।
गौणत्वसम्भवेऽपि प्रतीतिप्रयोगमात्रेण प्रसिद्धार्थत्यागेनाप्रसिद्धार्थकल्पने जहत्स्वार्थाभिधायि-
त्वं स्यात्, तस्य च तत्सिद्धिसूत्रे निराकरिष्यमाणत्वात्तेन सह पौनरुक्त्यं स्यादित्याशयः
एवं शिष्टाचारयोरेव परस्परविरोधे वाक्यशेषानुसारिणः शब्दार्थविषयप्रयोगरूपस्य शिष्टा-
चारस्य प्रामाण्यम्, इतरस्य गौणत्वेनाप्युपपत्तेरप्रामाण्यमिति भाष्यार्थं मत्वोदाहरणा-
भावात्पौनरुक्त्यापत्तेश्च दूषयित्वेदानीमार्यम्लेच्छाचारयोरिह साम्यवैषम्यचिन्ता वाक्यशेष-
निरपेक्ष्येण च निर्णय इत्यभिप्रेत्य समाधत्ते-तस्मादिति ।
वाक्यशेषनैरपेक्ष्यद्योतनार्थमन्यग्रहणं न तु यवादिशब्दोदाहरणनिराकरणार्थम् ।
अनन्तदेशाग्रहणेन सर्वदेशप्रयोगाभावस्य केनापि निश्चेतुमशक्यत्वाद्द्वाभ्यङ्गीकरणाच्चार्यदेश-
प्रयोगाभावेऽपि म्लेच्छदेशे क्वापि प्रयोगोऽस्तीति निश्चयोपपत्तेः । पूर्वं वा व्युत्पादित-
प्रामाण्यस्यापि म्लेच्छाचारस्यानन्तराधिकरणे शब्दार्थविषये व्युत्पादयिष्यमाणप्रामाण्यस्य
वक्ष्यमाणालोचनेन विचारोपपत्तेर्भाष्यकृतापि शास्त्रस्थशब्दं शिष्टाभिप्रायं व्याचक्षाणेनार्य-
म्लेच्छप्रयोगयोरेवात्र साम्यवैषम्यचिन्तेति, सूचितमित्यविरोधः । वाक्यशेषोपन्यासस्त्वति-
शयार्थः । तत्सिद्धिसूत्रस्य च गौणवृत्तिलक्षणमात्रपरत्वान्न तेनापि पौनरुक्त्याशङ्केत्यनवद्यम् ।
ननु म्लेच्छाचारस्य प्रामाण्याभावान्न साम्येन पूर्वपक्षः सम्भवतीत्याशङ्क्यादृष्टार्थव्यवहा-
र्यार्यम्लेच्छयोर्विशेषाभावान्निराकुर्वन्पूर्वपक्षयति-समेति । एतदेव विवृणोति-आर्यास्ता-

८ ] प्रथमाध्याये तृतीयपादः ४०९
वदिति । आर्यम्लेच्छानां प्रयोगिणामिति विग्रहः । तुल्यत्वोपपादनायोत्तराधिकरणसिद्धं
शब्दार्थविषये म्लेच्छाचारस्यापि प्रामाण्यं दर्शयति - सर्वो हीति । आर्यप्रयुक्तवत् म्लेच्छ-
प्रयुक्तस्यापि शब्दस्यार्थप्रत्ययाङ्गत्वप्रदर्शनाथंः सर्वशब्दः ।
ननु गव्यादिशब्दस्यावाचकस्याप्यर्थप्रत्ययायत्वदर्शनान्न तन्मात्रेण म्लेच्छप्रसिद्धे-
रर्थान्तरे यवादिशब्दां वाचकत्वशक्तिः कल्पयितुं शक्येत्याशङ्क्याह - तत्रेति । शक्तेः
कारणाश्रितत्वादर्थप्रत्ययकारणस्य च गव्यादिशब्दस्यादिमत्त्वेनानादिशक्त्याश्रयत्वायोगाद-
वाचकत्वं युक्तम्, यवादिशब्दस्य तु यादृशस्यार्यैः प्रयोगः तादृशस्यैव'म्लेच्छैरित्यविशिष्टत्वेना-
नादित्वावधारणेनानादिशक्त्याश्रयत्वोपपत्तेर्नाविद्यमानशक्त्यारोपकल्पनाक्लेशो युक्त इत्य-
विशिष्टशब्देन सूचितम्, नन्वनादित्वेऽपि यवादिपदार्थसम्बन्धानवस्थितत्वादिवोषापत्तेरेकस्थाने-
ऽनेककृतिकल्पनायोगान्न म्लेच्छप्रसिद्धेऽर्थेऽनादिसामथ्यं कल्पनमित्याशङ्कयाह - यथैव हीति ।
अगृह्यमाणविशेषत्वादक्षादिशब्दवद्गत्यात्राप्यनेकक्तिकल्पनं युक्तमित्याशयः । अविशिष्ट-
त्वमेवोपपादयति-नेति । ततश्च प्रयोगाव्यदर्शनादायंम्लेच्छप्रसिद्धार्थविषययोः शब्दशक्तचो-
रनादित्वात्कथं विशेषोऽवगम्यतामित्यर्थः । न च म्लेच्छसम्बन्धमात्रं शक्त्यभावे कारणमिति
दृष्टान्तेनोपपादयति - यथैवेति । म्लेच्छैः स्वार्थे प्रयोगात्तस्मिन्नप्यर्थे शब्दो वाचकः
परीक्षकाणामिष्ट इति योज्यम् । मुख्यत्वेनैव प्रयोगाद्गौणत्वशङ्कानिवृत्त्यर्थः स्वशब्दः ।
पूर्वपक्षमुपसंहरति - तस्मादिति । वाक्यशेषनैरपेक्ष्यप्रदर्शनार्थमुदाहरणान्तरम् ।
ननु यवाद्युदाहरणार्थव्यावृत्त्यर्थमित्युपपादितमेव । उत्तरसूत्रेण सिद्धान्तमाह-इतीति ।
शास्त्रस्थाः पुरुषायावेति भाष्यानुसारिव्याख्याभिप्रायः पूर्ववच्छब्दः । वाक्यशेषस्त्वतिशयार्थं
भाष्यकृतोक्तो न निर्णायकत्वेनेत्यविरोधः शब्दापभ्रंशवच्चार्थापभ्रंशस्याप्युपपत्तेनं प्रतीति-
प्रयोगमात्रेणैकान्ततः सर्वेषामर्थानामेकस्माच्छब्दात्प्रतीयमानां वाच्यत्वनिर्णयः सम्भवतीति,
कल्पनालाघवादेकस्यैव वाच्यत्वे निर्णीते कस्यैकस्येत्यपेक्षायां शास्त्रस्थानामभिधेयाभियोगा-
विशेषात्तत्प्रयोगवशेन वाच्यत्वावधारणमिति व्याख्यान्तरमाह-किं चेति । यथा
गव्यादिषूत्तमवृद्धेन प्रमादेनाशक्त्या वोच्चारितेषु साध्वनुरूपत्वात्तदनुमानेन साधुवाच्यमर्थं
मध्यमवृद्धस्य प्रतिपादयत्सुव्युत्पित्सोर्वाचकत्वभ्रान्तिर्जायते तथा म्लेच्छैर्गौण्य ोवृत्त्या
भ्रान्त्या वा हस्त्याद्यर्थे पील्वादिशब्देन प्रतिपादिते व्युत्पित्सोर्वाच्यत्वाभ्रान्तिर्जायत इत्यर्थः ।
एतदेव विवृणोति - शब्देति । उपसंहरति - अत इति । अस्यां च व्याख्यायामार्य-
प्रयोगयोरपि परस्परविरोघेऽभियुक्ततरबलीयस्त्वं शिद्ध्यतीत्यादि-एतेनेति । इदानीं
भाष्यमनपेक्ष्य स्मृत्याचारयोर्विरोधे किं द्वयोस्तुल्यत्वमाचारो वा बलीयान् स्मृतिर्नेति त्रेधा
सन्दिह्य, साम्यपक्षे समा विप्रतिपत्तिः स्यादित्येतावत्सूत्रं योजयति - स्मृतीति ।
पक्षद्वयोद्देशार्थी वैषम्यशब्दः ।
तेष्वदर्शनादित्यूपक्रममाचारबलीयस्त्वे योजयति - यद्वेति । अयमाशयः । शिष्टपरिग्रह-
दाढ्यॅनोमयोर्भ्रान्त्यादिमूलत्वासम्भ्रगन्मिथ्यात्वलक्षणस्तावद्बाधो न युज्यते, किं तु यथा
प्रत्यक्षश्रुतिविरोधे यावदेकं श्रुतौ कर्मेत्यादिना स्मृतेरनुष्ठानाह्यफलापहारमात्रलक्षणा,

४१० मीमांसादर्शनम्
बाधो मूलश्रुतिदर्शनं यावदुक्तः तथात्रापि वाच्यः। न चानुष्ठानात्मकस्याचारस्यासौ
सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्रुत्यनुमानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च
स्मृत्याचारानुमितयोः श्रुत्योर्बलाबलविशेषोऽस्तीत्याशङ्कयाह — श्रुतिरिति ।
स्मृतेर्वाक्यात्मकत्वेनानेकरूपार्थप्रतिभाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रुतिकल्पनेन
यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः, आचारस्य त्ववाक्यात्मकत्वेनान्यथात्वकल्पनायोगाद्य-
थाशिष्टैरनुमीयते, तथैवानुष्ठेयमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यत इत्याशयः ।
एतदेव विवृणोति — यावद्धीति । अस्मिन्पक्षे तेष्वाचारेषु स्मृतिमूलश्रुत्यनुमानात्प्राग्विरोधा-
दर्शनात्प्रतिष्ठितेषु बाधासम्भवाद् बलीयस्त्वमेव तावद्युक्तम्, तदनङ्गीकरणे वरं साम्यमस्तु,
न त्वाचारस्य दौर्बल्यमिति सूत्रं योज्यम् । द्विविधमपि पूर्वपक्षमुपसंहरति — तेनेति ।
शास्त्रस्था वेति सूत्रेण सिद्धान्तमाह — स्मृतीनां वेति । स्मृत्यभिप्रायः शास्त्रशब्द
इत्याशयः । तन्निमित्तत्वादिति शास्त्रत्वसामान्येन प्रकृतत्वाद् वेदाख्यं शास्त्रं तच्छब्देन
परामृश्य श्रुतिमूलत्वं हेतुरुच्यते । तच्चोभयोः स्मृत्यधिकरणे प्राप्तम्, विरोधे पुनरुच्यमान-
माचाराणां श्रुतिमूलत्वपरिसंख्यार्थम् । तत्रोभयोः श्रुत्यनुमापकत्वाविशेषे विरोधेऽपि स्मृतेरेव
श्रुतिमूलत्वम्, नाचारस्येति कथमवसीयत इत्यपेक्षायामाह — उभयोरिति । असाभ्यमुप-
पादयति — सप्रत्ययेति । प्रत्ययशब्देन ज्ञानं विश्वासो वाऽभिधीयते । ऋषित्वान्च्च मन्वादेः
साक्षात्कृतधर्माण ऋषय इति स्मृतेः, सकलधर्मतत्त्वज्ञानसम्पन्नतवावसायादाचार्यवचः
प्रमाणमिति च श्रुतेर्धर्मप्रवक्तृत्वेनावधारिताचार्यत्वस्य मन्वादेः सत्यवादित्वावगमादप्रतार-
कत्वेन विश्वास्यत्वात्तत्प्रणीतायाः स्मृतेर्वेदविरोधेऽपि श्रुतिमूलत्ववारणशक्यत्वस्योपपादि-
तत्वादाचारविरोधे का कथेत्याशयः । अर्वाचीनानां तु सकलधर्मतत्त्वज्ञानाभावात्प्रमादादि-
सम्भवाच्च तदाचारस्य श्रुतिमूलत्वकल्पने श्रुतिस्मृतिविरोधो विघ्नकारीत्यर्थादुक्तम्,
लिङ्गवाक्यवच्च सन्निकर्षविप्रकर्षविशेषादपि स्मृत्याचारयोर्बलाबलविशेषोऽवसीयत इत्याह-
आचारास्त्विति । चशब्दार्थे तुशब्दस्मृतेर्वा साक्षाच्छ्रुतिकल्पनत्वद्योतनार्थः ।
ननु स्मृतिवदाचारस्यापि साक्षाच्छ्रुतिमूलत्वोपपत्तेः किमन्तरा स्मृतिकल्पनयेत्या-
शङ्कयाह — न हीति । अयमाशयः तदानीन्तनानां मन्वादिवत्सकलवेदार्थतत्त्वज्ञानमस्ति
यतः तदाचारस्य साक्षाच्छ्रुतिमूलत्वं सम्भाव्यते, एवं सत्यपि यद्येकैव काचिच्छ्रुतिः
सर्वाचाराणां मूलभूता स्यात्, ततस्तस्याः कथञ्चित्तात्पर्यावधारणसम्भवात्साक्षादिदानीन्त-
नपुरुषाचारमूलत्वं सम्भाव्येत, न त्वसौ — सम्भवतीत्युक्तम् । यद्यपि सदाचारः प्रमाणमिति
स्मृत्यनुरूपैका श्रुतिः कल्प्येत, तथापि तस्याः शिष्टाचरानुवादेन प्रामाण्यप्रतिपादनमात्र-
परत्वेनाचारप्रवर्त्तकत्वाभावाम्मूलत्वं न सम्भवतीति दर्शयितुम् — प्रवर्त्तिकेत्युक्तम् ।
यत्तु यद्वा शिष्टात्मतुष्टीनामित्यादिनाशिष्टानुष्ठानमात्रेणाचारादीनां श्रेयःसाधनत्वान्न विधायक-
श्रुत्यपेक्षेत्युक्तम्, त-च्छ्रुतिस्मृतिविहितो धर्मं । तदलाभे शिष्टाचारः प्रमाणमिति वशिष्ठ-
वचनपर्यालोचनया, मानवीयस्यापि वेदोऽखिलो धर्ममूलमिति स्मृत्याचारादिष्वनुशक्तस्य
धर्ममूलशब्दस्य ।

८ ] प्रथमाध्याये तृतीयपादः ४११
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म० २/१२
इति लक्षणशब्दस्य च प्रमाणपरत्वावसायात्प्रौढिमात्रमित्यवगम्यते । भिन्नानामप्याचार-
मूलभूतानां श्रुतीनां मिलितानामेकत्र पाठे तात्पर्यावधारणं सम्भाव्यते, तासां तु नानाप्रक-
रणस्थानां विध्यन्तरशेषत्वेन पठितानां पुरुषधर्माचारविधिपरत्वस्याल्पप्रज्ञैरिदानीन्तनेर्निर्णें-
तुमशक्यत्वाच्छिष्टाचारपारम्पर्यस्मृत्यैव कस्यचिद् बहुवेदविदः प्रज्ञातिशयसम्पन्नस्याचारमूल-
श्रुतितात्पर्यावधारणमासीदिति कल्पयित्वेदानीन्तनशिष्टप्रवृत्तिर्भवति स्मृत्या व्यवायः श्रुतिक-
ल्पनेत्येति विप्रकीर्णत्वमुपपादयति—नेति । विध्यन्तरशेषत्वेन स्तुतिमात्रत्वेनावभास-
मानस्यापि सिद्धवत्सङ्कीर्तनान्यथानुपपत्तिप्रापकविध्याक्षेपकत्वकल्पनाक्लेशः कथंचिच्छब्दे-
नोक्तः । आचारमूलश्रुतीनां तात्पर्यावधारणक्लेशप्रदर्शनार्थैवोदाहरणानि दर्शयन्पात्र
धारणपूर्वकभोजनाचारमूलभूतां तावच्छ्रुतिमुदाहरति—तद्यथेति । क्रत्वर्थत्वशङ्कासूचनार्थः
प्रकरणोपन्यासः । स्तुतिमात्रशङ्कासूचनार्थं विध्यन्तरशेषत्वोपन्यासः । एकेन परिगृह्येत्त-
रेणात्तीति श्रुत्यर्थः । कथं तर्ह्याचारपरविधिपरत्वनिर्णय इत्याशङ्क्य—सत्यपीत्याद्युक्तम् ।
नन्वन्नस्कन्दनशङ्कापरिहारार्थत्वेन पात्रधारणास्यार्थप्राप्तस्य नुवादोपपत्तेर्नात्र विधिः
कल्पनीयः अत आह—न चैतदिति । सम्यक्पात्रप्रतिष्ठापनेनाप्यन्नस्कन्दनशङ्कापरिहारोप-
पत्तेर्नियमार्थो विधिः सम्भवतीत्याशयः । स्वभावात्प्रयोजनवशाद्धाऽऽर्थिकी नियता प्राप्तिः
स्यात् त्वेतदुभयमप्यत्रास्तीति दर्शयितुं वैषम्यदृष्टान्तद्वयम् ।
दक्षिणहस्तभोजनाचारमूलभूतां श्रुतिमुदाहरति—एवमिति । स्त्रीणां पूर्वं सव्याक्ष्यं
जनाचारमूलमुदाहरति -- तथेति । शेषभूतविध्यन्तरोपन्यासस्य प्रयोजनमुक्तम् । स्त्रीणां
पत्यन्तरवर्जनाचारस्य मूलमुदाहरति तथेति ।
रजस्वलाचारमुदाहरति—तथेति । विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीदिति
तै० सं० २।५।१ । प्रकृत्य तस्य वज्रमादाय शीर्षाण्यच्छिनदितीन्द्रस्य त्वाष्ट्रवधनिमित्तब्रह्म-
हत्याप्राप्तिमुक्त्वा, स पृथिवीमुपासीददस्यै ब्रह्महत्यायै तृतीयं प्रत्यगृह्णानेत्यादिपृथिव्यादीनां
ब्रह्महत्याविभागमुपक्रम्य स स्त्रीसंसदमुपासीददस्यै ब्राह्महत्यायै तृतीयं प्रतिगृह्णातीन्द्र-
प्रार्थितानां स्त्रीणां तृतीयं ब्रह्महत्यायै प्रत्यगृह्णन्निति ब्रह्महत्यायास्तृतीयस्य विभागस्य प्रति-
ग्रहम्, तन्निमित्तं च मलवद्वासस्त्वमुक्त्वा न मलवद्वाससा सह संवदेन्नास्या अन्नमद्यादिति,
तदुपगमनं निषिध्य, यां मलवद्वाससमभिसम्भवति यतस्ततो जायते सोऽभिशस्तो
यामरण्ये तस्यै तस्यै स्तेनो यां पराचीम्, तस्यै हीतस्य मुख्यप्रगल्भा इत्युपगमननिषेध-

  • शेषभूतां निन्दामुक्त्वा तत्प्रस्तावेनागतानां रजस्वलाव्रतानां या स्नाति, तस्या अप्सुमारुका
    याभ्यङ्क्ते, तस्यै दुश्चर्मायाप्रलिखते, तस्यै खलति रपमारी याऽङ्क्ते तस्यै काणो पादतो
    धावते वस्यै श्यावदन्ता, या नखानि निकृन्तते, तस्यै कुनखी या कृणत्ति, तस्यै क्लीबो या,
    रज्जुं सृजति, तस्या उद्बन्धको, या खर्वेण पिबति, तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेदिति-
    स्नानादिनिन्दाद्वारेणोक्तानामग्निषोमीयपुरोडाशयागविधिशेषत्वेन प्रतीयमानानां प्रकरणा-

४१० मीमांसादर्शनम्
बाधो मूलश्रुतिदर्शनं यावदुक्तः तथात्रापि वाच्यः । न चानुष्ठानात्मकस्याचारस्यासौ
सम्भवतीति । नन्वाचारस्यापि स्मृतिवच्छ्रुत्यनुमानेनैव प्रामाण्यं न स्वातन्त्र्येण । न च
स्मृत्याचारानुमितयोः श्रुत्योर्बंलाबलविशेषोऽस्तीत्याशङ्कयाह — श्रुतिरिति ।
स्मृतेर्वाक्यात्मकत्वेनानेकरूपार्थप्रतिमाने प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादनपरश्रुतिकल्पनेन
यथाश्रुतार्थत्यागलक्षणो बाधो युक्तः, आचारस्य त्ववाक्यात्मकत्वेनान्यथात्वकल्पनायोगाद्य-
थाशिष्टैरनुमीयते, तथैवानुष्ठेयमित्यनुष्ठानाख्यफलनिष्ठैव श्रुतिः कल्प्यत इत्याशयः ।
एतदेव विवृणोति — यावद्धीति । अस्मिन्पक्षे तेष्वाचारेषु स्मृतिमूलश्रुत्यनुमानात्प्राग्विरोधा-
दर्शनात्प्रतिष्ठितेषु बाधासम्भवाद् बलीयस्त्वमेव तावद्युक्तम्, तदनङ्गीकरणे वरं साम्यमस्तु,
न त्वाचारस्य दौर्बल्यमिति सूत्रं योज्यम् । द्विविधमपि पूर्वपक्षमुपसंहरति — तेनेति ।
शास्त्रस्था वेति सूत्रेण सिद्धान्तमाह — स्मृतीनां वेति । स्मृत्यभिप्रायः शास्त्रशब्द
इत्याशयः । तन्निमित्तत्वादिति शास्त्रत्वसामान्येन प्रकृतत्वाद्देवाख्यं शास्त्रं तच्छब्देन
परामृश्य श्रुतिमूलत्वं हेतुरुच्यते । तच्चोभयोः स्मृत्यधिकरणे प्राप्तम्, विरोधे पुनरुच्यमान-
माचाराणां श्रुतिमूलत्वपरिसंख्यार्थम् । तत्रोभयोः श्रुत्यनुमापकत्वाविशेषे विरोधेऽपि स्मृतेरेव
श्रुतिमूलत्वम्, नाचारस्येति कथमवसीयेत इत्यपेक्षायामाह — उभयोरिति । असाम्यमुप-
पादयति — सप्रत्ययेति । प्रत्ययशब्देन ज्ञानं विश्वासो वाऽभिधीयते । ऋषित्वाच्च मन्वादेः
साक्षात्कृतधर्माण ऋषय इति स्मृतेः, सकलधर्मतत्त्वज्ञानसम्पन्नत्वावसायादाचार्यवचः
प्रमाणमिति च श्रुतेर्धर्मप्रवक्तृत्वेनावधारिताचार्यत्वस्य मन्वादेः सत्यवादित्वावगमादप्रतार-
कत्वेन विश्वास्यत्वात्तत्प्रणीतायाः स्मृतेर्वेदविरोधेऽपि श्रुतिमूलत्ववारणशक्यत्वस्योपपादि-
तत्वादाचारविरोधे का कथेत्याशयः । अर्वाचीनानां तु सकलधर्मतत्त्वज्ञानाभावात्प्रमादादि-
सम्भवाच्च तदाचारस्य श्रुतिमूलत्वकल्पने श्रुतिस्मृतिविरोधो विघ्नकारीत्यर्थादुक्तम्,
लिङ्गवाक्यवच्च सन्निकर्षविप्रकर्षविशेषादपि स्मृत्याचारयोर्बंलाबलविशेषोऽवसीयत इत्याह-
आचारात्स्विति । चशब्दार्थे तुशब्दस्मृतेर्वा साक्षाच्छ्रुतिकल्पनत्वद्योतनार्थः ।
ननु स्मृतिवदाचारस्यापि साक्षाच्छ्रुतिमूलत्वोपपत्तेः किमन्तरा स्मृतिकल्पनयेत्या-
शङ्कयाह — न हीति । अयमाशयः तदानीन्तनानां मन्वादिवत्सकलवेदार्थतत्त्वज्ञानमस्ति
यतः तदाचारस्य साक्षाच्छ्रुतिमूलत्वं सम्भाव्यते, एवं सत्यपि यद्येकैव काचिच्छ्रुतिः
सर्वाचाराणां मूलभूता स्यात्, ततस्तस्याः कथञ्चित्तात्पर्यविधारणसम्भवात्साक्षादिदानीन्त-
नपुंरुषाचारमूलत्वं सम्भाव्येत, न त्वसौ — सम्भवतीत्युक्तम् । यद्यपि सदाचारः प्रमाणमिति
स्मृत्यनुरूपैका श्रुतिः कल्प्येत, तथापि तस्याः शिष्टाचारानुवादेन प्रामाण्यप्रतिपादनमात्र-
परत्वेनाचारप्रवर्त्तकत्वाभावान्मूलत्वं न सम्भवतीति दर्शयितुम् — प्रवर्त्तिकेत्युक्तम् ।
यत्तु यद्वा शिष्टात्मतुष्टीनामित्यादिनाशिष्टानुष्ठानमात्रेणाचारादीनां श्रेयःसाधनत्वान्न विधायक-
श्रुत्यपेक्षेत्युक्तम्, तच्छ्रुतिस्मृतिविहितो धर्मं। तदलाभे शिष्टाचारः प्रमाणमिति वशिष्ठ-
वचनपर्यालोचनया, मानवीयस्यापि वेदोऽखिलो धर्ममूलमिति स्मृत्याचारादिष्वनुशक्तस्य
धर्ममूलशब्दस्य ।