मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 447, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३९५
विधिश्चाधिकरोत्यन्यत्कारणेनाप्रवर्त्तितम् ।
रागादिना प्रवृत्तं तु निषेधस्तद्विलक्षणम् ॥ ४
नञ्वर्जितो लिङादिश्च विधिबोधस्य कारणम् ।
लिङाद्यनुगृहीतस्तु नञ् निषेधस्य बोधकः ॥ ५
एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम्—
अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः ॥ ६
दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति ।
शेषं समानम् ।
अस्मिन्नेव पक्षे स्पष्टीकरणार्थं वचनव्यक्तिमाह—एषा हीति । तव्ययुक्तवाक्यान्तरा-
भिप प्रायो वचनव्यक्त्यन्तरोपन्यासः । पूर्वस्मिन्पक्षे कीदृशी वचनव्यक्तिरित्यपेक्षायामाह—
विध्येकत्वे पक्षे पुनरिति । विधिशब्दस्य लिङ्गादेरनुवादार्थत्वाभावान्नञा सहैकीकृतत्य
तत्सहितस्य निषेधपरत्वं युक्तम् । द्वितीये व्याख्याने तु विधिरेवैकः सर्वत्र, न क्वचिन्नि-
षेधोऽस्तीति विध्येकत्वमेकपदोपात्तयोर्धातुप्रत्ययार्थयोरुद्देश्योपादानविभागस्य शब्देन वक्तु-
मशक्यत्वेऽप्यर्थमात्रविवक्षया वधस्याप्यविधेयत्वादुद्देश्यत्वमाश्रित्य यद्ब्राह्मणहननमित्युक्तम् ।
शब्दव्यापारपर्यालोचने ब्राह्मणमात्रोद्देशः । विधिशब्दो न पृथिव्यामग्निश्चेतव्य इत्यादि-
निषेधानुवादशङ्कानिराकरणार्थः । द्वितीयव्याख्याने प्रतिषेधशब्देनाभावोऽभिप्रेतः । न
कुर्यादिति चाख्यातयोगिनो नञोऽभाववचनत्वादभावं कुर्यादित्यर्थः । न हन्यादित्यक्ते
प्रधानभूतेनाख्यातेनैवान्वयात्स एवार्थः । हननव्यतिरिक्तं वा प्रागभावपरिपालनं विधीयते
यो ब्राह्मणहननाभावस्तं कुर्यात्, पालयेदित्यपि वचनव्यक्त्यन्तरमिह द्रष्टव्यम् । वचन-
व्यक्तिभेदप्रपञ्चस्य प्रयोजनमुपसंहरति—सर्वथेति । सुरापाने वैषम्यमाह—ब्राह्मण इति ।
व्यतिरेकोपपादनायं कत्रेत्युक्तम् । ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्राख्यातप्रत्ययो-
पात्तक्रियागुणभूतत्वेनोपादीयमानस्य संख्याया परिच्छेद्यत्वयोग्यस्य साधनांशस्य कर्तुर्विशे-
षणत्वेनोपादानान्न पेया ब्रह्मवादिभिरित्यत्र च गुणभूतत्वेनोपादीयमानत्वप्रतीतेरित्यर्थः ।
श्रुतावपीमं न्यायमतिदिशति—तस्मादिति । पार्श्वस्थापादितमतिप्रसङ्गद्वयं परिहृत्य
ब्राह्मणानां सुरापानप्रतिषेधाभावशङ्कामुपसंहरति-अतश्चेति । सुरापाने ब्राह्मणस्यानुद्देश्यत्वेऽ-
प्यनुवाद्यत्वाद्विशेषणाविवक्षेति परिहरति—नैतदिति । नन्वनुवाद्यत्वेऽप्युपादेयत्वाद्विशेषण-
विवक्षा भविष्यतीत्याशङ्कयाह—नोपादेयत्वमिति । उद्देश्यविशेषणविवक्षायां वाक्यभेदा-
पत्तेस्तत्परिहारार्थत्वान्नोपादेयत्वस्य विवक्षाकारणत्वेऽप्यविधेयविशेषणस्य विधिना स्प्रष्टुम-
शक्यत्वाद्विधेयत्वमेव प्रधानं कारणमित्यर्थः । शुक्रमन्वारम्भणादौ प्रकरणप्राप्तस्यापि
यजमानस्य कर्तृत्वेन विधानाद्विशेषणविवक्षा युक्तेति भावः । नन्वनुवाद्यत्वेऽपि ब्राह्मणस्य
क्रियाविशेषणत्वाभ्युपगमाच्छुद्धब्राह्मणविशिष्टक्रियानुवादवत्स्वविशेषणविशिष्टब्राह्मणविशिष्ट-
क्रियानुवादेऽपि यत्पुमान् ब्राह्मणः सुरां पिवेदित्येकप्रसरोपपत्तेरावृत्तिलक्षणवाक्यभेदा-
भावादेकक्रियावशीकारेण चारुणैकहायनीवत्परस्परनियमोपपत्तेः । प्रत्युद्देश्यवाक्यपरि-