मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 513, कुल 804 में से
संदर्भ में पढ़ें११ ] प्रथमाध्याये तृतीयपादः ४५९
वदन्ति धर्ममेतानि चोदना गमयन्ति च ।
अशक्यमीदृशं वक्तुं यावदुक्तप्रमाणकैः ॥ ५५५
उक्तमर्थं परित्यज्य यदनुक्तं प्रतीयते ।
अनुक्तेन च सोऽप्यर्थ इति किं नोपपद्यते ॥ ५५६
तस्माद्धर्मप्रयोगस्य साक्षादुक्तस्य तत्स्वयम् ।
प्रमाणं धर्मशास्त्रं स्यान्न वेदव्यवधानवत् १ ॥ ५५७
शाक्यादिनिर्मिते धर्मशास्त्राभासे निराकृते ।
शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रमाण्यमितिपक्षः
धर्मप्रयोगशास्त्रत्वं तस्य वेदमिहोच्यते ॥ ५५९
येनैवाकृतकत्वं हि वेदस्य प्रतिपाद्यते ।
न्यायेन तेन शाक्यादिग्रन्थस्यापि भविष्यति ॥ ५५९
बोधकत्वात्प्रमाणत्वं स्वतस्तस्यापि लभ्यते ।
न च संदिह्यते बुद्धिर्न विपर्य्यते क्वचित् ॥ ५६०
अकर्तृकतया नापि कर्तृदोषेण दुष्यति ।
वेदवद् बुद्धवाक्यादिकर्तृस्मरणवर्जनात् ॥ ५६१
बुद्धवाक्यसमाख्याऽपि प्रवक्तृत्वनिबन्धना ।
तद्द्रष्टृत्वनिमित्ता वा काठकाङ्गिरसादिवत् ॥ ५६२
यावदेवोदितं किंचिद्वेदप्रामाण्यसिद्धये ।
तत्सर्वं बुद्धवाक्यानामतिदेशेन गम्यते ॥ ५६३
तेन प्रयोगशास्त्रत्वं यथा वेदस्य संमतम् ।
तथैव बुद्धशस्त्रादेर्वक्तुं मीमांसकोऽर्हति ॥ इति ॥ ११ ॥ ५६४
न्या० सु०—अनुमानादित्यादिभाष्यात्स्मृत्याचाराणां किं व्यवस्थया प्रामाण्यम-
व्यवस्थाया वेति चिन्ता प्रतिभाति । तत्र प्रमाणस्य तावदालोकवत्सर्वपुरुषसाधारण्यान्न
व्यवस्थाशङ्कोपपत्तिमती । अथ स्मृत्याचारमूलभूता श्रुतिः किं व्यवस्थितविषया सर्वविषया
वेत्यभिप्रायः । तथाऽप्यष्टकादिस्मृतीनां प्रदीपाद्याचाराणां च व्यवस्थितविषयमूलाथशङ्का
निर्बीजैव मूलविशेषविषयचिन्तात्वाच्च स्मृत्यधिकरणानन्तरं सङ्गच्छेत । तस्माद्द्होलाका-
दयः प्राच्यैरेवेत्यादिभाष्यात्त्वधिकारिव्यवस्था सदसद्भावाचिन्ता । सा च प्रमाणेन लक्षणे-
न सङ्गतेत्याशङ्कयाह—देशधर्मानिति ।
१. व्यवधानतः पु० पाठः ।