मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 449, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३९७
धिकरणपूर्वपक्षेऽप्यावृत्त्या योजयितुमुपक्रमते-अथ वेति । पूर्ववर्णके दुराचारसङ्करेण
पूर्वपक्षाभिधानाय सर्वदेशनिवासिशिष्टाचारोदाहरणाद् तद्व्यावृत्त्यर्थमार्यावर्त्तनिवासिशि-
ष्टाचारणामेवोदाहरणत्वमाह-इहेति । अर्थकामाचारव्यावृत्त्यर्थं धर्माचाराणामेवोदाहरणत्वं
दर्शयन्सन्देहमाह-धर्मबुद्धयेति । दुराचारसङ्करस्याप्रामाण्यहेतोरायावर्त्तनिवासिधर्माचारेष्व-
सम्भवात् सन्देहहेतुं प्रश्नपूर्वकमाह-कुत इति । नन्विदं कर्त्तव्यमिदं कर्त्तव्यमिति
सदाचाराणां विशेषरूपेणानिबन्धनेऽपि, सदाचारः प्रमाणमिति सामान्यतो निबन्धनमस्ती-
त्याशङ्कते - ननु चेति । स्मृत्यधिकरणसाधितोत्स्मृतिप्रामाण्यादेवाचारप्रामाण्यं सिद्धमि-
त्यर्थः । अष्टकादिस्मृतीनां मूलश्रुत्यदर्शनेऽपि तदभावे हेत्वदर्शनादविरुद्धं श्रुत्यनुमानम् ।
आचारप्रामाण्यस्मृतौ तु मूलश्रुत्यभावसाधनस्य हेतोराचारमूलत्वलक्षणस्य स्मृत्यन्तरेभ्यो-
ऽतिरिक्तत्वात्स्मृत्यन्तरन्यायेनाचारप्रामाण्यस्मृतिप्रामाण्यासद्धेनं स्मृतिवलादाचारप्रामाण्य-
सिद्धिरिति । परिहरति-नेति । एतदेव विवृणोति - शास्त्रान्तरेति । आचारदर्शनमात्र-
प्रवृत्तमेवोपपादयितुं प्रतिजानीते- यथैव चेति । उपपादयति - यदि हीति । अतो न्याय-
मूलत्वात्स्मृतेर्न्यायसाध्वसाधुतैव विचार्येत्याह-इतीति । सन्देहमुपपाद्य पूर्वपक्षसूत्रगतनवर्थ-
व्याख्यानार्थं सिद्धान्तेनोपक्रमते - तत्रेति । विरोधाधिकरणे विरुद्धस्मृतिप्रामाण्यापवादे-
नाविरुद्धस्मृतिप्रामाण्यं निरपवादमुक्तमिति मत्वा द्वयबलेनेत्युक्तम् । प्रतिज्ञानम् = उपक्रमः।
घञन्तात्करोतेः कारशब्दं व्यापारवचनं व्युत्पाद्य सोऽस्यास्तीति मत्वर्थीयेनिप्रत्ययान्तस्य
कारिशब्दस्य कर्तृवचनत्वाच्छ्रौतस्मार्तस्तुल्याः कर्त्तार एषामिति विग्रहः कार्यः। मन्वादिभि-
श्चाचारमूलश्रुत्यदर्शनेऽपि तदर्थस्य शिष्टव्यवहारादेव सुज्ञानत्वेनानिबन्धनोपपत्तेः स्मृतितो-
ऽप्याचारप्रामाण्यं सिध्यतीत्याह - स्मृतिकारैरिति । उपक्रान्तसिद्धान्तनिराकरणार्थत्वेन
पूर्वपक्षसूत्रमवतार्यं व्याख्यातुमध्याहारेण पूरयति - तद्विति । व्याचष्टे - शास्त्रेति ।
तृतीयासमासाभिप्रायं कर्मव्युत्पत्तिप्रदर्शनम्, बहुव्रीहौ तु भावव्युत्पत्तिरेव षष्ठीसमासेन
च विद्यास्थानातिरिक्तत्वेन शाक्यादिग्रन्थवदाचाराणामप्येनेनाप्रामाण्यमुच्यत इत्यन्यथा
व्याचष्टे - परिमितानि चेति । ननु शब्दात्मकानामेव शास्त्राणामियत्तानियमादशब्दात्म-
कस्यापि सदाचारस्य पुरुषहितबोधकत्वाच्छास्त्रत्वं भविष्यतीत्याशङ्क्य स्वरसेन त्वेषां
धर्मबोधकत्वम्, आचारश्चैव साधूनामिति स्मृत्यनुसाराद्वेति विकल्प्य आद्ये पक्षे स्वरूपेण
तावदाचारस्य क्रियारूपस्याबोधकत्वाच्छास्त्रत्वमनाशङ्क्यमेवेत्याह-न चेति । ननु
स्वरूपेणाबोधकत्वेऽपि शिष्टानुष्ठानदर्शनादस्मदादीनां धर्मबुद्धयुत्पत्तेस्तद्द्वारेण शास्त्रत्वं
भविष्यतीत्याशङ्कयाह - नापीति । शिष्टानुष्ठानान्यथानुपपत्त्या अनुष्ठेयस्योत्सवादेर्धर्मत्वं
कल्प्यम्, भ्रान्त्यादिनापि त्वनुष्ठानोपपत्तेर्नैकान्ततः शिष्टैरनुष्ठीयमानस्याचारस्यास्मदादि-
भिर्दर्शनम्, शिष्टाचारानुष्ठानं वा धर्मत्वं कल्पयितुं शक्यम्, विशेषतश्च दर्शनस्यानुष्ठान-
मात्रानुविधायित्वेनात्यन्तपरायत्तत्त्वादनुष्ठानस्य च प्रमेयत्वादबोधकत्वादित्यर्थः । द्वितीयपक्षे
दूषणमाह - स्मृतेस्त्विति ।
तृतीयप्रकारेण व्याख्यातुं विकल्पयति - किं चेति । एकश्रुत्यनुमानासम्भवं ताव-
दुपपादयति - न तावदिति । अनेकश्रुत्यनुमानासम्भवमपरिमितानां पाठाशक्तेरपठितानां