Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

दशमः सर्गः १८९

Page 447Permalink

दशमः सर्गः १८९

तेषा जयिनां जयनशीलानाम् । 'महताम्' इति पाठे महतामुत्कटानाम् । तपसा-
मलङ्घ्यं नास्ति । किमप्यसाध्यं नास्तीति भावः ॥ ६ ॥
हिन्दी--राजमुनि ( अर्जुन ) के अधिष्ठानसे उस भूमिने गन्धर्वों और
अप्सराओंके तेजका अपहरण कर डाला, क्योंकि उत्तम सामर्थ्य और तेजवाले
जयशील पुरुषोंकी तपस्याओंसे कुछ भी असाध्य नहीं है ।

सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥ ७ ॥

मल्लि०--सचकितमिति ॥ विस्मयाकुलाभिस्ताभिः स्त्रीभिः कर्त्रीभिः
शुचयः सिकता यासु तासु । पादरेखाभिव्यक्तियोग्यास्वित्यर्थः । क्षितिषूपहितानि
विन्यस्तानि केतुरथाङ्गलाञ्छनानि रेखास्वरूपध्वजचक्राण्येव चिह्नानि येषु तान्यत
एव, अतिमानुषाणि जिष्णोरर्जुनस्य पदानि सचकितमिव सभयमिव यथा तथा
ददृशिरे दृष्टानि । अद्भुतवस्तुदर्शनाद्भयविस्मयौ भवत इति भावः ॥ ७ ॥

हिन्दी--आश्चर्यसे आकुल उन अप्सराओंने पवित्र बालूसे युक्त पृथ्वीमें
रखे गये ध्वज और चक्रके रेखारूप चिह्नोंवाले अर्जुनके मनुष्येतर पदचिह्नोंको
आश्चर्य और भयसे देखा ।

अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् ।
ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैर्जगृहे मुनिप्रभावः ॥ ८ ॥

मल्लि०--अतिशयितेति ॥ अतिशयिता अतिक्रान्ता वनान्तराणां द्युति-
र्याभिस्तासाम् । युतः । फलानां कुसुमानां चावचयेऽपि लवनेऽपि सैव विधा प्रकारो
यासां तद्विधानाम् । तथैव समग्राणामित्यर्थः । तरूणां वीरुधां च समृद्ध्या लिङ्गेन
युवतिजनैर्मुनिप्रभावः ऋतुरिव जगृहे निश्चितः । कारणतयेति शेषः । उपमा-
लङ्कारः ॥ ८ ॥

हिन्दी--अन्य वनोंकी कान्तिको मात करनेवाली, फलों और फूलोंको चुन
लेनेपर भी पहलेकी तरह परिपूर्ण पेड़ों और फैली हुई लताओंकी समृद्धिसे
अप्सराओंने 'ऋतुके समान यह मुनिका प्रभाव है' ऐसा निश्चय किया ।

मुदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।
बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ ९ ॥

मल्लि०--मुदितेति ॥ ससलिलमार्द्रं यद्वल्कलं तदेव भारस्तेन भुग्नशाखो

Page 448Permalink

१९० [किरातार्जुनोयम्

नम्रशाखः 'वल्कं वल्कलमस्त्रियाम्' इत्यमरः । अत एव मृदितकिसलयो विलुलित-
पल्लवः । 'क्वचित्क' इति प्रतिषेधान्न मृदेर्गुणः । अशोको वृक्षविशेषः । सुराङ्गना-
नामप्सरसां सम्बन्धिनीम् । अधिकां बहुमति तत्कर्तृकसम्मानं सज्जनसेवो धन्योऽय-
मिति ययौ प्राप । ननु सेवकेषु का श्लाघेत्यत्राह—परोति । सद्गुणानां महता
परिजनतापि अनुचरत्वमपि । भावे तल् । गुणायोत्कर्षाय । भवतीति शेषः । एनेन
तासां मुनेः प्रभावदर्शनादेव तस्यारवश्यं गम्यते ॥ ९ ॥

हिन्दी—जलसे युक्त (आर्द्र) वल्कलके भारसे झुकी हुई शाखासे युक्त
अतएव मृदित पल्लवोंवाला अशोक वृक्ष अप्सराओंका अधिक सम्मानका पात्र
हुआ, क्योंकि महापुरुषोंका अनुचर होना भी उत्कर्षका कारण हो जाता है।

यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधुतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १० ॥

मल्लि०—यमेति ॥ यमो देशकालानपेक्षया शुद्धिहेतुरहिंसादिः नियमस्त्व-
दपेक्षया शुद्धिहेतुस्तपःस्वाध्यायादिः ताभ्यां कृशीकृतान्यपि स्थिराणि दृढान्यङ्गानि
यस्य सः । विधुतायुधो धृतशस्त्रोऽत एव तपःशस्त्रयुक्तः सोऽर्जुनः शमः शान्तिरभ्यु-
दयकाण्डे दीप्तता उग्रताऽभिचारकाण्डे ताभ्यामनुपमाभ्यां गरीयानुद्गतः । अथर्वणा
वसिष्ठेन कृता रचिता पदानां पङ्क्तिरानुपूर्थी यस्य स वेदः । चतुर्थवेद इत्यर्थः ।
अथर्वणस्तु मन्त्रोद्धारो वसिष्ठकृत इत्यागमः । स दृढ ताभिः स्त्रीभिः परिददृशे
दृष्टः ॥ १० ॥

हिन्दी—यम (अहिंसा आदि) और नियम (तपस्या आदि) से कृश किये
गये परन्तु दृढ़ अङ्गोंवाले तथा आयुध लिये हुए अर्जुनको अनुपम शान्ति और
उग्रतासे उन्नत अथर्वा (वशिष्ठ) से की गई पदोंकी आनुपूर्वी वाला अथर्ववेदके
समान अप्सराओंने देखा।

अथ चतुर्भिस्तमेव विशिनष्टि शशधर इत्यादिभिः—

शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसस्था सकलमिवापि दधन्महीधरस्य ॥ ११ ॥

मल्लि०—शशधर इति ॥ शशधरश्चन्द्र इव लोचनाभिरामैर्नेत्राह्लादकरैर्गगन-
विसारिभिरंशुभिस्तेजोभिः परीतो व्याप्तोऽम्बन्यदेकं सानु सथ यस्य सः । एकदेश-