Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३३

Page 63Permalink

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३३

व्याकरणम्- दिशतः = दिश् + शतृ । प्रदुग्धे = प्र+दुह + लट् ॥१८॥
वाच्यान्तरम्- उपस्नुतया मेदिन्या स्वयं वसूनि पदुह्यन्ते ॥१८॥
कोषः- 'कृपा दयाऽनुकम्पा स्याद्' इत्यमरः। 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः। अत्र धनाधिपः कुबेरः। 'वसु तोये धने मणौ' इति वैजयन्ती ॥१८॥
सारार्थः- यथा काऽपि नवप्रसूता गौर्नवकोमलतृणग्रासादिकानेन पोषिता तं ग्रासदायकं विलोक्य हर्षिता भूत्वा स्वयं दुग्धं क्षरति, तथैव प्रणिपातेन परितः प्रजाः परिपालयता, यत्र तत्र निर्जले जलाशय- जल-प्रणालिकादि-जलप्रवाहेण, कुत्रचिद्रो-गोपद्रवान्विते प्रान्ते वैद्यालयनिर्माणपूर्वकौषधिदानेन, कुत्रचिद् दुर्भिक्षपीडिते जनपदे यत्र तत्रान्नानाथालयान्नादानालयादिरचनेन वशीकृताः प्रजाजना राजकीयधनसं-ञ्चयविधायकजनानुज्ञामन्तरेणैव समये करं दुर्योधनाय ददतीत्यर्थः।
भावार्थः- निर्मल यश और दयावाले, सब प्रकार की रक्षा से प्रजाओं की निरुपद्रव उन्नति करते हुए कुबेर के सरीखे धनाढ्य उस दुर्योधन के गुणों से पेन्हाई हुई पृथ्वी स्वयं धनरूप (दुग्ध) देती है ॥१८॥

वीरभटानुकूल्यमाह-
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
नसंहतास्तस्य नभिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १९॥

महौजस इति- महौजसो महाबलाः। अन्यथा दुर्बलानामनुपकारित्वादिति भावः। मानः कुलशीलाद्यभिमान एवं धनं येषां ते मानधनाः। अन्यथा कदाचिद् बलदर्पाद्विकुर्वीरन्निति भावः, धनार्चिताः धनैरर्चिताः, संस्कृताः। अन्यथा दारिद्र्यदैन्यं जिह्रीयुरिति भावः। संयति सङ्ग्रामे लब्धकीर्तयः। वसुयशस इत्यर्थः। अन्यथा कदाचितन्मुह्येयुरिति भावः। संहता मिथः सङ्गताः स्वार्थनिष्ठा न भवन्तीति नसंहताः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। भिन्नवृत्तयो मिथो विरोधात्स्वामिकार्यकरा न भवन्तीति नभिन्नवृत्तयः। पूर्ववत्समासः। अन्यथा स्वामिकार्यविघातकतया स्वामिद्रोहिणः स्युरित्युभयत्रापि तात्पर्यार्थः। धनुर्भृतो धानुष्काः। आयुधीयमात्रोपलक्षणमेतत् । प्राधान्याद्धनुर्ग्रहणम्। तस्य दुर्योधनस्यासुभिः प्राणैः प्रियाणि समीहितं कर्तुं वाञ्छन्ति । आनृण्यार्थं प्राणान्दातुमिच्छन्ति । अन्यथा दोषस्मरणादिति भावः। अत्र महौजसादिपदार्थानां प्राणदानकर्तव्यतां प्रति विशेषणतया हेतुत्वाभिधानात्काव्यलिङ्गमलङ्कारः। लक्षणमुक्तम्। तथा साभिप्रायविशेषणत्वात्परिकरालंकार इति द्वयोस्तिलतण्डुलवद्विविक्ततया स्फुरणात्संसृष्टिः ॥१९॥

Page 64Permalink
३४किरातार्जुनीयम्[प्रथमः

अन्वयः-महौजसः, मानधनाः, धनार्चिताः, संयति, लब्धकीर्त्तयः, धनुर्भृतः, नसंहता, नभिन्नवृत्तयः, (अपि तु) तस्य असुभिः, प्रियाणि, समीहितुम्, वाञ्छन्ति ॥१९॥

सुधा-महौजसः = अतितेजस्विनः, मानधनाः = मनस्विनः, धनार्चिताः = धनसत्कृताः, संयति = युद्धे, समरे, लब्धकीर्तयः = प्राप्तयशसः, वीरभटा इत्यर्थः। धनुर्भृतः = धनुर्धराः, नसंहताः = मिथः स्वार्थसिद्धयै न मिलिताः, अर्थादहमहमिकया सर्वे स्वामिहितकरणतत्परा इत्यर्थः। तथा च, नभिन्नवृत्तयः = पृथग्व्यापाराः, न सन्ति। सर्वे स्वाम्यभिलाषपूरणैकलक्ष्यवन्तः सन्तीत्यर्थः। तथाऽऽह, अपि तु सर्वे वीराः, तस्य = दुर्योधनस्य, असुभिः॥ प्राणैः, अपि, प्रियाणि = शुभानि, समीहितुम् = विधातुम्, वाञ्छन्ति = इच्छन्ति, अभिलषन्तीत्यर्थः॥१९॥

समासः- महत् ओजो येषां ते महौजसः। मान एव धन येषां ते 'मानधनाः धनैः पारितोषिकरूपैरर्चिता धनार्चिताः लब्धा कीर्तिर्यैस्ते लब्धकीर्तयः । धनुर्भृतः धनूंषि बिभ्रंतीति धनुर्भृतः, भिन्ना वृत्तियेषां ते भिन्नवृत्तयः॥१९॥

व्याकरणम्- वाञ्छन्ति=वाञ्छि+लट् । समीहितुम्=सम्+ईह+तुमुन् ॥१९॥

वाच्यान्तरम्- महौजोभिः मानधनैर्धनार्चितैः धनुर्भृद्भिः संयति लब्धकीर्तिभिः नसंहतैः नभिन्नवृत्तिभिः भूयन्ते । किन्तु असुभिरपि प्रियाणि समीहितुं वाञ्छ्यन्ते ॥१९॥

कोषः- 'बृहद्विशालं पृथुलं महत्' इत्यमरः। 'ओजो दीप्तौ बले' इत्यमरः। 'धन्वी धनुष्मान् धानष्को निष्षङ्ग्यस्त्री धनुर्धरः इत्यमरः। 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ । इत्यमरः। 'यशः कीर्तिः समज्ञा च' इत्यमरः। 'आजीवो जीविकावार्त्ता वृत्तिर्वर्त्तनजीवने ।' इत्यमरः 'पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम्' इत्यमरः॥१९॥

सारार्थः- अतिबला अहङ्कारिणो लब्धानेकपारितोषिका, युद्धलब्धयशसो वीरा भटा दुर्योधनस्वामिनः कल्याणं प्राणैरपि कुर्वन्तीति ॥१९॥

भावार्थः- बड़े बलवाले, अभिमान ही धन है जिनके ऐसे और मौके पर पारितोषिक आदि द्वारा धनों से सम्मान पाये हुए और संग्राम में यश (जय) पाने वाले योद्धा लोग अपने स्वार्थसाधन के लिये मिले हुए नहीं हैं, वे सबके सब एक ही लक्ष्य पर निर्भर हैं और अपनी जानों से भी उस दुर्योधन का हित करना चाहते हैं ॥१९॥