मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 522, कुल 804 में से
संदर्भ में पढ़ें४६८ मीमांसादर्शनम् [ सू०
यदेव भवतां गोत्रं तदस्माकमपीतिवत् ।
आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥ ५७३
अस्मदीयमिदं वाक्यं भवतामिति चोदिताः ।
जल्पन्त्यस्माकमेवैतच्छ्रुत्वा मीमांसकैर्हतम् ॥ ५७४
त्यक्तलज्जं ब्रुवाणो हि वाचोयुक्तिमनर्थिकाम् ।
कुर्वन् परातिसंधानमश्रान्तः कोऽवसीदति ॥ ५७५
तत्र शाक्यैः प्रसिद्धाऽपि सर्वक्षणिकवादिता ।
त्यज्यते वेदसिद्धान्ताज्जल्पद्भिर्नित्यमागमम् ॥ ५७६
धर्मस्तेनोपदिष्टोऽयमनित्यं सर्वसंस्कृतम् ।
क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया ॥ ५७७
बुद्धिबोध्यं त्रयादन्यत्संस्कृते क्षणिकं च तत् ।
तथा शब्देऽपि बुद्धेर्नियमान्नाभिव्यक्तिर्द्वेधाऽपि दोषादित्येवमादिभिः सर्वदा
पदार्थसंबन्धानित्यत्वप्रतिपादनात्तद्विपरीतमागमनित्यत्वमभ्युपगम्यमानं लोकोप-
हासास्पदमात्रमेव भवेत् ।
तथा हि—यस्तन्तूननुपादाय तुरीमात्रपरिग्रहात् ।
पटं कर्तुं समीहेत स हन्याद् व्योम मुष्टिभिः ॥ ५७८
यावदागमनित्यत्ववेश्मदारूपकल्पिते ।
हेत्वाभासाग्निानिर्दग्धे तस्मिंस्तद्द्रेश्म¹ दुष्करम् ॥ ५७९
व्यवहारनित्यताशब्दश्च क्रियानित्यत्वपर्यायः। तद्यस्य शब्दार्थसंबन्धानाम-
नित्यत्वम्, तस्य तदाश्रयव्यवहारनित्यत्वं किमाधारं भविष्यतीत्यतिदुःसंपादम्।
न च शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् ।
नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥ ५८०
शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् ।
स्थितैषा धर्मतेत्येतदर्थशून्यमतो वचः ॥ ५८१
एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी ।
किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥ ५८२
तेनाऽनित्यशब्दवादिनामागमनित्यत्वानुपपत्तेरतीन्द्रियविषयस्य च वाक्यस्य
प्रयोगशास्त्रत्वाभावान्नासन्नियमादित्युच्यते ।
असाधुशब्दभूयिष्ठाः शाक्यजैनागमादयः ।
असन्निबन्धनत्वाच्च शास्त्रत्वं न प्रतीयते ॥ ५८३
१. तस्मिन्तद्वेश्म ।