सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 456, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 456

भा० वि०—एवं तावत्स्मृत्याचारयोः उत्सर्गतः प्रामाण्यम् श्रुतिविरोधे तद-
पवादम्, क्वचिदपवादादपवादं चोक्तेदानीमाचारयोरेव मिथो विरोधे किं बलीय
इति विचारयति इति । तत्र शब्दानामर्थविषये प्रयोगरूप आचारविशेषे विप्रति-
पत्त्या संशयं दर्शयितुं शब्दानुदाहरति—यवमय इत्यादिना । एतद्वाक्यगतानां
यव-वराह-वेतसशब्दानां लौकिकप्रयोगेषु विप्रतिपत्तिमाह—तत्र केचिदिति ।
अत्र प्रयुञ्जत इति प्रियङ्गवादिष्वनुषज्यमानवर्तमानोपदेशसामर्थ्याद्यव-वराह-
वेतसशब्दानां प्रियङ्गु-वायस-जम्बूष्वार्यप्रयोगाभावेऽपि, म्लेच्छप्रयोगे भाष्यकारे-
णोपलब्ध इति गम्यते, अतो नोदा^१हरणत्वानुपपत्तिरित्यवसेयम् अनेन च विप्रति-
पत्तिप्रदर्शनेन किं द्वावप्यर्थावृतैक एवेति तुल्यबलत्वातुल्यबलत्वाभ्यां संशयस्सू-
चितः, न चानवधृतप्रामाण्यस्य म्लेच्छाचारस्य बलाबलचिन्तैवानुपपन्नेति वाच्यम्,
उत्तराधिकरणन्यायेन प्रामाण्यावधारणमाश्रित्य बलाबलचिन्तोपपत्तेरित्यवसेयम् ।
प्रयोजनं तु विचारस्य चर्वादौ दीर्घशूकादेः प्रियङ्गवादिना सह विकल्पप्राप्तिः
तेष्वित्यादिसूत्रं योजयन् पूर्वपक्षमाह—तत्रेति ।
अयमर्थः यदि म्लेच्छप्रसिद्धेरार्यप्रसिद्धिर्बलीयसी, ततस्तत्सिद्ध एवार्थो
ग्राह्यः । नत्वेवं धर्मविषये शास्त्रानुसारिण्यास्तस्या बलवत्त्वेऽपि, वृद्धव्यवहाराव-
गम्यपदार्थेषु शिष्टम्लेच्छप्रसिद्धयोर्विशेषादर्शनेनोभयथा शिष्टानां स्वस्वप्रसिद्धा
म्लेच्छप्रसिद्धा च म्लेच्छानामपि स्वप्रसिद्ध शिष्टप्रसिद्धा च शब्दार्थावगमसंभवे
सति द्वयोरपि पदार्थप्रतिपत्त्योः मूलप्रमाणाविशेषेण तुल्यबलत्वाद्व्वावप्यर्थाविति
विकल्पेन पदार्थप्रयोगः प्राप्नोतीति । अनेन च तेषु पदर्थेषु शिष्टम्लेच्छप्रसिद्धयोः
विरोधस्य वैलक्षण्यस्य विशेषस्यादर्शनात्, समा-समबलैव स्यात् विप्रतिपत्ति-
रिति सूत्रार्थो दर्शितः ॥ ८ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषयप्रयोग-
शिष्टारविप्रतिपत्तौ सन्देहः ।
एकशब्दमनेकार्थ शिष्टैराचर्यते यदा ।
विगानेन तदा तत्र कोऽर्थः स्यात्पारमार्थिकः ॥ ३९९
यव-वराह-वेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयु-
ज्यन्ते ।
तेन तद्द्वचनत्वे हि सन्देह उपजायते ।
अनिरूपिततत्त्वानां यावद् दृष्टानुसारिणामम् ॥ ४००
तत्राऽऽह नैव सन्देहः कर्तव्योऽत्र मनागपि ।
प्रयोगं प्रति तुल्यत्वात्सर्वलोकप्रयोगिणाम् ॥ ४०१
१. अत्र वार्तिककृता भाष्यमते समुद्भाविते दोषं निरस्यतीति बोध्यम् ।