सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 507, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 507

११ ] प्रथमाध्याये तृतीयपादः ४५३
विषयमाह—इहेति । कल्पसूत्रशब्दो विद्यास्थानमात्रपरः । अत्र१ च कल्पशब्द
प्रयोगकल्पनात् कल्प इति बोधायनमशकादिप्रणीतग्रन्थविषयः । सूत्रशब्दस्तु
प्रयोगसूचनात् सूत्रमिति व्युत्पत्त्या संज्ञापरिभाषादिभिः व्याख्यानापेक्षाश्वलाय-
नादिग्रन्थविषयः । तत्रापौरुषेयत्वपौरुषेयत्वाभ्यां संशयमाह—किं प्रमाणमिति ।
किं वेदमूलत्वेन विना स्वयमेव वेदतया वेदतुल्यतया वा प्रमाणम् किं वा
स्वातन्त्र्येण न प्रमाणम् ? किन्तु श्रुतिमूलतयेति विमर्शार्थः, विचारप्रयोजनं
त्वधीतवेदविस्मरणप्रायश्चित्तवान् कल्पसूत्रादिविस्मरणेऽपि प्रायश्चित्त-प्राप्तिः, सूत्रं
व्याकुर्वाणः पूर्वपक्षयति—प्रयोगस्येति । यस्मादेवं जातीयकं कल्पादिरूपं प्रयोगस्य
धर्मानुष्ठानस्य शास्त्रं शासकम्, तस्मात् स्वयमेव प्रमाणमित्यर्थः । पौरुषेयवाक्य-
स्यातीन्द्रियधर्मानुष्ठापकत्वाभावेन प्रयोगशास्त्रत्वादेवापौरुषेयत्वनिश्चयादिति भावः ।
कल्पादीनां स्वयं प्रमाणत्वे हेत्वन्तरमाह—सत्यवाचामिति । न गुणवद्वक्तृकत्वं
सत्यवादिवचनत्वम्, किन्तु संवादिवचनत्वमभिप्रेतम् । एतदेव प्रश्नपूर्वकमुप-
पादयति—कथमित्यादिना । कल्पादीनां वैदिकार्थविषयत्वेन वेदसंवादित्वमत
आह—य एवेति । कल्पादीनां वेदेनैकार्थ्यं फलितमाह—तस्मादिति । आचार्याः
मशकप्रभृतयः ।
ननु कल्पादीनाम् "अग्निमीले पुरोहितम्" इत्यादीनामिव रूपदर्शनमात्रेणा-
पौरुषेयत्वानवगमात् कथं संवादित्वेन प्रामाण्यमत आह—आचार्यवचनमिति ।
आचार्यैः मशकादिभिः प्रोच्यमानमाचार्यवचनमित्युच्यते । एतदेव विवृणोति—
प्रत्यक्षत इति । इतश्चानपेक्षमैतेषां प्रामाण्यमित्याह—वेदवाक्यैश्चेति । यादृशो
हि मन्त्रब्राह्मणयोः अध्येतॄणामादरः अनध्यायपरिवर्जनादिरूपः, तादृश एव
कल्पसूत्रेष्वित्यर्थः । उक्तहेतुसिद्धमनपेक्ष्य प्रामाण्यमुपसंहरति—तस्मादिति ॥११॥
षष्ठं कल्पसूत्राधिकरणं
त० वा०—कल्पसूत्राण्युदाहृत्य संप्रत्येतद्विचायंते ।
किमेतेषां स्वतन्त्राणां प्रामाण्यं वेदवद्द्भवेत् ॥ ५०१
किं वा वेदत्वमेवैषां मन्त्रब्राह्मणवन्मतम् ।
वैदिकार्थप्रबन्धाद्धि नैतेषां स्मृतितुल्यता ॥ ५०२
कल्पसूत्रयोर्भेदवर्णनम्
आह—के पुनः कल्पाः ? कानि सूत्राणीति ?
उच्यते—सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते ॥ ५०३
१. कल्पानां सूत्राणाञ्च भेदो वार्तिके प्रतिपादितः । यथा सिद्धरूपः प्रयोगो यैः कर्मणा-
मनुगम्यते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते—इति । तदेवात्र व्याख्यात्रा
निर्दिश्यते ।