मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
इस ग्रन्थ के बारे में
पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।
यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।
ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।
१० ] प्रथमाध्याये तृतीयपादः ४४९
मुच्यते, किं तु कश्चिद्वेदभागो विधायकः, कश्चिद्विधेयः, कश्चिच्च स एष नेति नेत्यादिर-
नित्यशरीरादिव्यतिरेकेण नित्यात्मप्रतिपादनादिरूपतर्कानुरूपत्वात्तर्कं इति त्रैविध्यं वेद-
स्योच्यते, तथापि विध्यादित्रयस्य वेदत्वप्रतिपादनार्थेयं स्मृतिरिति परमताम्युपगमेनायं
दृष्टान्त इति सूचनार्थमेतस्मिन्दर्शने सतीत्युक्तम् ।
भाष्यकृता कल्पसूत्राणां वेदवाक्यैस्तुल्यादरत्वं पूर्वोक्तम् । यश्चादर इत्यनुभाष्य स
नान्तरीयकत्वादिति परिहारमुक्त्वा कथं नान्तरीयकत्वमित्यपेक्षायां शाखान्तरगतकर्माङ्ग-
भूतमन्त्ररूपवेदवाक्यमिश्राणां कल्पसूत्राणां पाठान्मन्त्रकौशलार्थं घटिकादिष्वादरे नान्त-
रीयकः कल्पसूत्रादर इत्युक्तम् । तदतिस्पष्टत्वान्न व्याख्यातम् ।
ब्रह्मयज्ञविधिविषयत्वतुल्यताभिप्रायेण तुल्यादरभाष्यव्याख्याने स्वयमनुभाषणपूर्वकं
परिहारमाह—यच्चेति । कल्पसूत्राण्येवात्रोदाहरणमित्यभिमानेनानैकान्तिकत्वोपन्यासः ।
अतोऽनैकान्तिकत्वान्न विधेयत्वमात्रेणाकृतकत्वनिश्चय इत्याह—तस्मादिति । प्रवाहनित्य-
त्वाच्च नित्यानित्यसंयोगविरोधपरिहार इत्याह—वेदार्थेति । ननु प्रवाहनित्यत्वेऽप्य-
पूर्वस्य ग्रन्थस्य कल्पसंज्ञाकरणान्नित्यसंयोगविरोधः प्रसज्येतेत्याशङ्क्याह—वेदार्थेति ।
यौगिकेयं संज्ञा, न ग्रन्थव्यक्तिनिबन्धनेत्यर्थः । प्रयोगप्रांशुभावोपयोगिकर्मानुसन्धानप्रयो-
जनत्वाच्चास्य विधेस्तस्य च येन केनचित्प्रयोगकल्पनात्मकेन शब्देनोपपत्तेर्ग्रन्थविशेषस्य
विधिविषयत्वाभावान्न नित्यतापत्तिरित्याह—कर्मेति । कर्मणोऽभ्यासेनानुसन्धानं विधि-
प्रयोजनमित्यर्थः । प्रयोजनवचनोऽर्थशब्दः ।
यद्वा नात्र कल्पाख्यग्रन्थाध्ययनं विधेयम्, किं त्विकस्मरण इत्यस्य धातोरधीत इति
रूपमङ्गीकृत्य कर्मणो वेदार्थस्याहरहरभ्यासेन स्मरणं विधेयमिति । परिहारान्तरमने-
नोच्यते चशब्दो वाशब्दार्थः । ऋक्षादौ वेदाध्ययन इत्येतद्धात्वर्थत्वेनावधारितस्याधीत
इत्यस्य कल्पानित्यत्रानुपक्तस्य धात्वन्तररूपत्वायोगादन्वाचयोपपत्तिसूचनार्थः । वैदिकार्थ-
प्रबन्धस्य वेदत्वहेतोर्भाष्यकारेणापरिहृतत्वात्स्वयमनुभाषणपूर्वकं परिहारमाह—पुनरिति ।
अत एव स्वातन्त्र्यमपि न संवादात्सिध्यतीत्याह—तदर्थेति । ननु 'षडङ्गमेके' इति
कल्पादीनां वेदत्वस्मृतेः किमित्यन्यथा संवादो नीयत इत्याह—वेदेति । षडङ्गेऽध्येतृभि-
र्वेदशब्दाप्रयोगादपस्मृतिरेषेत्यर्थः । ततश्चैतन्न सिद्धान्तभाषितमित्येवं चशब्दो योज्यः ।
यच्च कल्पसूत्राणां वैदिकार्थानुवादत्वं तदर्थानुगमान्नेत्यनेनोक्तम्,, तदुपपादयति—
संवादे चेति । ननु शाखान्तरन्यायेनैषामपि विधित्वमविरुद्धमित्याशङ्क्याह—न चेति ।
एतदेव विवृणोति—सर्वेति । किं च होतृवषट्कारे चमसा नीयन्ते उद्गातृब्रह्मणो
यजमानस्येति भक्षणार्थं नयनमुक्त्वा केनादौ भक्षणीयमित्यपेक्षायां तेषां होताग्रे भक्षयेदिति
प्रतिज्ञाय, तस्य वषट्कारान्वयत्वादित्यादिभिर्वषट्कर्तुः प्रथमभक्ष इत्यादिव्राह्मणोत्थहेतु-
भिर्व्याख्यानदर्शनात्कल्पसूत्राणां ब्राह्माणोक्तार्थानुवादकतावसीयत इत्याह—विवृण्वन्तश्चेति ।
२९
तथा प्राश्य घृतं शंसेद्य चाह वा इदमनो वा रथो वाऽक्तो वर्त्तंत, एवं हैवाक्तो
इत्यादिभिर्घृतप्राशनादिविधिशेषभूतैर्ब्राह्मणैर्नाचामेद्विशदिति विवायते देवरथो वा यज्ञेोता,
नाक्षमञ्जिः करवाणीत्यादिवाक्यैराचमनामावाद्ज्ञापनानुवादकत्वनिश्चय इत्याह—अन्यार्थे-
रिति । उपसंहरति — अर्थेति ।
आचार्यवचःप्रामाण्यं श्रुत्यैवोक्तमिति पूर्वोक्तस्य यत्त्वित्याद्यनुभाषणपूर्वकं परिहार-
भाष्यं व्याचष्टे—आचार्येति । वेदवचः प्रमाणमित्येवमन्यार्थताभाष्यकृतोदितेत्यर्थः ।
अव्युत्पन्नो वाऽयमाचार्यशब्दो व्याख्यातृव्यापयितृविषयः, न तु कल्पसूत्रकारविषय इति
परिहारान्तरं (यद्वेति) भाष्येणोक्तं तद्वद्याचष्टे—व्याचक्षाणस्येति । शिष्याणां स्वप्रत्यये
संवादनिरपेक्षप्रदर्शनार्थं स्वयम्प्रमाणतेत्युक्तम् । अयमेव परिहारः स्मृत्यानुगुण्याद्युक्त
इत्याह—आचार्येति ।
नन्वाप्तवाक्यप्रामाण्यस्य लोकप्रसिद्धत्वाद्धचनमनर्थकमित्याशङ्क्याह—वेदेति । अनेन
भाष्येण यत्प्रमाणमाचार्यवचनम्, तदपेक्षेयं श्रुतिरित्युक्त्वा कतरदितिपृष्टे यत्प्रमाणगम्य-
मित्यभिधानात् व्याख्यातृवचनमध्यापकवचनमपि वा सम्भवन्मूलप्रमाणकमेव सत्यं न सर्व-
मित्युक्तम् । तदुपपादयति—न चेति । 'अनृतवादिनी वागि'तिश्रुतेः प्रायोभिप्रायत्वेन
रूपात्प्रायादित्यत्र व्याख्यातत्वात्प्रायादित्युकम् । श्रुत्यन्तरमुदाहरति—अन्यत्रापीति ।
यदि च वेदसंवादकल्पसूत्राणां वेदत्वम्, वेदतुल्यत्वं वोच्यते, ततः क्वचिद्विसंवादा-
द्वैपरीत्यमपि शक्यं वक्तुमित्येतदर्थत्वेन सर्वत्र च प्रयुक्तत्वात्सन्निधानवशाच्चेति सूत्रं
'यच्चोक्तमिति भाष्येणावतारितम् । तद्व्याचष्टे—वेदादेवेति । यज्ञायज्ञीयमेव प्रयणीयाग्नि-
ष्टोमसामकार्यमित्यादेः पञ्चविंशब्राह्मणे जराबोधीययज्ञायज्ञीययोः प्रायणीयाग्निष्टोमसाम-
वैकल्पिकविधानेन साक्षाद्वेदेन विसंवाददर्शनात् अपि वा नानागोत्राः स्युरित्यादेस्तनून्-
पात्नाराशंसकल्पाद्यवैगुण्याय समानकल्पानामेव सूत्रेष्वधिकार इति, वेदोत्थेन न्यायेन विसं
वाददर्शनात्कल्पसूत्रकारवाचां वेदादेवानुक्तत्वावगतिरित्यर्थः । इह च यच्चोक्तमिति
सूत्रावतारणार्थानुभाषणभाष्ये च शब्दप्रयोगात्तुल्यादराचार्यवचः प्रामाण्यश्रुत्योः परिहारो
सर्वत्र चेति सौत्रेण चशब्देन सूचितौ कल्प्येते ।
यद्वा पूर्वमेव सूत्रं नवमपनीय व्यवधारणकल्पनया वा अस्मिन्परिहारद्वये योज्यम् ।
शेषस्य शेषिमिश्रत्वेन लक्षणया वेदवाक्यमिश्रत्वप्रतीतेरर्थवादे च वाक्यशेषशब्दस्य प्रसिद्ध-
त्वाद्यद्ययं न वाक्यशेषः स्यादेतच्छङ्काद्वयमपि च व्यवधारणकल्पनयापि व्याहृतोपप-
त्तेर्नोत्सूत्रत्वाशङ्का ।
उक्तेऽर्थे सूत्रं योजयति—सर्वत्र चेति । पूर्वेण सूत्रावयवेन विसंवादविषयोदाहरणे,
उत्तरेण विसंवादाभिधानमित्यर्थः । अतिशयार्थोऽभ्यासः । अत्र भाष्यकृता सर्वत्र तिथिषु
कल्पसूत्रकारैः पौर्णमास्यामावास्याख्यकर्मणः प्रयुक्तत्वादनुष्ठापितत्वादित्येवं सूत्रावयवं
व्याचक्षाणेन शुक्लपक्षे यस्यां कस्यांचत्तिथावमावास्याख्यं कर्म कार्यमिति कल्पसूत्रकार-
वचनत्वेनोदाहृतम् । तद् दूषयति—तत्रेति ।
१० ] प्रथमाध्याये तृतीयपादः ४५१
यद्वृत्तिकारेणोदाहरणं दत्तं तदनादृत्य इत्यन्वयः। अत्यन्तासिद्धस्याध्यारोपेण कल्प-
सूत्रकाराणामभिभवः कार्यं इत्यभिप्रायेण युक्तत्वादिति हेतुः। किमत्यन्ताभूतमध्यारो-
पितमित्यपेक्षायां दर्शोत्युक्तं दर्शपूर्णमासयोश्चरकं गमकं तद्विषयं कल्पसूत्रकारवचनं चेत्यसदे-
वाध्यारोपितमित्यर्थः। नन्वमावास्यापौर्णमासीशब्दयोर्दर्शनात् कथं तद्विषयस्यासत्त्वमित्या-
शङ्क्य-पार्वणेत्युक्तम्। गृह्यकारवचनत्वेन श्रवणादित तद्विषयत्वे हेतुः। गृह्यशब्दस्योपास-
नाग्न्यधिकरणकर्मविषयत्वेन तत्प्रतिपादनाधिकृतानां वैतानिककर्मप्रतिपादनस्यानुचितत्वा-
दिति भावः। एतदेव दृष्टान्तेनोपपादयति—गृह्येति। प्रदोषान्तो होमकालः, सङ्गवान्तः
प्रातः तमतिनीय चतुर्गृहीतमाज्यं जुहुयादित्यग्निहोत्रस्य स्वकालातिक्रमे प्रायश्चित्तस्मरणाद-
पस्मृतेस्तद्विषयत्वाभावनिश्चयाद् दृष्टान्तत्वम्। गृह्यकारवचनत्वेन स्वयंदृष्टत्वाद्भाष्यकारो-
दाहृतसमानविषयमुदाहरणान्तरमुक्तम्। किं तर्ह्यत्रोदाहरणमित्यपेक्षायामाह--तस्मादिति।
सर्वाणि हवींषि पर्यग्निकरोतीति कल्पसूत्रकारैः पर्यग्निकरणस्य सर्वत्र हविःषु प्रयुक्त-
त्वात्तद्विरुद्धस्य च पुरोडाशं पर्यग्निकरोतीति शास्त्रस्य सन्निधानादित्येवं व्याख्येय-
मित्यर्थः॥ १० ॥
॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥
मा० प्र०—म्लेच्छों की प्रसिद्धि से आर्यों की प्रसिद्धि बलवती है—यह पूर्व सूत्र के
व्याख्यान से सिद्ध है। प्रस्तुत प्रसङ्ग में यह आशङ्का होती है कि वेद आदि में पिक,
तामरस, नेम, क्लोम, आदि का किसी विशेष अर्थ में प्रयोग प्रसिद्ध नहीं है, किन्तु
म्लेच्छों ने क्रमशः कोकिल, पद्म, अर्द्ध, देह के अभ्यन्तर स्थित अवयव विशेष में
प्रयोग किया है। म्लेच्छों के द्वारा स्वीकृत इन अर्थों का ग्रहण करना उचित है या
नहीं ? पूर्वपक्षियों का कहना है कि पूर्व अधिकरण में म्लेच्छों की प्रसिद्धि को अशास्त्रीय
माना गया है, अतः उनकी प्रसिद्धि अनादरणीय है, इसलिए प्रदर्शित अर्थ ग्राह्य नहीं हैं।
इसके समाधान में सिद्धान्ती ने कहा है कि आर्यों की प्रसिद्धि के साथ म्लेच्छों का
विरोध रहने पर पूर्वोक्त नियम स्वीकार किया गया है। किन्तु, प्रकृत में आर्यों की इन
शब्दों के अर्थों की प्रसिद्धि नहीं है, अतः म्लेच्छों की प्रसिद्धि ही आदरणीय है। निरुक्त
आदि में इन शब्दों के अन्य अर्थों की कल्पना उचित नहीं है, क्योंकि (१) यौगिक
अर्थ की अपेक्षा रूढ़ अर्थात् प्रसिद्ध अर्थ बलवान् होता है। (२) निरुक्त के द्वारा एक ही
शब्द के अनेक अर्थों की कल्पना की जा सकती है, ऐसी स्थिति में कौन अर्थ ग्राह्य है,
कौन अर्थ ग्राह्य नहीं है—इसकी व्यवस्था सम्भव नहीं है। (३) पशु-पक्षी आदि के
पालने में, वृक्ष, पुष्प आदि की वृद्धि में, पशुओं के छेदन-भेदन आदि कार्यों में आर्यों की
अपेक्षा म्लेच्छ अधिक पटु हैं, अतः, इन विषयों में उनको ही अभियुक्त मानना होगा,
फलतः, पिक, तामरस आदि वैदिक शब्दों का अर्थ उन लोगों की प्रसिद्धि के अनुसार
ही मानना होगा। अर्थ प्रसिद्धि के साथ विरोध न होने से इन स्थलों में म्लेच्छों की
४५२ मीमांसादर्शनम् [ सू०
प्रसिद्धि बलवान् है । म्लेच्छ का अर्थ अपभ्रंश, प्राकृत आदि भाषा का व्यवहार करने
वाला व्यक्ति होता है ।
‘चोदितम्’ म्लेच्छों के द्वारा अर्थ विशेष में प्रयुक्त अर्थात् व्यवहृत शब्द समूह
‘तु’ किन्तु, ‘प्रतीयेत’ प्रतीत होता है अर्थात् उस अर्थ के वाचक रूप में अवगत होता है
‘अविरोधात् प्रमाणेन’ प्रमाण के साथ विरोध नहीं है । इन विशेष शब्दों का आर्यों ने
विशेष अर्थ में व्यवहार नहीं किया है, अतः इन शब्दों का म्लेच्छों ने जिस अर्थ में
प्रयोग किया है, उन शब्दों का वही अर्थ ग्रहण करना उचित है, क्योंकि म्लेच्छों का
व्यवहार आर्यों के व्यवहार का विरोधी नहीं है ॥ १० ॥
अथ षष्ठं कल्पसूत्राधिकरणम्
[६] प्रयोगशास्त्रमिति चेत् ॥ ११ ॥ पू०
शा० भा०—इह कल्पसूत्राण्युदाहरणम् । मशकम्, हास्तिकम्, कौण्डिन्यक-
मित्येवं लक्षणकानि किं प्रमाणमप्रमाणं वेति सन्दिग्धानि । किं प्राप्तम् ?
प्रयोगस्य शास्त्रं प्रमाणमेवं जातीयकमिति ब्रूमः ।
सत्यवाचामेतानि वचनानि । कथमवगम्यते । वैदिकैरेषां संवादो भवति ।
य एव हि वेदे ग्रहास्त एवेह, या एव वेदे इष्टकास्ता एवेह । तस्मात्सत्यवाच
आचार्याः ।
आचार्यवचः प्रमाणमिति च श्रुतिः१ । प्रत्यक्षतः प्रामाण्यमनवगतमिति
यद्युच्येत ? प्रमाणान्तरेण वचनेनावगतमिति२ न दोषः । वेदवाक्यैश्चैषां तुल्य
आदरः । तस्मात् प्रमाणम् ॥ ११ ॥ इति पूर्वपक्षः ।
भा० वि०—एवं तावत्स्मृत्यधिकरणसिद्धस्यौत्सर्गिकस्याचारप्रामाण्यस्यार्य-
प्रसिद्धिविरोधे म्लेच्छप्रयोगरूपम् आचारेऽपवादम्, तदविरोधे चोत्सर्गस्थिति-
मभिधायेदानीं स्मृतीनामपि वेदव्यतिरिक्तविद्यास्थानरूपाणामौत्सर्गिकं श्रुति-
मूलत्वेन प्रामाण्यं स्मृत्यधिकरणसिद्धमेवानेनाक्षिप्य समाधीयत इति सङ्गतिः ।
न चाशब्दमूलत्वेन स्मृत्यधिकणे पूर्वपक्षप्रदर्शनात् । सिद्धान्ते च शब्दानुमान-
कथनात् कल्पसूत्राणां च प्रत्यक्षवेदमूलत्वात् कथं समस्तविद्यास्थानविषयत्वं
स्मृत्यधिकरणन्यायस्येति वाच्यम्, स्मृतीनामपि कासाञ्चिद् उपनयनादिविषयाणां
प्रत्यक्षश्रुतिमूलत्वदर्शनात् कल्पसूत्राणामपि नानाशाखाङ्गोपाङ्गोपसङ्ग्राहिणां
सर्वेषामेव प्रत्यक्षमूलत्वासम्भवात्, स्वल्पभूयस्त्वेन च विशेषोपपत्तेरिति मन्तव्यम् ।
१. ब. च श्रुतिप्रत्यक्षतः । २. ब. वचनेन वावगत ।
पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत
११ ] प्रथमाध्याये तृतीयपादः ४५३
विषयमाह—इहेति । कल्पसूत्रशब्दो विद्यास्थानमात्रपरः । अत्र१ च कल्पशब्द
प्रयोगकल्पनात् कल्प इति बोधायनमशकादिप्रणीतग्रन्थविषयः । सूत्रशब्दस्तु
प्रयोगसूचनात् सूत्रमिति व्युत्पत्त्या संज्ञापरिभाषादिभिः व्याख्यानापेक्षाश्वलाय-
नादिग्रन्थविषयः । तत्रापौरुषेयत्वपौरुषेयत्वाभ्यां संशयमाह—किं प्रमाणमिति ।
किं वेदमूलत्वेन विना स्वयमेव वेदतया वेदतुल्यतया वा प्रमाणम् किं वा
स्वातन्त्र्येण न प्रमाणम् ? किन्तु श्रुतिमूलतयेति विमर्शार्थः, विचारप्रयोजनं
त्वधीतवेदविस्मरणप्रायश्चित्तवान् कल्पसूत्रादिविस्मरणेऽपि प्रायश्चित्त-प्राप्तिः, सूत्रं
व्याकुर्वाणः पूर्वपक्षयति—प्रयोगस्येति । यस्मादेवं जातीयकं कल्पादिरूपं प्रयोगस्य
धर्मानुष्ठानस्य शास्त्रं शासकम्, तस्मात् स्वयमेव प्रमाणमित्यर्थः । पौरुषेयवाक्य-
स्यातीन्द्रियधर्मानुष्ठापकत्वाभावेन प्रयोगशास्त्रत्वादेवापौरुषेयत्वनिश्चयादिति भावः ।
कल्पादीनां स्वयं प्रमाणत्वे हेत्वन्तरमाह—सत्यवाचामिति । न गुणवद्वक्तृकत्वं
सत्यवादिवचनत्वम्, किन्तु संवादिवचनत्वमभिप्रेतम् । एतदेव प्रश्नपूर्वकमुप-
पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत
आह—य एवेति । कल्पादीनां वेदेनैकार्थ्यं फलितमाह—तस्मादिति । आचार्याः
मशकप्रभृतयः ।
ननु कल्पादीनाम् "अग्निमीले पुरोहितम्" इत्यादीनामिव रूपदर्शनमात्रेणा-
पौरुषेयत्वानवगमात् कथं संवादित्वेन प्रामाण्यमत आह—आचार्यवचनमिति ।
आचार्यैः मशकादिभिः प्रोच्यमानमाचार्यवचनमित्युच्यते । एतदेव विवृणोति—
प्रत्यक्षत इति । इतश्चानपेक्षमैतेषां प्रामाण्यमित्याह—वेदवाक्यैश्चेति । यादृशो
हि मन्त्रब्राह्मणयोः अध्येतॄणामादरः अनध्यायपरिवर्जनादिरूपः, तादृश एव
कल्पसूत्रेष्वित्यर्थः । उक्तहेतुसिद्धमनपेक्ष्य प्रामाण्यमुपसंहरति—तस्मादिति ॥११॥
षष्ठं कल्पसूत्राधिकरणं
त० वा०—कल्पसूत्राण्युदाहृत्य संप्रत्येतद्विचायंते ।
किमेतेषां स्वतन्त्राणां प्रामाण्यं वेदवद्द्भवेत् ॥ ५०१
किं वा वेदत्वमेवैषां मन्त्रब्राह्मणवन्मतम् ।
वैदिकार्थप्रबन्धाद्धि नैतेषां स्मृतितुल्यता ॥ ५०२
कल्पसूत्रयोर्भेदवर्णनम्
आह—के पुनः कल्पाः ? कानि सूत्राणीति ?
उच्यते—सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते ॥ ५०३
१. कल्पानां सूत्राणाञ्च भेदो वार्तिके प्रतिपादितः । यथा सिद्धरूपः प्रयोगो यैः कर्मणा-
मनुगम्यते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते—इति । तदेवात्र व्याख्यात्रा
निर्दिश्यते ।
सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् ।
४५४ मीमांसादर्शनम् [ सू०
ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ।
कल्पनाद्धि प्रयोगाणां कल्पोऽनुष्ठानसाधनम् ॥ ५०४
सूत्रं तु सूचनात्तेषां स्वयं कल्पप्रयोजकम् ।
कल्पाः पठितसिद्धा हि प्रयोगाणां प्रतिक्रतु ॥ ५०५
बौधायनीय-वाराह-माशकादिप्रबन्धवत् ।
स्वसंज्ञापरिभाषाभिर्युत्सर्गपवादनम् ॥ ५०६
हेतुदृष्टान्तवत्सूत्रं तल्लक्ष्यव्यापि लक्षणम् ।
आश्वलायनकं सूत्रं¹ वैजवापिकृतं तथा ॥ ५०७
द्राह्मायणीयलाटीयकात्यायनकृतानि च ।
तत्र सकलप्रत्यक्षवेदप्रतिपाद्यक्रतूपयोगोपनिबन्धनादन्तर्हितविप्रकीर्णानुमेय-
प्रायश्रुतिमूलस्मृतिबन्धनेभ्यो महानेव कल्पसूत्राणां विशेषोऽस्तीति, न तत्
तद्गतन्यायं व्यवस्थाप्य प्रामाण्यानि विज्ञायन्ते ।
अप्रामाण्यं स्मृतीनां च यदशब्दतयोदितम् ।
पूर्वपक्षे न तद्वक्तुं कल्पसूत्रेषु शक्यते ॥ ५०८
प्रत्यक्षवेदशब्दत्वात्तदुक्ता नापशब्दता ।
न ह्यत्यन्तानृतं वक्तुं शक्यते पूर्वपक्षिणा ॥ ५०९
स्मृत्यधिकरणे चाप्रमाणत्वं मूलानुपपत्त्या पूर्वपक्षेऽभिधाय, सिद्धान्तेऽनुमि-
तश्रुतिमूलत्वेन प्रामाण्यं स्थापितम् । एतानि च न तत्रोदाहृतानि, पूर्वपक्षहेत्वसं-
भवात् । न चैषामिह प्रामाण्यप्रतिपादनम्² । अतिरिक्तप्रामाण्यापवादप्रतिपादार्ह-
त्वादधिकरणस्य ।
यद्वा भवतु नामैषां तस्मिन्नपि विचारणा ।
तेषां चात्रापि सर्वेषामिति प्रामाण्यवारणा ॥ ५१०
यदि धर्मं प्रति स्मृतीनां प्रामाण्यमभ्युपगम्यते । तथा सति ।
तासामपि हि वेदत्वे तैर्वा तुल्यप्रमाणता ।
स्वातन्त्र्याच्छक्यते वक्तुं न तु मूलानुमानतः ॥ ५११
यद्वा प्रयोगशास्त्रत्वमङ्गानामभिधीयते ।
वेदत्वं वा षडङ्गेऽपि वेदत्वस्मृतिरस्ति हि ॥ ५१२
'मन्त्रब्राह्मणयोर्वेद इति नामधेयम्, षडङ्गमेके' इत्याङ्गान्यपि वेदशब्दवा-
च्यानि स्मर्यन्ते ।
तस्मात्तान्यपि वेदा³ वा प्रमाणानि स्वतोऽथ वा ।
प्रतिभान्तीति कर्तव्यमन्यथा प्रतिपादनम् ॥ ५१३
१. वैजावापि पु० पा० । २. क प्रामाण्याप्रति । ३. क. वेदो ।
११ ] प्रथमाध्याये तृतीयपादः ४५५
यद्वा शाक्यादिशास्त्राणां स्मृतिशास्त्रत्ववारणात् ।
वेदशाखासमानत्वमाशङ्क्येह निवार्यते ॥ ५१४
शाक्यादयोऽपि ह्येवं वदन्त्येव । यथा ‘उत्पादाद्वा तथागतानामनुत्पादाद्वा
स्थितैवेयं धर्मनित्यता’ इति ।
ततश्च वेदवन्नित्यास्तेऽपि चेदागमा मताः ।
चोदनालक्षणो धर्मस्तदुक्तोऽपि प्रसज्यते ॥ ५१५
कामं न प्रविशेद् ग्रामं वारितो दण्डपाणिभिः ।
स्पष्टं महापथेनेव संप्रति प्रविविक्षति ॥ ५१६
एवमेतानि चत्वार्यपि विचारस्थानान्येकमार्गपतितानि कल्पसूत्रविचारेणैव
गतप्रायाणि भविष्यन्तीति मन्वानेन तदुपन्यासमात्रमेव क्रियते ।
का गतिः कल्पसूत्राणामित्यस्मिन् संशये सति ।
प्रयोगशास्त्रतां तावत् प्राह स्म त्यक्तसंशयम् ॥ ५१७
वेदत्वं कल्पसूत्राणां न मोक्तव्यं मनागपि ।
यदि वा वेदतुल्यत्वं स्वतन्त्राणां प्रतीयताम् ॥ ५१८
वेदेनैवाभ्यनुज्ञाता धर्मे तेषां प्रमाणता ।
वेदत्वमेव वा सिद्धं संवादादिप्रमाणकम् ॥ ५१९
ननु च पौरुषेयत्वादेषामेतदुभयमप्यनुपपन्नम् ।
नैतेषां पौरुषेयत्वं भविष्यति हि वेदवत् ।
माशकादिसमाख्या हि प्रोक्तत्वात्काठकादिवत् ॥ ५२०
यथैव काठादिप्रोक्ताः शाखाः काठकादिसमाख्ययाऽभिधीयन्त इत्यकृत्रिमाः१
स्थापिताः तथैव वेदसमाम्नातमाशकादिसमाख्यातग्रन्थनित्यतापि प्रत्येत्तव्या । यथा
सामसूक्तानामिदमस्याऽऽर्षमिदमस्येति सत्यामपि तन्निमित्तायां समाख्यायां न
नित्यत्वप्रतिघातः । एवं प्रख्यातर्षिप्रणीकल्पसूत्रग्रन्थानामपि ।
तथा हि—
न तावदृषिः कश्चित्स्मर्यते कल्पसूत्रकृत् ।
कर्तृत्वं यदृषीणां तु तत्सर्वं मन्त्रकृत्समम् ॥ ५२१
यथा शैशवं भवति, शिशुर्वा अङ्गि॒रसो मन्त्रकृतां मन्त्रकृदासीदित्यत्र
मन्त्रकृच्छब्दः प्रयोक्तरि प्रयुक्तः । एवं तस्य तस्य कल्पस्य, सूत्रस्य वा प्रयोक्तार-
स्तत्कारित्वेन व्यपदेक्ष्यन्ते । ब्रह्मयज्ञविधाने च ‘एवं विद्वान् स्वाध्यायमधीयीत’
इत्युक्त्वा तत्प्रपञ्चे ‘यदृचोऽधीते, यद्यजूंषि, यत्सामानि, यद् ब्राह्मणानि
१. क. त्यकृत्रिमास्थापिता ।
४५६ मीमांसादर्शनम् [ सू०
यदितिहासपुराणानि, यत्कल्पान्' इति तज्जप्यमानत्वेन विधानादार्षत्वमेव
विज्ञायते । पुरुषकृतानां जपनिमित्तधर्महेतुत्वेन नित्यविधिविषयत्वासम्भवात् ।
अरुणपराशरशाखाब्राह्मणस्य च कल्परूपत्वात्सर्वयाज्ञिकैश्च स्वशाखाधीतव्यति-
रिक्तकल्पसूत्रकारोपन्यस्तपक्षतुल्यबलत्वाध्यवसानात्कल्पजमन्त्राणां चेतरसमाम्ना-
याधीतवत्क्रतुविनियोगाश्रयणात् तुल्यत्वम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें११ ] प्रथमाध्याये तृतीयपादः ४५७
अपि च—वेदादृतेऽपि कुर्वन्ति कल्पैः कर्माणि याज्ञिकाः ।
न तु कल्पैर्विना केचिन्मन्त्रब्राह्मणमात्रकात् ॥ ५२७
तुल्यं च साम्प्रदायिकम्, स्वाध्यायाध्ययनविधिवचनं प्राग्दर्शितम्
कल्पग्रहणात् ।
अथ वा संप्रदातॄणामध्येतॄणां च यादृशः ।
मन्त्रब्राह्मणयोर्यत्नः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४५८ मीमांसादर्शनम् [ ० सू
सिद्धानां नित्यतैवैका सुबोधा वेदताऽपि वा ।
असंशयितवेदार्थविषयत्वात्प्रकल्प्यते ॥ ५३९
तस्माद्वर्षसहस्रेऽपि यस्य न ज्ञायतेऽवधिः ।
न तत्कृतकतां लब्ध्वा लभते नित्यमूलताम् ॥ ५४०
यान्येव धर्मशास्त्राणां मूलवाक्यानि मन्यसे ।
तान्येवैतानि पठ्यन्त इत्येतत्कल्पितं वरम् ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें११ ] प्रथमाध्याये तृतीयपादः ४५९
वदन्ति धर्ममेतानि चोदना गमयन्ति च ।
अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५
उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते ।
अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६
तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् ।
प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसूत्रं योजितं भवति ।
४६० मीमांसादर्शनम् [ सू०
व्यवस्थिताव्यवस्थितमूलचिन्तैवेयमधिकारव्यवस्था सदसद्भावप्रयोजनेत्याशयः । सा
च देशाचारमात्रविषया, न सर्वस्मृत्याचारविषयेति देशधर्मानित्यत्वेनोक्तम् । पूर्वाधिकरणे
च स्वातन्त्र्यनिराकरणेन वेदमूलत्वे दृढीकृते तद्विशेषविचार इति सम्प्रतिशब्देनोक्तम् ।
तत्र किं कल्पकानामाचाराणां व्यवस्थादर्शनात्तदनुसारेण व्यवस्थितविषयमेव मूलं कल्प्यम्,
व्यवस्थितमूलासम्भवाद्वा तदनुसारेणाचाराणां सर्वधर्मता कल्प्येति । कल्प्यकल्पकविप्रतिपत्तेः
सन्देहकारणत्वं दर्शयितुमप्रतियोगिभूतवचनव्यक्तिद्वयोपन्यासः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें११ ] प्रथमाध्याये तृतीयपादः ४६१
प्रामाण्यमिति वदता भाष्यकृता व्यवस्थितविषयमूलत्वस्यैव स्मृत्याचारप्रामाण्य-
व्यवस्थायां हेतुत्वाभिधानाद्विपरीतहेतुमद्भावाभिधानं भाष्यविरुद्धं स्यादित्याशङ्कयाह—
अनुमीयतेऽनेनेति । मूलव्यवस्थायाः कल्पकत्वेन हेतुत्वायोगात्प्रामाण्यस्य च सर्वपुरुष-
साधारण्य़ाद् व्यवस्थानुपपत्तेर्नैदं व्यवस्थितमूलत्वेन स्मृत्याचाराणां धर्मिधम प्रति
व्यवस्थितप्रामाण्यप्रतिपादनपरं भाष्यं किं तु व्यवस्थितत्वाद् व्यवस्थितविषयामेव श्रुतिं प्रति
प्रामाण्याप्रतिपादनपरमिति भावः । तेनैवं भाष्यं योज्यम् । अनुमापकत्वेन स्मृत्याचाराणां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४६२ मीमांसादर्शनम् [ सू०
सिद्धेर्नैराकाङ्क्ष्यं वक्तुं यावता विना नैराकाङ्क्ष्यं न भवति तावद्दर्शयति-इहेति ।
भावना च नाम विशेषणव्यवच्छिन्नो यागादिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादि-
कारकं च यावद्दृष्टेतिकर्त्तव्यता च । तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमीयत
इत्यन्वयः। अवश्यमित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम्-
कारणानुविधायीत्युक्तम् । कारणात्तथाविधत्वं विना कार्यंतथाविधत्वानुपपत्तिः । कार्यानु-
रूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाङ्क्ष्यमित्यपेक्षायामाह-एवमिति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें११ ] प्रथमाध्याये तृतीयपादः ४६३
व्याख्यातुमाकृतिवाच्युपपदासम्भवं तावत्प्रपञ्चयति—न तावदिति । व्यक्तिवाच्युपपदा-
सम्भवं प्रपञ्चयति—व्यक्तिवाचि त्विति । एतदेवोपपादयति—न हीति । नन्वनन्तभेदा-
नामपि पुरुषव्यक्तीनां शुक्लो होतेतिवदेकेन केनचिद् गुणेनैष्टव्यो विविक्ते इतिवद्वा कया-
चिदेकया क्रिययोपलक्षितानामेकमभिधानमवकल्पिष्यत इत्याशङ्क्याह—एतेनेति । आचा-
रानुरूपविशेषणानुपपत्तिरेतच्छब्देन परामृष्टा । गुणस्य क्रियाया वा विशेषरूपेणानेक-
पुरुषव्यक्त्युपलक्षणशक्त्यसम्भवाज्जातिग्रहणम् । एतदेवोपपादयति-न हीति । ननु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४६४ मीमांसादर्शनम् [ सू०
विशेषरूपता वा स्वधर्मः। तस्याप्यपदेश्यत्वेनानुवृत्तिव्यावृत्तिप्रत्ययगोचरत्वाभावादित्याशयः।
यथा कारकं क्रियायां व्याप्रीयमाणत्वरूपेण स्वधर्मेण द्वितीयादिविभक्तितोऽन्येन शब्देन
नाख्यायते, यथा भावोऽनाख्यातादन्येन शब्देन स्वधर्मेणाख्यायत इति दृष्टान्तार्थः। नन्वा-
कृतिवचनत्वस्यात्र न्याय्यत्वाभिधानात्तस्याश्च सत्त्वरूपत्वेन शब्दान्तरैराख्यातुं शक्यत्वान्नेदं
भाष्यं शब्दान्तराख्येयत्वनिराकरणसमर्थमित्याशङ्क्येममित्युक्तम्। ननु पूर्वपाठेऽप्युक्तेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें११ ] प्रथमाध्याये तृतीयपादः ४६५
भवतीत्याशङ्क्य — असम्बद्धत्वानुपपत्तिकत्वाभ्यामित्युक्तम् । कथं तर्ह्यत्र योजितमित्य-
पेक्षिते—श्रुतीत्युक्तम् । यथा ‘चत्वारि शृङ्गेति मन्त्रो विषुवति होतुर्राज्ये विनियोगादा-
दित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगादादित्यरूपेणाग्नेः स्तुत्यर्थोऽन्यत्रापि विनियोगा-
द्यज्ञमात्रस्तुत्यर्थः ।
वैयाकरणैर्नामाख्यातोपसर्गनिपाताः शब्दा ब्रह्मणः चत्वारि शृङ्गेति । भूतमविष्य-
द्वर्त्तमानकालवाचिनः प्रत्यया उदात्तानुदात्तस्वरिता वा स्वरास्त्रयः पादाः । वर्ण-नादा-
त्मकौ
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४६६ मीमांसादर्शनम् [ सू०
उत्तरसूत्रसङ्गत्यर्थमपि उपपदनिरासार्थंतयैवायं ग्रन्थो व्याख्येय इत्याह—तद्यथा
चेति । तन्न्यायत्वादिति सूत्रावयवव्याख्यानाथं तस्मादिति भाष्यम् । सर्वधर्मत्वस्यैव साध्य-
त्वाद्धेतुत्वानुपपत्तेरयुक्तमाशङ्क्य सर्वधर्मत्वसाधकसर्वाधिकारन्यायत्वादित्येवं व्याचक्षाणः
सर्वधर्मत्वप्रतिज्ञायां योजयति--तस्मादिति ॥ ११ ॥
मा० प्र०—कल्पसूत्र आदि स्वतः प्रमाण है या नहीं अर्थात् ये भी अपौरुषेय हैं,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१२ ] प्रथमाध्याये तृतीयपादः ४६७
भा० वि०—तत्र वेदव्यतिरिक्तविद्यास्थानानामनपेक्षत्वेन वेदत्वं वेदवत्
प्रामाण्यं वा न युक्तमिति नञर्थमाह—नैतदेवमिति । तत्र हेतुमवतार्य व्याचष्टे—
असन्नियमादित्यादिना । संशब्दस्सम्यगर्थः नियमशब्दो निबन्धनार्थ इत्यर्थः ।
असम्यङ्निबन्धत्वे हेतुमाह—स्वराभावादिति । स्वराभाव उपलक्षणार्थः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें४६८ मीमांसादर्शनम् [ सू०
यदेव भवतां गोत्रं तदस्माकमपीतिवत् ।
आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥ ५७३
अस्मदीयमिदं वाक्यं भवतामिति चोदिताः ।
जल्पन्त्यस्माकमेवैतच्छ्रुत्वा मीमांसकैर्हतम् ॥ ५७४
त्यक्तलज्जं ब्रुवाणो हि वाचोयुक्तिमनर्थिकाम् ।
कुर्वन् परातिसंधानमश्रान्तः कोऽवसीदति ॥ ५७५
तत्र शाक्यैः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें