किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
by महाकवि भारवि
Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)
नवमः सर्गः १६३
नवमः सर्गः १६३
नववधूं नवोढाम् । 'वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च' । इति धरणिः ।
स्त्रियमिवावितृप्तः सन् पश्यति स्म ।
हिन्दी — चन्द्रमाके उदय होनेपर भी लोकने अप्रसन्न अन्धकारवाली रातको घूंघट छूनेपर स्पष्ट मुखवाली परन्तु लज्जावश प्रतिभय वक्र मथी वधूकी तरह तृप्त न होकर देखा ॥ २४ ॥
न प्रसादमुचितं शशिना द्यौर्नोद्धृतं तिमिरमद्रिवनेभ्यः ।
दिङ्मुखेषु न बभार विकीर्णं भूषितेव रजनी द्रिमभामा ॥ २५ ॥
मल्लि० — नेति । हि०... शशिना द्योराकाशम् । उचितं योग्यं प्रसादं न गमिना अद्रयो वनानि च तेभ्यः । तिमिरं नोद्धृतं नोत्सारितम् । दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्यस्तम् । तथापि रजनी भूषितेव । उक्तगुणासम्पत्ताविति भावः । अत्र प्रसाधनकारणाऽभावेऽपि तत्सादृश्योक्त्या 'विभावनालङ्कारः' ।
हिन्दी — चन्द्रमाके कारण आकाश उचित निर्मलताको प्राप्त नहीं हुआ । पर्वतों और वनोंसे अन्धकार दूर नहीं किया गया । दिशाओंके अग्रभागोंमें तेज भी नहीं फैला तो भी रात अलंकृत ही है ॥ २५ ॥
मानिनीजनविलोचनपातानुष्णबाष्पकलुषान् प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ २६ ॥
मल्लि० — मानिनीति ॥ उदितः शीतमयूख रुषेण विरहव्यथन रुषेण कलुषानाविलान् । मानिनीजनस्य कलहान्तरितानायिकाजनस्य विलोचनपातान् । मानभङ्गजनितरोषेण भीष्णानिति भावः । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता । कलहान्तरिता' इति दशरूपके । प्रतिगृह्णन् स्वीकुर्वन् । अपरिहार्यत्वादिति भावः । अत एव भीतभीतो भीतप्रकार इत्युत्प्रेक्षा । मन्दमन्दं मन्दप्रकाशम् उभयत्रापि 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुब्लोपः । खमाकाशं प्रययौ ।
हिन्दी — उगे हुए चन्द्रमा विरहके कारण गर्म आँसूसे मलिन मानिनी (कलहके कारण पतिसे बिछुड़ी हुई) नायिकाके दृष्टिपातको लेते हुए डरे हुए-से होकर मन्द प्रकाशवाले आकाशमें पहुँच गये ॥ २६ ॥
१६४ किरातार्जुनीयम्
श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः ।
उद्द्रमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ २७ ॥
मल्लि०—श्लिष्यत इति ॥ तताः प्रसारिताः करा अंशुहस्ता येन तस्य तत-
करस्य तारका एव प्रियवधूरुपकण्ठमन्तिके कण्ठे वा । अत्यन्तसंयोगे द्वितीया।
विभक्त्यर्थेऽव्ययीभावः । श्लिष्यतः प्रत्यासीदत आलिङ्गतश्च हिमांशोः सम्बन्धी
समन्तादुद्द्रमन् उत्सर्पन् । अर्धामितरहत्वादकथकत्वम् । 'पारेऽर्धमन्तरं दूतेः' इति
वचनात् । लोहितरागोऽरुणप्रभः । अङ्गराग इवाभिरराज । आलिङ्गनादङ्गे
गलतीति प्रसिद्धिः । अत्र रूपकोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः ।
हिन्दी--फैले हुए कर (किरणरूप हाथोंवाले) तथा तारारूप प्रिय वधुओंके
समीपमे वा कण्ठमें आलिङ्गन करनेवाले चन्द्रमाके चारो ओर फैलते हुए और
कान्तिवाले अङ्गरागके समान शोभित हुई ॥ २७ ॥
प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दराभिन्नः काननान्यविरलोच्चतरूणि ॥ २८ ॥
मल्लि०—प्रेरित इति ॥ शशधरेण चन्द्रेण प्रेरितो विसृष्टः करौघः संहतानि
सान्द्राणि अपि तमांसि मन्दरेण मन्दराचलेन भिन्नो नुन्नः क्षीरसिन्धुरिवविरलो-
च्चानि सान्द्रा उच्चा उन्नताश्च तरवो येषु तानि काननानीव नुनोद दूरीचकार ।
हिन्दी—मन्दर पर्वतसे प्रेरित क्षीरसमुद्रने जैसे समुद्रमन्थनके समयमें घने
और ऊँचे पेड़ोंवाले वनोंको दूर कर दिया वैसे ही चन्द्रमासे प्रेरित किरणसमूहने
गाढ अन्धकारको दूर कर दिया ॥ २८ ॥
शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे ।
न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ २९ ॥
मल्लि०—शारतामिति । शशिपादैश्चन्द्ररश्मिभिः । 'पादा रश्म्यङ्घ्रितुर्यांशाः'
इत्यमरः । शारतां शबलतां गमितया । 'शारः शबलपीतयोः' इति विश्वः।
विटपिनां तरुणां छायया न्यस्तैर्निक्षिप्तैः शुक्लबलिभिः श्वेतपुष्पाद्युपहारैश्चित्राणि
तलानि उपरिभागा यासां ताभिः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्'
इत्यमरः । वसतिवेश्ममहीभिर्निवासगृहभूमिभिः । तुल्यता साम्यं प्रतिपेदे प्राप्ता।
कर्मणि लिट् । आर्थीयमुपमा ।
हिन्दी--चन्द्रमाकी किरणोंसे चित्र-विचित्र वर्णको प्राप्त पेड़ोंकी छायाने
नवमः सर्गः १६५
रखे गये सफेद पुष्प आदि उपहारोंसे चित्र-विचित्र ऊर्ध्वभागवाली निवासगृहकी भूमिसे समानताको प्राप्त किया ॥ २९ ॥
आतपे धृतिमत्ता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ३० ॥
**मल्लि०—**आतप इति ॥ आतपे । दुःखकरेऽपीति भावः । वध्वा चक्रवाक्या सह । अत एव धृतिमत्ता संतोषवता यामिनीषु विरहिणा नियतविरहेणात एव विहगेन चक्रवाकेण हिमरश्मेश्चन्द्रस्य किरणा न सेहिरे । तथा हि—दुःखिते संजात-दुःखे मनसि सर्वम् । मनोहरमपीति भावः । असह्यं सोढुमशक्यम् । 'शकिनहोश्च' इति यत्प्रत्ययः । पूर्वं तु 'आतपाः' इति पाठे । अत्र वध्वा महातपा अपि सेहिरे । तद्विरहिणा तु शशिकिरणा अपि न सेहिरे इति योज्यम् । फलं तु समानम् ।
**हिन्दी—**दुःख देनेवाले सूर्यके आतप ( धूप ) में भी मादा ( चकवी ) के साथ सन्तोषवाले परन्तु रातमें मादाके विरह वाले पक्षी ( चकवे ) ने शीतल किरणवाले ( चन्द्रमा ) के किरणोंको सहन नहीं किया क्योंकि मनके दुःखित होनेपर सभी वस्तु असह्य होती हैं ॥ ३० ॥
गन्धनुद्धतरजः कणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परलीनविहङ्गा यामिनीमरुदपां वनराजी ॥ ३१ ॥
**मल्लि०—**गन्धमिति ॥ अपां कणवाही । योग्यान्वये व्यवधानमपि सोढव्यम् । विकसतां कुमुदानां गन्धं सौरभम्, उद्धतं रजः परागो यस्मिन्कर्मणि तद्यथा तथा । 'शेषाद्विभाषा' इति विकल्पान्न कप् । विक्षिपन् विकिरन् ; इत्थं शिशिरः सुरभिः । यामिनीमरुत् रात्रिवायुः । परितो लीनाः शयिता विहङ्गा यासु ता वनराजीः । आदुधाव ईषत्कम्पयामास । विहङ्गशयनाविरोधेन वनराजिः किञ्चित्कम्पितेत्यर्थः । 'आङोषदर्थेऽभिव्याप्तौ' इत्यमरः । यथा कश्चित् कामिनीं गन्धो-दकादिना सिञ्चन्नाकंपति तद्वदिति भावः ।
**हिन्दी—**जलके कणोंका वहन करनेवाले, खिलते हुए कुमुदोंके सुगन्ध-( खुशबू ) को उड़े हुए परागको बिखेरते हुए रात्रिके वायुने चारों ओर सोये हुए पक्षियोंवाली वनपङ्क्तिको कुछ कम्पित कर दिया ॥ ३१ ॥
संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलोघः ।
यामिनीघनतया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ३२ ॥
| १६६ | किरातार्जुनीयम् |
|---|
मल्लि०—संविधातुमिति ॥ यामिनी वनितेव तया रात्रिरूपया कान्तस्य मन्मथस्याभिषेकं त्रिभुवनजैत्रयात्राभिषेकं संविधातुं सम्यक्कर्तुम् । अंशवो जलाभोषास्तेषामोधः पूरो लसन् यस्मिंस्तः । तत्तचिह्नः स्फुटलाञ्छन इन्दुः सोत्पलो रजतकुम्भ इव । उदास उत्क्षिप्तः । अस्यतेः कर्मणि लिट् । अत्र संविधातुमिति तुमुना प्रतीयमानोत्प्रेक्षानुप्राणितोऽयमुपमोत्प्रेक्षयोः संकरः ।
हिन्दी—रात्रिरूप स्त्रीके समान रात्रिने कामदेवका अभिषेक करनेके लिए जलके समान किरणोंसे शोभित हुए समूहवाले, स्पष्ट लञ्छनवाले चन्द्रमाको नीलोत्पलसे युक्त चाँदीके घड़ेके समान उठा लिया ॥ ३२ ॥
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ३३ ॥
मल्लि०—ओजसेति ॥ ओजसा । अनूनं संपूर्णमपि । असहायं सहायरहितम् । पुरुषमिति शेषः । जयश्रीर्नोपयाति खलु नूनम् । कुतः । यत् यस्मात् । विभुः समर्थोऽप्यनङ्गः शशिमयूखानां सखा सहचरस्तथोक्तः । ससहायः सन्नित्यर्थः । विजयि विजयशीलम् । ‘जिदृक्षि--’ इत्यादिनेनिप्रत्यः । चापमाददे । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।
हिन्दी—तेजसे पूर्ण होने पर भी सहायरहित (पुरुष) के पास विजयलक्ष्मी नहीं जाती यह निश्चित है । क्योंकि समर्थ होकर भी कामदेवने चन्द्रकिरणोंका मित्र होकर ही विजयशील धनुको ले लिया ॥ ३३ ॥
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
सन्निकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ३४ ॥
मल्लि०—सद्मनामित्यादि ॥ संनिकृष्टरतिभिरासन्नसुरतोत्सवैरत एव सुरदारैः सुरवधूभिः । आहितशोभैः प्रागेव विहितकेलिगृहमण्डनैरपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनम् । ईषेऽभिलेषे । इषेः कर्मणि लिट् । आगतप्रियकथैः प्राप्तप्रियजनवृत्तान्तैरपि दूतस्य कर्म दूत्यं दूतोव्यापार ईषे । दूतस्य भावकर्मणोर्यत् प्रत्ययः । तथा भूषितैरपि विभूषणं प्रसाधनम् । ईषे । औत्सुक्यातिरेकादिति भावः।
हिन्दी—निकट सुरतक्रीडावाली सुरसुन्दरीयों ने पहले ही क्रीडागृहको सजाने पर भी फिर क्रीडागृहोंकी रचना करनेका अभिलाष किया । प्रियजनका वृत्तान्त सुनकर भी दूतीको भेजनेकी इच्छा की, तथा भूषित होकर भी भूषण करनेका अभिलाष किया ॥ ३४ ॥
नवमः सर्गः १६७
न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ ३५ ॥
**मल्लि०—**नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । ‘रुच्यर्थानां प्रीयमाणः’ इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात् प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपाधत्त आदत्ते । तदभावादरुचि-र्युक्तैवेत्यर्थः । अत एव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । ‘पोरदुपधात्’ इति यत्प्रत्ययः, ‘कृत्यल्युटो बहुलम्’ इत्यधि-करणार्थः ।
**हिन्दी—**सुरसुन्दरियों ( अप्सराओं ) को वियोगकी अवस्थामें न मालाओं-की, न चन्दनोंकी और न मदिराकी ही रुचि थी, क्योंकि प्रियका समागम ही रतिके साधनोंमें मनोहरताको प्राप्त करता है ॥ ३५ ॥
प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवलम्बे ॥ ३६ ॥
**मल्लि०—**प्रस्थिताभिरिति ॥ अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रच-लिताभिर्ध्वंसितानि खण्डितानि प्रियसखीवचनानि स्वय प्रस्थानं लाघवायेत्येवं-रूपाणि याभिस्ताभिः । मानिनीभिः । कोपनाभिः । ‘स्त्रीणामीर्ष्याकृतः कोपो मानोऽ-न्यासङ्गिनि प्रिये’ । इति लक्षणात् । अपहस्तितं निरस्तं धैर्यं येन सः । तथा साद-यन् मानं शरीरं च कर्षयन्नपि सदोषोऽपीत्यर्थः । मदोऽवलम्बे स्वीकृतः । अज्ञान-व्याजेन लाघवापह्नवसौकर्यादिति भावः ।
**हिन्दी—**पहले प्रियसखीके मिलापके लिए किये गये वचनोंको भी ठुकरानेवाली मानिनी स्त्रियोंने प्रियके निवासस्थानमें प्रस्थान कर धैर्यको दूर करनेवाले, अभि-मान और शरीरको कृश करनेवाले मद ( मद्य ) का अवलम्बन किया ॥ ३६ ॥
कान्तवेश्म बहु सन्दिशतीभिर्यातमैव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितमप्युपकारि ॥ ३७ ॥
**मल्लि०—**कान्तेति ॥ रतये सुरताय बहु संदिशतीभिरनेकं कथयन्तीभिः । संदेशव्यसनाद् गन्तव्यमप्यजानतीभिरित्यर्थः । रमणीभिः । कान्तवेश्म यातं प्राप्त-
१६८ | किरातार्जुनीयम्
मेव। न तु मध्येमार्गान्निवृत्तमित्यर्थः। तथा हि—मन्मथेन परिलुप्तमतीनां स्खलितं विरुद्धाचरणमपि प्रायश उपकारि भवति।
हिन्दी—रतिक्रीडाके लिए अनेक सन्देशोंको भेजती हुई अप्सराओंने प्रिय-भवनको प्राप्त ही कर लिया, कामदेवसे लुप्त बुद्धिवालोंका विरुद्ध आचरण भी प्रायः उपकार करनेवाला होता है॥ ३७॥
आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम्।
निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या॥ ३८॥
मल्लि०—आश्विति॥ आशु कान्तमभिसारितवत्याः अभिगतवत्याः। स्वार्थे णिच्। योषितः सम्बन्धि पुलकै रुद्धावावृतौ कपोलौ यस्य तत्। खण्डा प्रमृष्टा पत्राणां पत्रलेखानां तिलकस्य च आकृतिः सन्निवेशः यस्य तत् व्यक्तं मुखं कान्त्याऽखण्डं पूर्णम्। इन्दुं निर्जिगाय जयति स्मेत्यार्योपमया , जयति द्वेष्टि' इति दण्डिना सादृश्यार्थेषु गणनात्।
हिन्दी—शीघ्र प्रियके पास अभिसार करनेवाली स्त्रीका रोमांचसे आवृत्त कपोलवाले, और मिटी हुई पत्ररेखाओं और तिलकके आकृतिवाले मुखने अपनी कान्तिसे पूर्णचन्द्रको जीत लिया॥ ३८॥
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि! साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ ३९॥
मल्लि०—उच्यतामिति। तत्र नायिकाह—स धूर्तोऽशेषमखिलं वचनीयं वक्तव्यमुच्यताम्। निःशङ्कमपालभ्यतामित्यर्थः। ब्रूञो दुहादित्वादप्रधाने कर्मणि लोट्। अथ सख्याह—हे सखि, ईश्वरे भर्तरि नायके विषये परुषता पारुष्यं न साध्वी न हिता। अथ नायिकाह—तर्हि एनमनुनीय सान्त्वयित्वा, आनय। पुनः सख्याह—विप्रियाणि जनयन् अप्रियाणि कुर्वन् स कथं वाऽनुनेयोऽनुनयार्हः।
हिन्दी—नायिका कहती है—उस धूर्तको सब कुछ कहना चाहिए (उलाहना देना चाहिए)।
सखी कहती है—नायकके विषयमें कठोरता हित करनेवाली नहीं होती है।
नायिका कहती है—तब उनको सान्त्वना देकर ले आओ।
सखी कहती है—अप्रिय करते हुए वे कैसे सान्त्वनाके योग्य होंगे?॥ ३९॥