सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 516, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 516

४६२ मीमांसादर्शनम् [ सू०
सिद्धेर्नैराकाङ्क्ष्यं वक्तुं यावता विना नैराकाङ्क्ष्यं न भवति तावद्दर्शयति-इहेति ।
भावना च नाम विशेषणव्यवच्छिन्नो यागादिधात्वर्थविशेषश्च स्वर्गादिफलं च द्रव्यदेवतादि-
कारकं च यावद्दृष्टेतिकर्त्तव्यता च । तद्विधायको विधिश्च श्रुतिष्वनुमीयमानास्वनुमीयत
इत्यन्वयः। अवश्यमित्येतावतामनुमाने कारणत्वमुक्तम् । तदेव कुत इत्यपेक्षायाम्-
कारणानुविधायीत्युक्तम् । कारणात्तथाविधत्वं विना कार्यंतथाविधत्वानुपपत्तिः । कार्यानु-
रूपकारणानुमाने हेतुरित्यर्थः । निषेधे कियता नैराकाङ्क्ष्यमित्यपेक्षायामाह-एवमिति ।
नन्वेतावत्यनुमितेऽपि निरधिकारयोर्विधिनिषेधयोरप्रवृत्तेरधिकारिविशेषोपादानं विना
नैराकाङ्क्ष्यं न सम्भवतीत्याशङ्क्याह-तावता चेति । अशक्यविधानानुपपत्तेरसामर्थ्य-
व्यावृत्त्यवगमाच्छक्तमात्रस्य कर्तृत्ववधारणात्कर्तृत्वस्य चाधिकारं विनानुपपत्तेः । कर्तृ-
विशेषेणैवाधिकारिविशेषावधारणसिद्धेनं होलादौ दिग्देशपरिच्छिन्नस्यैव कर्तृविशेषस्या-
धिकार इति नियता प्रतिपत्तिर्लभ्यत इत्यर्थः ।
ननु शक्तस्यापि विधिमन्त्रेणाप्रवृत्तेस्तस्य चात्राचारकल्पकत्वात्तदानुरूप्येण दिग्देश-
परिच्छिन्नकर्तृविशेषविषयत्वप्रतीतेः कथं तन्निराकरणमित्यभिप्रायेण पृच्छति-कुत इति ।
उत्तरमाह-त्रिधैवेति । स्वर्गकामो यजेतेत्यविशेषश्रवणेऽप्यग्निविद्यारहितत्वेनायोग्यस्य
शूद्रादेः कर्तृत्वासम्भवाद्योग्यत्वेन त्रैवर्णिकः कर्ता विशेषरूपेण ज्ञायते 'पतितषण्ढयोर्द्वि-
जातिकर्मभ्यो हानिर्'ति निषेधात्तद्वर्जितो प्रतिषिद्धत्वेन ज्ञायते । 'राजा राजसूयेन
यजेतेति विशेषापादकत्वे येन क्षत्रियः कर्त्ता विशेषरूपेण ज्ञायते । न त्विहैषां मध्ये किं-
चिद्दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणमस्तीत्याशयः । यत्र योग्यत्वस्य तावदविशिष्टत्वान्न
दिग्देशपरिच्छिन्नकर्तृविशेषज्ञानकारणतास्तीत्याह-तद्विहेति । श्रावयेच्चतुरो वर्णानित्यादि-
श्रुतिपर्यालोचनया शूद्राणामपि वैदिकमन्त्ररहितेषु स्मृत्याचारप्राप्तेषु कर्मस्वधिकारोऽस्तीति,
समस्तशब्देनोक्तम् । सर्वधर्मबहिष्कृतत्वस्मृत्या म्लेच्छानां धर्मानधिकारावगादायंवर्त्त-
निवासिग्रहणम् । निषेधाधिकारे त्वविशेषात्सर्वाधिकारोपपत्तेराचारकल्प्यत्वाद्द्विधेयस्या
चारस्य यावद्भिर्वर्णैराश्रमभिर्म्लेंच्छादिभिर्वानुष्ठानं दृश्यते, तावतां तस्मिन्नाचारेऽधिकार
इति प्रतिपादनायानवक्लृप्तिरुक्ता ।
अप्रतिषिद्धत्वस्य कर्तृविशेषज्ञानकारणत्वं पूर्वोपन्यस्तमप्युपपदनिराकरणाधीननिराकर-
णत्वादुपेक्ष्योपपदं तावन्निराकरोति-न त्वत्रेति । यथा चात्र यः कर्तृविशेषः कल्पः,
तद्वाचकत्वेन तदनुसारि यदुपपदमनुमीयते, तन्न सम्भवतीत्यर्थं । प्राच्याद्युपपदशङ्का-
निराकरणार्थम्-देशश्रेत्युक्तम् । गृह्यादौ त्वाचारशब्दपाठोपलक्षणार्थमङ्गीकृत्य नात्र गृह्य-
गौतमीयादौ यथापाठम्, छन्दोगादिकर्तृविशेषानुसाय्युंपपदं किंचिदुपात्तं यत् तन्मूलभूतायां
श्रुतावनुमीयेतेति योज्यम् । प्रतिषेध्यवाच्युपपदासम्भवेनाप्रतिषिद्धत्वमपि कर्तृविशेषज्ञान-
कारणं नेह सम्भवतीत्याह-येऽपि चेति ।
आचारानुरूपकर्तृविशेषवाच्युपपदासम्भवं न तस्याकृतिवचनतेति भाष्योक्तेन मार्गेणो-
पपादयितुमुपक्रमते-योग्यत्वेनेति । प्रश्नपूर्वकमुपपादयति-कुत इति । श्लोकं