Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages
Page 627Permalink

षोडशः सर्गः । ३७१

दोषो महोदयेन = महासामर्थ्येन, अथवा महता फलेन । तन्मूलेन प्रकृतक्रिया-सिद्धेरिति । कर्मान्तरेण = प्रायश्चित्तेनेव शमं = शान्तिं निन्ये = प्रापितः ॥ ४८ ॥

हिन्दी—उस सर्पसमूहको तीव्रतेजवाले गरुड पक्षियोंकी सेनाने जैसे महायज्ञ-में विधानके त्रुटिदोषको महाफलवाला प्रायश्चित्त शमन करता है उसी तरह शान्त कर दिया ॥ ४८ ॥

साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ ४९ ॥

मल्लि०—साफल्यमिति । अस्त्रे=सर्पास्त्रे । भाग्ये प्राग्भवीये शुभे कर्मणीव । रिपुपौरुषस्य रिपुपराक्रमस्य साफल्यं कृत्वा, अपवर्गमवसानं= समाप्तिं गते सति । स्वनिवृत्त्या परसाफल्यात्सफलीकरणोपचारः । समन्युः = सक्रोधो जिष्णुरर्जुनोऽनि-न्धनस्येन्धनं विनैवोत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकम् अस्त्रमाग्नेयास्त्रं प्रसभं= शीघ्रं समाददे = जग्राह ॥ ४९ ॥

हिन्दी—पूर्वजन्मके शुभ कर्मके समान सर्पाऽस्त्रके शत्रु पराक्रमके सफलता कर समाप्त होनेपर क्रुद्ध होकर अर्जुनने काष्ठरहित अग्निके अस्त्र अर्थात् आग्नेय अस्त्रको शीघ्रतापूर्वक ग्रहण किया ॥ ४९ ॥

ऊर्ध्वं तिरश्चीनमधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्त सिंहाकृतिरुल्ललात प्राणान्तमिच्छन्निव जातवेदाः ॥ ५० ॥

मल्लि०—ऊर्ध्वमिति । ऊर्ध्वं तिरश्चीनं = तिर्यक् । 'विभाषाऽवरेदधिरुत्तरस्याम्' इति खप्रत्ययः । अधश्च कीर्णैविस्तृतैर्ज्वाला एव सटाः = केसराः । 'सटा जटा-केसरयोः' इति विश्वः । तैः, लङ्घितमेघपङ्किरतिक्रान्तजलदावलिः । आयस्तस्य लङ्घनोद्यतस्य सिंहस्येवाकृतिर्यस्य स जातवेदाः = अग्निः प्राणान्तं प्राणिनां संहार-मिच्छन्निवोत्पपात ॥ ५० ॥

हिन्दी—ऊपर, तिर्यक् (तिरछा भाग) और नीचे विस्तृत ज्वलारूप केसरोंसे मेघपङ्क्तिको लङ्घित कर लङ्घनके लिए तत्पर सिंहकी समान आकृतिसे युक्त अग्नि मानों प्राणियोंके संहारको इच्छा करता हुआ प्रकट हो गया ॥ ५० ॥

भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विशीर्यमाणाश्मनिनादघोरं ध्वनिं वितन्वन्क्षणशः कृशानुः ॥ ५१ ॥

Page 628Permalink

३७२ किरातार्जुनीयम्

मल्लि०—भित्त्वेति । भाभिस्तेजोभिः सवितुर्मयूखान् = किरणान् । 'किरणोस्रमयूखांश्व-'त्यमरः । भित्त्वेवाभिहत्येव विष्वक् = समन्ताद्विसृताः स्फुलिङ्गा यस्य सः । स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वमुत्प्रेक्ष्यते । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः । अकृशोऽतनुः, कृशानुर्वह्निः । विशीर्यमाणस्य विघटतोऽश्मनो निनादमिव धीरमुद्धतं ध्वनिं वितन्वन् जज्वाल ॥ ५१ ॥

हिन्दी—तेजों से सूर्यकी किरणोंको मानों भेदन कर चारों ओरसे फैले हुए स्फुलिङ्गोंवाला विशाल अग्नि विदीर्ण होते हुए पत्थरकी ध्वनिकी सदृश गम्भीर ध्वनिको फैलाता हुआ प्रज्वलित हो उठा ॥ ५१ ॥

चयानिवोद्रोनिव तुङ्गशृङ्गान् क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशूकानां ततान वह्निः पवनानुवृत्त्या ॥ ५२ ॥

मल्लि०—चयानिति । वह्निः पवनानुवृत्त्या = वायुवशेन, चयानिव हिरण्मयान्प्राकारानिव । 'चयः समूहे प्राकारे' इति विश्वः । तुङ्गशृङ्गानद्रीनिब क्वचिद्धिरण्मयानीति 'पाण्डिनायने-'त्यादिना निपातनात्साधुः । पूराणि = नगराणीव तथा किंशूकानां = पलाशतरूणाम् । 'पलाशो किंशुकः पर्णः' इत्यमरः । महावनानीव । पुष्पितानीति शेषः। ततान = वितस्तार । तदाकारेण जज्वालेत्यर्थः ॥ ५२ ॥

हिन्दी—अग्नि, वायु के अनुसारसे सुवर्णमय प्राकारोंके समान, सुवर्णमय प्रकाशोंके समान, ऊँची चोटी वाले पर्वतोंके समान, शहरोंकी तथा पलाश वृक्षोंके महावनोंके समान हो कर फैल उठा ॥ ५२ ॥

मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जनश्यामरुचः पयोदाः ॥ ५३ ॥

मल्लि०—मुहुरिति । सान्द्राञ्जनश्यामरुचो = घनकज्जलश्यामरुचः । पयोदा मुहुश्चलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताभिश्चलत्पल्लवलोहिनीभिः। 'वर्णोऽनुदात्तात्तोपधात्तो नः' इति ङीप् । तकारस्य नकारः । शिखिनोऽग्नेः । उच्चैरुन्नताभिः शिखाभिर्ज्वालाभिः । अवलीढाः । दग्धा इत्यर्थः । अत एव तलेषु = अधोभागेषु मुक्ताविशदा = मौक्तिकधवळा बभूवुः । जलसंशोषणादिति भावः । 'अधः स्वरूपयोरस्त्री तलम्' इत्यमरः ॥ ५३ ॥

हिन्दी—गाढ कज्जलके समान कृष्णवर्ण वाले मेघ वारंबार चलती

Page 629Permalink

षोडशः सर्गः
३७३

पल्लवके समान लाल वर्णवाली अग्निकी उन्नत ज्वालाओंसे जलते हुए वन एवं निम्न भागोंमें मोतीके समान उज्ज्वल हो गये ॥ ५३ ॥

लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलाचिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहमस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ ५४ ॥

मल्लि०—लिलिक्षतीवेति । क्षयकालरौद्रे = कल्पान्तकालवद्भयावहे विलोलाचिषि = चलज्वाले, रोहिताश्वे = ज्वलने । 'रोहिताश्वो वायुसखः' इत्यमरः । लोकं लिलिक्षति लेढुमिच्छति जिघत्सति सतीव । लिहः सन्नन्ताच्छतृप्रत्ययः । पिनाकिना पुनर्हूता आहूता आकारिता महाम्बुवाहा येन तत् । पाशभृतो=वरुणस्य । अस्त्रं प्रणिन्ये प्रयुक्तम् ॥ ५४ ॥

हिन्दी—प्रलय कालके समान भयङ्कर, चञ्चल ज्वालावाले अग्निके मानों लोकको खानेकी इच्छा करनेपर शिवजीने फिर विशाल मेघोंको बुलानेवाले वारुणास्त्रका प्रयोग किया ॥ ५४ ॥

ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ॥ ५५ ॥

मल्लि०—तत इति । ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः = पर्वतसमप्रान्ताः । 'रोधः स्यात्प्रान्तकूलयोः' इति विश्वः । तडिल्लताभिरालिङ्गिता नीलमूर्तयो = नीलाङ्गानि येषां ते पयोमुचो मेघा अधोमुखा वाकाशसरिदिव निपतन्तीरिति प्रसक्तमनुबन्धमविच्छिन्नं यथा तथा मुमुचुः । इतः प्रभृति वंशस्थवृत्तम् ॥ ५५ ॥

हिन्दी—तब पर्वतके तुल्य प्रान्त भाग वाले, बिजलियोंसे आलिङ्गित नील अङ्गों वाले मेघ, अधोमुख आकाश गङ्गाके समान गिरने वाले जलको लगातार बरसाने लगे ॥ ५५ ॥

पराहताध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ ५६ ॥

मल्लि०—पराहतेति । पराहता = अभिहता अतो = ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन् पराहतध्वस्तशिखे । अधिक्षिप्तं प्रहारितं नाशितम् । ताडितमिति यावत् । अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिन् । शिखावतोऽग्ने-

Page 630Permalink
१७४किरातार्जुनीयम्

वपुषि स्वरूपे । तप्तेऽयसि लोह इव कृतास्पदाः कृतस्थितयः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्रथमे पयोनिपाता जलपाता ध्वनि वितेनिरे = विस्तारयामासुः ॥ ५६ ॥

हिन्दी— जलसे ताडित होकर अतः बुझी हुई ज्वालावाले पर्याप्त तेजके नष्ट होनेपर पर्याप्त तेजवाले अग्निके स्वरूपमें मानों सन्तप्त लोहमें स्थिति किये हुए प्रथम जलपात आवाज करने लगे ॥ ५६ ॥

महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्वथनेन फेनताम् ।
व्रजद्भिद्रन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥ ५७ ॥

मल्लि०— महानल इति । महानलेऽग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पतन्तीति भिन्नसिताभ्रपातिभिः । 'कर्तर्युपमाने' इति णिनिप्रत्ययः । अत एव सद्यः क्वथनेन पाकेन फेनतां समेत्य = प्राप्य, परिक्षयं = नाशं व्रजद्भिर्जलैरार्द्रेन्धनवत् = आर्द्रकाष्ठैरस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । दिवि = गगने, धूमसंततिर्वितेने विस्तारिता । फेनादिकमार्द्रेन्धनेऽपि तुल्यम् ॥ ५७ ॥

हिन्दी— प्रदीप्त अग्निमें खण्डित सफेद बादलोंके समान पड़ने वाले अतएव उसी क्षण पाकसे फेनके रूपमें परिणत होकर नष्ट होने वाले जलोंने गीले काष्ठोंके समान आकाशमें धूमसमूहको फैला दिया ॥ ५७ ॥

स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥ ५८ ॥

मल्लि०— स्वकेतुभिरिति । पाण्डुरैर्नीलैः पाटलैश्च पाण्डुरनीलपाटलैर्विविधैः स्वकेतुभिर्धूमैः समागताः = संगताः । अत एव शक्रधनुषः प्रभाभिद इन्द्रधनुर्द्युतिभाजो विभावसोरग्नेस्त्विषोऽसंस्थितामस्थिरां विचित्रस्य चीनांशुकस्य = पट्टवस्त्रविशेषस्य चारुतामादधिरे = दधुः ॥ ५८ ॥

हिन्दी— श्वेत, कृष्ण वर्ण और लाल विभिन्न धूओं से मिले हुए अत एव इन्द्रधनुषी कान्तिवाले अग्निकी कान्तिने अस्थिर विचित्र रेशमी वस्त्रकी सुन्दरता का धारण कर लिया ॥ ५८ ॥

जलोषसंमूर्च्छनमूर्च्छितस्वनः प्रसक्तविद्युल्लसितेधितद्युतिः ।
प्रशान्तिमेध्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ ५९ ॥

Page 631Permalink

षोडशः सर्गः ३७१

**मल्लि०—**जलोघेति । जलोघानामुदकप्रवाहाणां संमूर्च्छनेन = मेलनेन मूर्च्छितस्वनः = प्रवृद्धघोषः । 'मूर्च्छनं मेलने प्रोक्तं वृद्धौ मूर्च्छितमेव वा' । इति सज्जनः । प्रसक्तैः = संगतैर्विद्युतां = तडिल्लतानां लसितैः स्फुरणैरेधिता = वर्धिता द्युतिर्यस्य स धृतधूममण्डलो = जलाघातसंभृतधूमपटलः पावकः प्रशान्तिमेष्यन्, तत्र देशे भूयानिव बभूव । भूयस्तया स्थापित इवेत्युत्प्रेक्षा ॥ ५९ ॥

**हिन्दी—**जलप्रवाहके मिलनेसे बढ़े हुए शब्द वाला, मिली हुई बिजलीके स्फुरणोंसे बढ़ी हुई कान्तिसे युक्त, धूममण्डलका धारण किया हुआ अग्नि बुझनेके समयमें युद्धस्थलमें अधिकके समान प्रतीत होने लगा ॥ ५९ ॥

प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ ६० ॥

**मल्लि०—**प्रवृद्धेति । प्रवृद्धानां सिन्धोः = समुद्रस्य ऊर्मीणां चया राशय इव स्थवीयसां स्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवाः शकलास्तैः सरूपतां = समानरूपतां प्रपेदिर इत्युपमा ॥ ६० ॥

**हिन्दी—**समुद्रकी बढ़ी हुई तरङ्गोंके समूहके समान बड़े बड़े जलसमूहके प्रवाहोसे विश्लेषित अग्निसमूहने सन्ध्याकी लालीको प्राप्त मेघोंके विच्छिन्न खण्डोंके समान रूपको प्राप्त किया ॥ ६० ॥

उपेत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥

**मल्लि०—**उपेतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो = नष्टमूलोऽसंशयं यथा तथाऽनुदयाय = पुनरनुत्थानाय संक्षयं = नाशम् । उपैति । तथा हि—तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः हव्यवाहोऽग्निः पराभवं = नाशं प्रययौ । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६१ ॥

**हिन्दी—**जैसे तेजस्वी पुरुष भी मूलके नष्ट होनेपर निश्चय ही फिर उत्थान न होनेके लिए नाशको प्राप्त होता है वैसे ही जलसमूहसे विश्लिष्ट समूहवाला अग्नि नष्ट हो गया ( अर्थात् बुझ गया ) ॥ ६१ ॥

अथ विहितविधेयेराशु मुक्ता विताने-
रसितनगनितम्बश्यामभासां घनानाम् ।

Page 632Permalink

३७६ | किरातार्जुनीयम्

विकसदमलधाम्नां प्राप नीलोत्पलानां
श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ ६२ ॥

मल्लि०—अथेति। अथ अग्निनिवारणानन्तरम्। विहितविषयैः = कृतकृत्यैः। अञ्जनगस्याञ्जनाद्रेर्नितम्बः। कटकस्तद्वत् श्यामभासा = वितानैः = पटलैर्मुक्ता द्यौराकाशो वह्निदाहादिवेत्युत्प्रेक्षा। विकसन्ति च तानि अमलधामानि स्वच्छ-कान्तीनि च तथा नीलोत्पलानाधिकविशुद्धामत्युज्ज्वलां श्रियं प्राप। निदर्शनाल-ङ्कारः ॥ ६२ ॥

हिन्दी— आग्नेय अस्त्रके निवारणके बाद कार्यको किये हुए अञ्जन पर्वत-के मध्यभागके समान श्याम कान्तिवाले मेघोंके समूहसे उन्मुक्त आकाशने मानों अग्निदाहसे विकसित निर्मल कान्ति वाले नीलकमलोंके अतिशय उज्ज्वल कान्ति-को प्राप्त कर लिया ॥ ६२ ॥


इति विविधमुदासे सव्यसाची यदस्त्रं
बहुसमरनयज्ञः सादयिष्यन्नरातिम् ।
विधिरिव विपरीतं पौरुषं न्यायवृत्तेः
सपदि तदुप निन्ये

षोडशः सर्गः ३७७

Page 633Permalink

षोडशः सर्गः ३७७

वीतप्रभावतनुरप्यतनुप्रभावः
प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णु-
र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ ६४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः ।

मल्लि० — वीतेति । भूतपतिना = शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वप-
हृतेषु सत्सु वर्षिष्यता उत्तरत्र — सहस्रगुणं वितरिष्यता दिनकृता = सूर्येण जलेष्व-
पहृतेषु सत्सु लोक इव वीतप्रभावो = गतास्त्रमहिमा । अन्यत्र —, गतशक्तिः ।
अत एव तनुः क्षीणो वाऽत्रप्रभावस्तनुः तथाऽप्यतनुप्रभावो निसर्गतः सामर्थ्याद-
धिकः । अन्यत्र — उद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं = जयशीलाम् ।
‘जिदृक्षो —’त्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं = भुजपराक्रमसंपदम् । उभयत्रापि-
पुरस्कारमिति यावत् । तत्कालानुष्ठितानिति शेषः । प्रत्याचकाङ्क्ष = प्रत्याहर्तुमियेषे-
त्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति
तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलका वृत्तम् ॥६४॥

हिन्दी० -- शिवजीके अस्त्रोंको व्यर्थ कर देनेपर जैसे सहस्रगुण जल देते हुए
सूर्यके जलके आहरण करनेपर नष्ट प्रभाववाला, लोक वर्षा करनेवाले सूर्यसे जल
पानेकी इच्छा करता है उसी तरह अस्त्रमहिमासे रहित क्षीण होकर भी अक्षीण
प्रभाव अर्जुनने बाहुपराक्रमसंपत्तिकी आकाङ्क्षा की ॥ ६४ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः

Page 634Permalink

सप्तदशः सर्गः

अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाह—अथेत्यादिभिः—
अथापदा मुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपूष्यन् स्वपौरुषेणेव शरासनेन ॥ १ ॥

मल्लि०—अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् । आपदासुद्धाणक्षमेषु = आपन्निवारणसमर्थेषु । अस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु, गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं = धैर्यम् । अभिपूष्यन् = वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यमवलम्बमान इत्यर्थः । अत एव गुरुश्रीः = प्रवृद्धशोभासम्पत्तिः । 'पद्मा मा लक्ष्मीः श्रीनिगद्यते' इति शाश्वतः ॥ १ ॥

हिन्दी—अनन्तर आपत्तियोंके निवारणमें समर्थ मित्रोंके समान प्रस्वापन आदि अस्त्रोंके निष्फल होनेपर महान् अपने पौरुषके समान महान् गाण्डीव धनुषे धैर्यको बढ़ाते हुए अर्जुन बढ़ी हुई शोभासम्पत्तिवाले हुए ॥ १ ॥

भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्यश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्विवह्निः ॥ २ ॥

मल्लि०—भूरीति । पुनश्च, भूरिप्रभावेण = महानुभावेन सह रणाभियोगात् = युद्धलाभात् प्रीतः तदीयवृद्धया = शत्रुवृद्ध्या विजिह्यो = विश्लथश्च तथा स्पष्टो दीप्त्या प्रज्वलन्नप्यविस्पष्टो वपुःप्रकाशो यस्य सः । कुतः । सर्पन् = प्रसरन् महान्धूमो यस्य स सर्पन्महाधूमोऽद्विवह्निरिव स्थितः ॥ २ ॥

हिन्दी—प्रचुर प्रभावके साथ युद्धके लाभसे प्रसन्न परन्तु शत्रु की वृद्धिसे शिथिल होकर अर्जुन दीप्तिसे प्रज्वलित होकर भी फैले हुए प्रचुर धूमवाले पर्वत के अग्निके समान अस्त्र शरीर प्रकाशवाले हो गये ॥ २ ॥

तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रमिवोरुधेयम् ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवाऽरिदुर्गे ॥ ३ ॥

मल्लि०—तेज इति । पुनश्च, परैररिभिरहार्यमभेद्यं निजं = स्वकीयं महस्तेजो = शौर्यं मित्रमिव समाश्रित्य । अत एव भीमे = भयानकेऽरिरेव दुर्गं तस्मिन्

सप्तदशः सर्गः ३७९

Page 635Permalink

सप्तदशः सर्गः ३७९

अरिदुर्गे शत्रुसङ्कटे। अस्खलितस्वभावमचलशीलगुरु = महत् धैर्यं भुजालम्बमिव =
हस्तावष्टम्भमिव, आसादयन् = प्राप्नुवन्। ईदृशे संकटेऽपि महावीर्यत्वाद्वैर्य्यमत्यज-
न्नित्यर्थः ॥ ३ ॥

हिन्दी—शत्रुओंसे अहार्थ और मित्रके समान अपने प्रचुर तेजका आश्रय
कर अर्जुन भयानक शत्रुरूप सङ्कटमें अविचलित स्वभाववाले होकर प्रचुर धैर्यको
हाथके अवलम्बनके समान प्राप्त कर रहे थे ॥ ३ ॥

वंशोचितत्वादभिमानवत्या संप्राप्तया संप्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ ४ ॥

**मल्लि०—**वंशेति। पुनश्च, अभिमानो ममतावुद्धिस्तद्वत्या। विषयतया कर्मणि
कर्तृत्वोपचारः। अभिमानास्पदेनेत्यर्थः। अन्यत्र—, कुलशीलाद्यभिमानवत्या।
वंशोचितत्वात् = स्वकुलानुरूपत्वात्। असुभ्यः = प्राणेभ्योपि संप्रियतां = संप्रा-
प्तया परेण शत्रुनाऽक्ष्णोः समीपे समक्षमक्यग्रतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः'
इति समासान्तष्टच्प्रत्ययः। आदातुं = ग्रहीतुमिष्टयाऽऽदित्सितया। आजिहीर्षितये-
त्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्तः। वध्वेव कीर्त्या हेतुना परितप्यमानः,
कर्तरि शानच् 'हेतो' इति तृतीया। कन्यया शोक इति वत् ॥ ४ ॥

**हिन्दी—**अर्जुनवंशके उचित होनेसे अभिमानसे युक्त बुद्धिसे प्राणसे भी प्रिय
भावको प्राप्त, पत्नीकी तुल्य कीर्तिके शत्रुसे सामने ही ग्रहण करनेकी इच्छासे
आँखोंके सामने ही सन्तप्त हो रहे थे ॥ ४ ॥

पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ ५ ॥

**मल्लि०—**पतिमिति। पुनश्च, नगानां पतिं हिमवन्तमिव बद्धमूलं = विपक्षं
शत्रुं तरसा = बलेन। उन्मूलयिष्यन् = उत्पाटयिष्यन्। किंच, त्रिभिर्मार्गेर्गच्छतीति
त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव। ईश्वरेण लघुप्रयत्नमल्पप्रयासं
यथा तथा, निगृहीतवीर्यः = प्रतिबद्धशक्तिः, हृतास्त्रशक्तिरिति यावत्। पुरा किल
हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरोनि बजटाजूटेन जग्राहेति
पौराणी कथा तद्वदित्यर्थः ॥ ५ ॥

**हिन्दी—**पर्वतपति हिमालयके समान बहुमूल शत्रुको वेगसे उन्मूलित करनेकी

Page 636Permalink
३८०किरातार्जुनीयम्

इच्छा करते हुए अर्जुन गङ्गाके वेगके समान शिवजीसे थोड़ेसे प्रयाससे नष्ट अस्त्रशक्तिवाले हो गये ॥ ५ ॥

संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
अयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ ६ ॥

मल्लि०—संस्कारेति । एवंभूतः पार्थः संस्कारवत्त्वात् संस्कारश्चित्तवासना । अन्यत्र, साधुत्वम् । असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो ऽमृष्ट-तिस्तद्वत्त्वात् चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः, शिक्षाऽभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा, अन्यत्र तु—, प्रयोगोऽभियुक्तव्यवहारः शिक्षाऽभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु । यथा यथामूर्ता अर्था येषां तेषु यथार्थेषु । अन्यत्र—, नियततार्थेषु । शृणन्ति हिंसन्तीति शरास्तेषु जयम् । तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी । शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एव अर्थस्तमिव । आशशंसे=आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेयेत्यर्थः ॥ ६ ॥

हिन्दी—ऐसे अर्जुनने व्युत्पत्ति वा साधुत्व होनेसे चित्तका रमण करनेवाले प्रयोग, अभ्यास गुण अपने-अपने स्थानकरण आदि वा श्लेष प्रसादरूप भूषणवाले यथार्थ वा नियत अर्थवाले बाणोंसे जयकी ओर शब्दोंसे प्रवृत्तिनिमित्त रूप अर्थोंके समान आकाङ्क्षा की ॥ ६ ॥

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
स निर्वववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ ७ ॥

मल्लि०—भूय इति भूयः=पुनरपि समाधानेन युद्धाय मनोऽवस्थापनेन विवृद्धतेजाः=प्रवृद्धप्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं नाभवत्, इति हेतोः व्यथावान् = परितापवान् सोऽर्जुन ईक्षणाभ्यां = दृष्टिभ्यां महानागो = महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितम् । अस्रमश्रु निर्ववाम = निर्जगाम । सात्त्विकानां रससाधारण्याद्रौद्रेऽप्युदयोक्तिः । 'स्तंभः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयं इत्यष्टौ सात्विका मताः' ॥ ७ ॥

हिन्दी—फिर भी युद्धके लिए मनको व्यवस्थित करनेसे बढ़े हुए प्रतापवाले अर्जुनने 'पहले इस प्रकारका युद्ध नहीं हुआ था, ऐसा सोचकर परितप्त होकर

सप्तदशः सर्गः ३८१

Page 637Permalink

सप्तदशः सर्गः ३८१

नेत्रोंसे जैसे महान् नाग विषवमन करता है इसी तरह क्रोधसे उत्थापित आंसू गिराने लगे ॥ ७ ॥

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ ८ ॥

मल्लि०— तस्येति । आहवायासेन = युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्रे = कोपारुणे आयते विस्तृते लोचने यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य । रोषतप्तं मुखं निदाघो घर्मो निर्वापयिष्यन् शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा । प्रस्नापयामास = सिषेच । स्वेदं जनयामासेत्यर्थः । स्नातेर्मित्त्वविकल्पाद्ध्रस्वविकल्पः ॥ ८ ॥

हिन्दी— युद्धके आयाससे शिथिल केश बन्धवाले, क्रोधसे लाल और विशाल नेत्रोंवाले अर्जुनके क्रोधसे सन्तप्त मुखको स्वेदविन्दुने मानों ठण्डा करनेके लिए सेचन किया ॥ ८ ॥

क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाशुराजीरिव तिग्मरश्मिः ॥ ९ ॥

मल्लि०— क्रोधेति । क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृतस्तिग्मरश्मी रविवृष्टेः प्रभवाय=वर्षणाय तिस्र ऊर्ध्वांशूनां राजीरिव । अर्कस्योर्ध्वांशुरेखोदये वृष्टिलिङ्गमित्यागमः । रणाय = रणप्रवृत्तये तिस्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥ ९ ॥

हिन्दी— अन्धकारके समान क्रोधसे आच्छादित अर्जुनने जैसे मेघसे आच्छादित सूर्य वृष्टि करनेके लिए तीन ऊर्ध्वकिरणोंको धारण करते हैं उसी तरह युद्धकी प्रवृत्तिके लिए तीन भ्रूभङ्गोंकी रेखाओंका धारण किया ॥ ९ ॥

स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १० ॥

मल्लि०— स इति । सोऽर्जुनोऽम्बुदवन्नदतीति अम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन = करेण प्रध्वनय्य = ध्वनयित्वा शंभोर्बलानि = सैन्यानि । अशरीरोऽनङ्गः कामश्चेतांसि = युवमनांसि

Page 638Permalink

३८२ | किरातार्जुनीयम्

चिन्ताभिः प्रयोजनध्यानैरिव । इषुभिस्तताप = तापयामास । तपतिः सकर्मकः। अत्र 'इषु' शब्दः स्त्रीलिङ्गः । अन्ययोरुपमानोपमेययोर्भिन्नलिङ्गतादोषः स्यात्। 'पत्री रोप इषुद्वयोः' इत्यमरः ॥ १० ॥

हिन्दी—अर्जुनजाने मेघके समान आवाज करनेवाले धनुको जैसे कि गज अपने सूँड़से पहाड़ की चोटीको ध्वनित करता है उसी तरह ध्वनित करके शिवजीके सम्बन्धोंको जैसे कामदेव युवकोंके मनको चिन्ताओंसे सन्तप्त करता है उसी तरह बाणोंसे सन्तप्त करने लगे ॥ १० ॥


सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ ११ ॥

मल्लि०—सद्वादितेति । अभिनिविष्टा शास्त्रनिष्ठिता बुद्धिर्यस्य स तस्मिन् अभिनिविष्टबुद्धौ = शास्त्रनिष्ठितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकतेव । न हि सम्यग्गम्यस्तच्छास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित् । अन्ये त्वभिनिविष्टबुद्धावाग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टृत्वमिव । न ह्याग्रही हितं गृह्णातीति भावः विपक्षपाते = वीतरागे विषये गुणाभ्यसूया = गुणाहिष्णुतेव । स हि समदर्शी द्विषन्तमपि न द्वेष्टीति भावः । अगोचरेऽवाङ्मनसगोचरे ब्रह्मणि वागिव । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेरिति भावः । शराणां शक्तिः शितिकण्ठकाये = शिवशरीरे विषये उपरेमे उपरता । तस्याक्षोभ्यमहिमत्वादिति भावः । 'विभाषाकर्मकात्' इत्यस्य वैकल्पिकत्वात्पक्ष आत्मनेपदम् । अत्र मालोपमा ॥ ११ ॥

हिन्दी—बुद्धिवाले पुरुषके विषयमें प्रामाणिक अर्थकी समर्थक ताके समान रागरहित पुरुषके विषयमें गुणोंकी असहिष्णुताके समान बचन और मनसे अग्राह्य ब्रह्ममें वाणीके समान अर्जुनके बाणोंकी शक्ति शिवजीके शरीरमें निष्फल होने लगी ॥ ११ ॥


उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्बमर्कस्य पादा इव हैमनस्य ॥ १२ ॥

मल्लि०—उमेति । पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखाः = बाणा उमापतिं = शिवम् । अभ्युत्थितस्य=अभ्युन्नतस्य । अद्रिपतेः नितम्बम्=कटकम् । हेमन्ते भवस्य हैमनस्य । 'सर्वत्राणव तलोपश्च' इत्यण्प्रत्ययश्चकार-

सप्तदशः सर्गः ३८३

Page 639Permalink

सप्तदशः सर्गः ३८३

लोपश्च । अर्कस्य पादा रश्मय इव । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न व्यथयांबभूवुः ! 'मध्ये स्थितस्यासुमतां समूहमर्कस्य' इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां = प्राणिनां समूहमिवेति न दुःखमुत्पादया-मासुरिति योजना ॥ १२ ॥

हिन्दी—जैसे हेमन्त ऋतुमें सूर्यकी किरणें ऊंचे हिमालयके नितम्बको व्यथित नहीं करतीं हैं उसी तरह अर्जुनसे प्रेरित बाण शिवजीको व्यथित नहीं कर सके ॥

संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ॥ १३ ॥

मल्लि०—समिति । गणानां पतिः शिवः । तीव्रं तस्यार्जुनस्य पराक्रमं वप्रे = रोधसि बानतस्य = परिणतस्य । तटप्रहारिण इत्यर्थः । सुरद्विपस्यासह्यं विषाण-भेदं = दन्तप्रहारं हिमवानिव संप्रीयमाणः = संहृष्यन् अनुबभूवानुभवति स्म । तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्चेति भावः ॥ १३ ॥

हिन्दी—तटमें प्रहार करनेवाले ऐरावत हाथीके असह्य दन्तप्रहारको हिमालय पर्वत तकी तरह प्रमथपति शिवजी प्रसन्न होते हुए अर्जुनके तीव्र परा-क्रमका अनुभव करने लगे ॥ १३ ॥

तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुमिव प्रतापम् ।
चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन ॥ १४ ॥

मल्लि०—तस्मै हीति । तस्मै = पार्थाय भारस्य = भूभारस्य उद्धरणे = उद्वहने समर्थं प्रतापं बाहुमिव । अवष्टम्भतयेति शेषः । अन्यथा भारोद्वहनस्य दुष्क-रत्वादिति भावः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन = देवेन सोऽभिभवोज्जुनोप-रिभवः । तदानीं चिरं विषेहे सोढः । वात्सल्यादिति भावः ॥ १४ ॥

हिन्दी—उन अर्जुनको भूभारके उद्धार करनेमें समर्थ प्रतापको बाहुके समान देते हुए ब्रह्मा आदि कारणों के भी कारण भगवान् शिवजीने अर्जुनके किये गये पराभवका बहुत समयतक सहन किया ॥ १४ ॥

अथ त्रिभिर्भगवदभिप्रायमाविष्कुर्वंश्चतुर्भिः कलापकमाह—

प्रत्याहृतोजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति यशांसि बोयंञ्चलितानि तस्य ॥ १५ ॥

Page 640Permalink

३८४
किरातार्जुनीयम्

मल्लि०—प्रत्याहृतेति । प्रत्याहृतौजः परेण प्रतिहतबलाः सन्अपि कृतबल-वेगः = धृतोत्साहातिशयः सन् यः पुमान् ज्यायसि स्वस्मादप्यधिके पराक्रमं तनोति तस्य पुंसो भानोरिवैरय तेजांसीव वीर्येण = शौर्येण ज्वलितानि = प्रकाशितानि यशांसि निष्पतन्ति । उद्भवन्तीत्यर्थः । हीनरयाधिकामियोगो यशस्कर इति भावः ॥ १५ ॥

**हिन्दी—**शत्रुसे खींचा गया बलवाला होकर भी अतिशय उत्साह करने वाला होकर जो पुरुष अपनेसे जबर्दस्त पुरुषमें पराक्रम करता है उस पुरुषके शौर्यसे प्रकाशित यश सूर्यके तेजके समान प्रकट होते हैं ॥ १५ ॥

ततः किमित्यत आह—
दृष्टावदानाद्व्यथतेऽरिलोकः प्रध्वंसमेति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपमिव प्रकाशः ॥ १६॥

मल्लि०—दृष्टेति । दृष्टमवदानं महत्कर्म यस्य तस्मात् दृष्टावदानाद् = दृष्टपौरुषात् । अरिलोकः = शत्रुजनो व्यथते = बिभेति । व्यथिताद्भीतात् तेजः प्रध्वंसं नाशम् । एति । तेजोविहीनं दर्प उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति = त्यजति ॥ १६ ॥

**हिन्दी—**पौरुष देखे गये पुरुषसे शत्रु डरता है, डरे हुए पुरुषसे तेज नष्ट होता है; तेजोहीन पुरुषको उत्साह ज्वालाहीन दीपको प्रकाशके समान त्याग कर देता है ॥ १६ ॥

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ १७॥

मल्लि०—तत इति । ततो = दर्पहान्यनन्तरम् । अस्तं क्षयं गतो मदावलेपो=मदगर्वो यस्य सोऽरिलोको गन्धेन मदगन्धेनैव जेतुर्जयंशीलस्य । शीलार्थे तृन्प्रत्ययः । प्रमुखागतस्याभिमुखागतस्य प्रतिद्विपस्यान्यो मतङ्गजौघो मत्तगजसमूह इव जिगीषोर्नायकस्य जय्यतायाः पदवीं प्रयाति = प्राप्नोति । विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः । ‘क्षम्यजय्यो शक्यार्थे’ इति निपातः । अत्र श्लोकद्वये ज्यायसि पराक्रमकरणादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वकथनात् कारणमालाख्योऽलंकारः । लक्षणं तूक्तम् ॥ १७ ॥

Page 641Permalink

सप्तदशः सर्गः
३८१

हिन्दी—तब मद और गर्वसे क्षीण शत्रुसमूह मानों मदगन्धके समान जयशील और सम्मुख आये हुए प्रतिद्वन्द्वी अन्य मत्त हाथियोंकी तरह नायककी जयशक्यकता की पदवीको प्राप्त करता है ॥ १७ ॥

एवं प्रतिद्वन्द्विषु तस्य कीर्ति मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शंभुरनुक्रमेण ॥ १८ ॥

मल्लि०—एवमिति । एवमुक्तरीत्या, प्रतिद्वन्द्विषु = प्रत्यर्थिषु मध्ये तस्यार्जुनस्य मौलीन्दुलेखाविशदां कीर्तिं विधास्यन् करिष्यन् अनुक्रमेणाविपर्ययेन = पर्यायेण जयोऽवसादो भङ्गश्च तौ जयावसादौ यस्यां तां पर्यायजयावसादां रणक्रियाम् । इयेषेच्छति स्म । जयानन्तरं भङ्गो भङ्गानन्तरं जय इति पर्यायार्थः । तस्य विपर्यासोऽन्यतरनैरन्तर्यं तदभावोऽनुक्रम इत्यपौनरुक्त्यम् ॥ १८ ॥

हिन्दी—इस प्रकारसे शिवजीने प्रतिद्वन्द्वियोंके मध्यमें अर्जुनकी अपने शिरमें स्थित चन्द्ररेखाके समान उज्ज्वल कीर्ति करते हुए अनुक्रमसे पारी पारीसे जय और पराजय रूप युद्ध क्रियाकी इच्छा की ॥ १८ ॥

मुनेर्विचित्रैरिखुभिः स भूयान्निन्ये वशं भूतपतेर्बलोघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ॥ १९ ॥

मल्लि०—मुनेरिति । मुनेर्विचित्रैरिखुभिः स भूयान् असंख्यो भूतपतेर्बलोघ आत्मलाभेन जन्मना सह समुत्पतद्भिराविर्भवद्भिः । आजन्मसिद्धैरित्यर्थः । जातयो गोत्वमनुष्यत्वादयः, स्वभावा = जातिनियता धर्मास्तैः जातिस्वभावैर्जीवलोकः प्राणिजातमिव वशं निन्ये = नीतः । कर्मणि लिट् । प्राणिनो जातिधर्मानिव गणाः मुनिशराञ्छातिक्रमितुं शेकुरित्यर्थः । कलापकम् ॥ १९ ॥

हिन्दी—मुनिके विचित्र बाणोंसे वह अगणित शिवजीका सैन्यसमूह जन्मके साथ आविर्भूत होता हुआ गोत्व-मनुष्यत्व आदि जातियों और उनमें नियत धर्मोंसे मनुष्यसमूहके समान वशमें हो गया ॥ १९ ॥

वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ २० ॥

मल्लि०—वितन्वत इति । त्रस्तानि सैन्यानि संततवेपथूनि निरन्तरकम्पानि गवां कुलानि वृन्दानि वृष्टिं कुर्वतः क्षपाघनस्य = रात्रिमेघस्येव शरैर्योऽन्धकारस्तं

२५ कि०

Page 642Permalink
३८६किरातार्जनीयम्

वितन्वतो विस्तारयतः तस्य मुनेः संबन्धिनां (रवं = शरवर्षघोषं निषेमुः = शुश्रुवुः। न तु किंचिद्ददृशुः। तेषां तु दूरापास्तेति भावः ॥ २० ॥

**हिन्दी—**शिवजीके मरुत सैन्य निरन्तर कम्पित होनेवाला गायोंका समूह वृष्टि करनेवाले रात्रिके मेघका शब्द जैसे सुनता है उसी तरह बाणोंसे अन्धकारको फैलानेवाले तपस्वी अर्जुनके बाण वृष्टिके शब्दको सुनने लगे परन्तु कुछ भी नहीं देखा ॥ २० ॥

स सायकान्साध्वसविप्लुतानां क्षिपन्परेषामतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथगाबभासे ॥ २१ ॥

मल्लि०— स इति । अतिसौष्ठवेनातिलाघवेन सायकान् = शरान् क्षिपन् सोऽर्जुनः साध्वसेन विप्लुतानां = भ्रान्तानां परेषां द्विषां दोषेण काचकामलादिरोगेण आवृतलोचनानां = दुष्टचक्षुषां शशीव पृथग्विभिद्यमान आबभासे । यथा सदोषचक्षुषैकश्चन्द्रो नानेव लक्ष्यते तद्वदेकोऽप्यनेक इव दृष्ट इति भावः ॥ २१ ॥

**हिन्दी—**बहुत शीघ्रतासे बाणोंको छोड़ते हुए एक ही अर्जुन भयसे भ्रान्त शत्रुओंको काच कामल आदि रोगसे दोषयुक्त नेत्रोंको जैसे एक ही चन्द्र अनेकके समान दृष्टिगोचर होते हैं उसी तरह अनेक रूपमें दृष्टिगोचर हो गये ॥ २१ ॥

क्षोभेण तेनाऽथ गणाधिपानां भेदं ययावाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ २२ ॥

मल्लि०— क्षोभेणेति । अथ गणाधिपानां संबन्धिना तेन क्षोभेण = कम्पेन । ईश्वरस्याकृतिराकारो मूर्तिः । महाह्रदानां तरङ्गकम्पेन छायामयस्य प्रतिबिम्बरूपस्य दिनस्य कर्तुर्दिवाकरस्याकृतिरिव भेदं विकारं ययौ = प्राप । स्वयं निर्विकारोऽपि प्रतिमासूर्यवत् परसंसर्गात्तथा प्रतीयत इत्यर्थः ॥ २२ ॥

**हिन्दी—**तब गणस्वामियोंके उस क्षोभसे शिवजीकी मूर्ति विशाल तालाबोंके तरङ्गमें कम्पके कारण प्रतिबिम्बरूप सूर्यकी मूर्तिकी तरह विकारको प्राप्त हुई ॥

यदि देवोऽपि विकृतस्तर्हि कोपः किं न कृतः, तत्राह—

प्रसेदिवांसं न तमाप कोपः कुतः परस्मिन्पुरुषे विकारः ।
आकारवैषम्यमिदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ २३ ॥

मल्लि०— प्रसेदिवांसमिति । प्रसेदिवांसमर्जुनं प्रति प्रसन्नचित्तं तं देवं कोपो नाप न प्राप । तत्राप्यनुग्रहं ययाविति भावः । तत्र हेतुः—परस्मिन् पुरुषे परात्मनि

सप्तदशः सर्गः ३८७

Page 643Permalink

सप्तदशः सर्गः ३८७

देवे। स्वतो निर्विकार इत्यर्थः। विकारः क्रोधरूपः कुतः। न कुतश्चिदित्यर्थः।
ननु तस्य निर्विकारस्य कथं बहिराकारभेदः कारणाभावादिति चेन्न चित्र इत्याह—
इदं पूर्वोक्तम्। आकारवैषम्यं च भेजे। किन्तु केनापि कारणेन न कुप्यतीत्यर्थः। ननु
निर्विकारे कुत आकारभेदस्तत्राह—महता वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका
हि॥ २३॥

हिन्दी--अर्जुनके प्रति प्रसन्नचित्त शिवजीको क्रोध नहीं हुआ, परमात्माको
क्रोध रूप विकार कैसे होगा ? उन पर केवल आकार वैषम्य लिया क्योंकि महा-
पुरुषोंकी चेष्टा का कारण नही जाना जाता है॥ २३॥

वैषम्यमेवाह—
विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य॥ २४॥

मल्लि०—विस्फार्यमाणस्येति। ततोऽनन्तरं भूतानि भर्त्रा भूतपतिना। भृञ-
स्तृच्प्रत्ययः। अत एव 'न लोके—त्यादिना षष्ठीप्रतिषेधः। भुजाभ्याम्। कर्तृकर-
णयोस्तृतीया। विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य
संबन्धिनी स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाऽऽकृतिर्यस्यास्तां ज्यां
धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव। ददृशुः द्विधाभावाद्भयंकरत्वा
च्चेति भावः॥ २४॥

हिन्दी—तब प्राणियोंको धारण और पोषण करनेवाले शिवजीने भुजाओंसे
आकृष्ट किये जाते हुए यमराजके समान धनुसे चलती हुई अत एव भिन्न आकृति-
वाली प्रत्यञ्चाको क्रुद्ध तक्षक नामक नागकी जीभके समान लोगोंने देख
लिया॥ २४॥

सव्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के।
पर्यायसंपादितकर्णतालं यन्ता गजं व्यालमिवापराधः॥ २५॥

मल्लि०—सव्येति। पार्थः सव्यापसव्याभ्यां वामदक्षिणगतिभ्यां ध्वनितं
नादितमुग्रचापं येन तं किराताधिपम्। अपराधः प्रमत्तो यन्ता पर्यायेणायोपगयेन
संपादितः कर्णयोस्ताल आस्फालनं येन तं व्यालं दुष्टम्। 'भेद्यलिङ्गः शठे व्यालः'
इत्यमरः। गजमिवाशशङ्के। तच्चापचातुर्यदर्शनाद् दुर्जयः कोप्ययमनर्थकरश्चेति
शङ्कितवानित्यर्थः॥ २५॥

Page 644Permalink
३८८किरातार्जुनीयम्

हिन्दी— अर्जुनने वाम और दक्षिण गतियोंसे उग्र धनुको ध्वनित करतेवाले शिवजीके प्रति जैसे-जैसे मत्त फीलवान पारी-पारीसे कर्णतालको संपादित करनेवाले दुष्ट हाथीके प्रति आशङ्का करता है उसी तरह आशङ्का की ॥ २५ ॥

निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ २६ ॥

मल्लि०— निजघ्निर इति। हरेषुजालैस्तस्यार्जुनस्य पतन्ति आगच्छन्ति शिलीमुखानां शराणां वृन्दानि। ऊर्जस्विभिः प्रबलैः। अम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेन आगतानि यादांसीव निजघ्निरे हतानि ॥ २६ ॥

हिन्दी— शिवजीके बाणोंने आते हुए अर्जुनके बाणोंको, समुद्रके जबर्दस्त जल-ग्राहोंसे नदीमुखसे आये हुए जल जन्तुओंकी तरह नष्ट कर दिया ॥ २६ ॥

विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेताऽरिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शंभुः ॥ २७ ॥

मल्लि०— विभेदमिति। अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एव प्रतिबन्धनम्, अन्यत्र तु—आसारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गेलूक-नदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुः। अविदितप्रयोगः संवृतमन्त्रत्वा-दविज्ञातोपायप्रयोगः सन् अरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽ-ज्ञातबाणसंधानमोक्षादिकः सन्, अस्यार्जुनस्य शरेषु चकार कृतवान्। कर्तरि लिट्। श्लेषालङ्कारः ॥ २७ ॥

हिन्दी— जैसे सेनापति शत्रुओंमें अविदित उपायका प्रयोग कर व्यूहभेद मार्ग-प्रतिबन्ध और किलेका विध्वंस कर देता हैं उसी तरह शिवजीने बाणोंका सन्धान और प्रयोगको अविदित कर अर्जुनके बाणोंका विध्वंस कर डाला ॥ २७ ॥

सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ २८ ॥

मल्लि०— सोढेति। सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वो-त्कृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः अत एव वेगितया वेगेन पतद्भिर्गतिं कुर्वद्भिः अत एव छिन्नैरपि त्रासिता वाहिनी यैस्तैरत एव कृतार्थैरिव बाणैः पेते। भावे लिट्। वस्तुतस्त्वकृतार्थै-रेवेत्यर्थः ॥ २८ ॥

Page 645Permalink

सप्तदशः सर्गः
३८९

हिन्दी— शत्रुओंसे निन्दित और उत्कृष्ट बाणोंको सहन करनेवाले अर्जुनके क्रोधसे छोड़े गये अतएव वेगसे गिरते हुए छिन्न होकर भी सेनाओंको त्रस्त कराने-वाले अत एव कृतार्थ-से होकर बाण गिरने लगे ॥ २८ ॥

अलंकृतानामृजुतागुणेन गुरुपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमन्ममाथ ॥ २९ ॥

मल्लि०— अलमिति । ऋजुताऽवक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेन अलंकृतानां गुरुभिर्धनुर्विद्यागुरुभिर्धर्मशास्त्रगुरुभिश्च उपदिष्टां दर्शितां गतिं गमनमा-चारं च आस्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिव । अपर्वण्यग्रन्थौ अन्यत्र—अप्रस्तावे । अकाण्ड इत्यर्थः । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिज्जित्त्व-रस्य च । 'जिष्णुः शक्रो धनंजये । जित्वरे' इति विश्वः । धृतिं धैर्यम् । उन्ममाथ । जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ॥

हिन्दी— सरलतारूप गुणसे अलंकृत धनुर्विद्याके गुरुओंसे और धर्मशास्त्रके गुरुओंसे उपदिष्ट आचारका अवलम्बन करनेवाले बाणोंके सज्जनोंके समान अग्रंथि और अनवसरमें शिवजीसे किया गया पराजय और व्यसनने अर्जुनके धैर्यका अपहरण कर लिया ॥ २९ ॥

बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ ३० ॥

मल्लि०— बाणेति । बाणच्छिदः पार्थशरच्छेदिनस्ते स्मरारेर्विशिखा अवाङ्-मुखीभूतफला विमुखाग्रा विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः । क्रियाग्रहणा-च्चतुर्थी । पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारमापुः । अत्युत्कटं कर्म सद्यो दर्शयतीति भावः ॥ ३० ॥

हिन्दी— अर्जुनके बाणोंको छिन्न करनेवाले शिवजीके उन बाणोंने विमुख नोकवाले और विफल होकर गिरते हुए फलभङ्गरूप अपने कर्मका उसी क्षण अखण्डित प्रतिकार पा लिया ॥ ३० ॥

पुनरर्जुनस्य जयमाह—
चित्रोयमानानतिलाघवेन प्रमाथिनस्तानभवमार्गणानाम् ।
समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ॥ ३१ ॥

Page 646Permalink

३९० | किरातार्जुनीयम्

मल्लि०—चित्रीयमानानिति । अरातिरर्जुनः । अतिलाघवेनातिशीघ्रतया चित्रीयमाणांश्चित्रमाश्चर्यं कुर्वाणान् । 'नमोवरिवश्चित्रङः क्यच्' । लवमार्गणान् प्रमाथिनः खण्डयतः तान् बाणान् ! समाकुलायाः संक्षुभिताया ध्वजिन्याः सेनाया हृदयेषु दूरं गाढं निनयान निखातवान् ॥ ३१ ॥

हिन्दी—शत्रु अर्जुनने अति शीघ्र होनेसे आश्चर्य करानेवाले शिवबाणोंके खण्डित करते हुए उन बाणोंको आकुल शिवसेनाके हृदयोंमें दूरतक गाड़ दिया। ३१।

तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाव इवाम्बु मेघः ॥ ३२ ॥

मल्लि०—तस्येति । तस्यार्जुनस्य पराक्रमेऽतियत्नाद्धेतोः । अन्योन्यस्य विशेषणेनातिशयकरणेन । अतिरिच्यमान उत्कृष्यमाणे सति पुरां हन्ता त्रिपुरविजयी हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम् । 'पृषत्कबाणविशिखाः' इत्यमरः । निदाघे भवो नैदाघो मेघोऽम्बुवाहोऽम्बु जलमिव निरास मुमोच । अस्यतेर्लिट् । 'निदाघ' ग्रहणं वर्षणस्यातितीव्रत्वद्योतनार्थम् ॥ ३२ ॥

हिन्दी—अर्जुनके पराक्रमके अत्यन्त यत्न होनेसे परस्परमें अतिशयतासे उत्कर्ष किये जानेपर त्रिपुरविजयी शिवजीने प्रचुर बाणवृष्टिको जैसे ग्रीष्म-ऋतुमें होनेवाला मेघ जलकी वृष्टि करता है उसी तरह शरवृष्टि कर दी ॥ ३२ ॥

अनामृशन्तः क्वचिदेव मर्म प्रियेषिणाऽनुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ ३३ ॥

मल्लि०—अनामृशन्त इति । प्रियेषिणा प्रियचिकीर्षुणा शिवेनानुप्रहिताः प्रयुक्ता अतएव क्वचिदेव मर्मानामृशन्तोऽस्पृशन्तः शराः सुहृन्मित्रं सोऽपि प्रियेषी तेन प्रयुक्ता उच्चारिता नर्मवादाः प्रियवादा इव मुनेरर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः ॥ ३३ ॥

हिन्दी—प्रियकी इच्छा करनेवाले शिवजीसे प्रेरित अत एव कहीं भी मर्मस्थलका स्पर्श न करते हुए बाण प्रिय चाहनेवाले मित्रसे कहे गये परिहास वचनों के समान मुनि (अर्जुन) को प्रीति करनेवाले हुए ॥ ३३ ॥

अस्त्रैः समानामतिरेकिणीं वा पश्यन्निषूणामपि तस्य शक्तिम् ।
विषादवन्ध्यबलः प्रमाथी स्वमाच्छलम्बे बलमिन्दुमौलिः ॥ ३४ ॥