मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 446, कुल 804 में से
संदर्भ में पढ़ें३९४ मीमांसादर्शनम् [ सू०
चरितार्थत्वान्न लिङ्गं ब्राह्मणे वधे विधी वा कर्त्तव्यतारूपे नञि निषेद्धुं शक्नोति यद्ब्राह्मणं
हन्यात्तं च ब्राह्मणं पुमांसं नेति नञ्ब्राह्मणपदयोरावृत्त्यापत्तेः । ब्राह्मणं न हन्यादित्यत्र
च ब्राह्मणहननं न कुर्यादित्येव विगृह्याऽर्थप्रतीतेस्तच्च पुंसो हननं नेति वधे लिङ्गनिषेधेन
नञ्हन्त्योरावृत्त्यापत्तेः । विधौ च लिङ्गनिषेधे तच्च पुंसः कर्त्तव्यं नेति नञ्प्रत्यययोरा-
वृत्त्यापत्तेरित्यर्थः ।
ननु विशिष्टविधिवद्विशिष्टनिषेधेनापि विशेषणानामर्थाक्षेपोपपत्तेर्नोच्चारणावृत्त्यापत्ति-
रित्याशङ्क्य - अनूदितमित्युक्तम् । विधेयस्य यागादेरन्यतो सिद्धस्यापि विधितः स्वरूपा-
वधारणसम्भवेन स्वरूपानुवादानपेक्षत्वात्पश्वेकत्वाधिकरणन्यायेन विशेषणविवक्षा युक्ता ।
निषेध्यस्य स्वन्यतो सिद्धौ निर्विषयनिषेधायोगेनानुवादापेक्षावश्यम्भावादग्रहाधिकरणन्यायेन
विशेषणाविवक्षेति भावः । नन्वेवं सति ब्राह्मणहननयोरप्यविवक्षा स्यादित्याशङ्क्य-
पूर्वोक्तेत्युक्तम् । सर्वव्यवहारनिरोधापादकत्वे कर्त्तव्यमात्रस्य निषेध्यत्वायोगाद् वधस्य च
निर्विषयस्याप्रसक्तेः प्रतिषेध्यत्वासम्भवस्य पूर्वमेवोक्तत्वात् ब्राह्मणविशिष्टस्यैव विध्यर्थ-
स्योद्देश्यत्वेनोभयोरपि ब्राह्मणहननयोरुद्देश्यान्तर्भावात्(यस्योभयं हविरार्त्तिमार्च्छतीत्यत्र
यस्य कस्यचिदार्त्तौ सत्यां निर्विषयकनिमित्तकयागस्याप्राप्तेः हविःशब्दस्य विवक्षा ।
तद्विशेषणीभूतोभयशब्दस्य प्राप्तानुवादकत्वात्, तद्विधाने वाक्यभेदापत्तेः । तस्मादुभयशब्द-
स्याविवक्षेति हविरार्त्त्यधिकरणराद्धान्तः १) हविवद्विवक्षा युक्तेत्याशयः । विध्यभावाद्
वधकर्त्तव्यत्वस्याप्राप्तेरनुवादासम्भवमाशङ्क्य-द्वेषादीत्युक्तम् । नन्वाख्यातयोगित्वेनास्य
नञो नास्तीत्यादिवदभावमात्रवाचित्वान्निवर्त्तनाथत्वं न युक्तमित्याशङ्क्य-प्रत्ययेत्युक्तम् ।
'य एवं विद्वान्पौर्णमासीं यजत, इत्यादावनुवादार्थेनापि यजिना सामानाधिकरण्यात्पौर्ण-
मास्यादिशब्दस्य यागवाचित्ववदनुवादार्थेनापि प्रत्ययेन सम्बन्धान्नञोऽर्थान्तरवाचित्वेनानुप-
पन्नमिति सूचयितुं सम्बन्धग्रहणम् । यदा तु नञ्युक्तेष्वपि वाक्येषु नञो विषयसमर्पकत्वा-
त्प्रवर्त्तनाथं एव लिङादिरित्येन्मताश्रयेन पूर्वग्रन्थो व्याख्यायते, तदा येषां त्विति
ग्रन्थस्य तन्निराकरणार्थत्वाद्व्वावेवेत्येवकारेणैकत्वं निराकृतम् । विधिवच्च निषेधस्यापि
वाक्यार्थरूपा भावना विषय एव, न तु धात्वर्थस्यैव विषार्थिणोति-वाक्यार्थशब्देनोक्तम् ।
अत्यन्तभिन्नावित्यनेनैकत्वनिराकरणार्थं विपरीतस्वभावतोक्ता ।
तथा हि-
फल-बुद्धि-प्रमेयाधिकारिबोधकभेदतः ।
पञ्चधात्यन्तभिन्नत्वाद् भेदो विधिनिषेधयोः ॥ १
विधिरिष्टफलोऽनिष्टपरिहारफलो परः ।
प्रेरितोऽस्मीति धीः पूर्वे, वारितोऽस्मीति चापरे ॥ २
विधेयस्येष्टहेतुत्वं विधिना च प्रमीयते ।
निषेधेन निषेध्यस्य प्रत्यवायनिमित्तता ॥ ३
१. अयं पाठ सर्वत्र नास्ति ।