Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३

Page 43Permalink

सर्गः] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १३

सुधाः- निसर्गदुर्बोधम् = प्रकृतिदुर्ज्ञेयम्, न केनापि सुबोधमित्यर्थः। तादृशं, भूपतीनाम् = महीपतीनाम् राज्ञामित्यर्थः। चरितम् = कृत्यम्, राज्यशासनरूपमित्यर्थः। क्व = कुत्र, वर्तते। (तथा च) अबोधविकलवाः = दुर्बोधजडाः जन्तवः = शरीरिणः (मादृशवनचरा इत्यर्थः) क्व = कुत्र, वर्त्तन्ते, (अनयोर्महदन्तरमस्ति। अर्थात् राज्ञश्चरित्रं तु तीक्ष्णमतिभिरपि न हि ज्ञातुं शक्यते, तत्कथं मादृशैरबोधोपहतैर्ज्ञायते इति भावः। 'नृपस्य चित्तं कृपणस्य वित्तं देवो न जानाति कुतो मनुष्यः' इति। अथ तादृशत्वेऽपि तस्य) मया = वनेचरेण, विद्विषाम् = भवच्छत्रूणाम्, दुर्योधनादीनां, निगूढतत्त्वं = अतिगुप्तसारम्, नयवर्त्म = राजनीतिपथः यत् = यत्किञ्चित्, अवेदि = ज्ञातम्, तत् = ज्ञानरूपम् (तु) अयम् तव = युधिष्ठिरस्य, अनुभावः = प्रभावः महिमेत्यर्थः। विज्ञस्य महतः संसर्गादज्ञो लघीयानपि महीयान् भवतीति भावः। 'काचः काञ्चनसंसर्गाद्धत्ते मारकती द्युतिम्' इति कश्चत्ता सहवेशनोपवेशान्मयाऽपि किञ्चिज्ज्ञानमाप्तमिति ॥६॥

समासः- निसर्गाद् दुर्बोधम् निसर्गदुर्बोधम्। अबोधेन विक्लवा अबोधविक्लवाः। निश्चयेन गूढं तत्वं यस्य तद् निगूढतत्त्वम्। नयस्य वर्त्म नयवर्त्म अनुगतो भावः अनुभावः। प्रादिसमासः॥६॥

व्याकरणम्- अवेदि = विद् + कर्मणि लुङ् ॥६॥

वाच्यान्तरम्- निसर्गदुर्बोधेन भूपतीनां चरितेन, क्व भूयते, अबोधविकलवैर्जन्तुभिः क्व भूयते। अहं विद्विषां निगूढतत्त्वं नयवर्त्म येनावेदिषम्, तेन तवानुभावेनानेन भूयते ॥६॥

कोशः- 'स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः' इत्यमरः, विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः' इत्यमरः। 'प्राणी तु चेतनो जन्मी जन्तुर्जन्यःशरीरिणः' इत्यमरः। 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः॥६॥

सारार्थः- राज्ञां चरितं सुबुद्धिनाऽपि सम्यग्ज्ञातुं न शक्यते, अतो मादृशेनमन्दमतिना कथं वेत्तुं शक्यते। तथात्वेऽपि मया यत् स्तोकं बहु वा ज्ञातं, तत्केवलं भवतः संसर्गमहिम्नैवेति ॥६॥

भाषार्थः- स्वभावतः नहीं समझने के लायक राजाओं के चरित कहाँ? फिर मेरे सरीखे मन्द समझने वाले आदमी कहाँ ? इन दोनों में बहुत ही अन्तर

Page 44Permalink
१४किरातार्जुनीयम्[प्रथमः

हैं ऐसा होने पर भी मैं आपके विपक्षियों के गूढतत्त्व की राजनीति को समझ सका हूँ, सो केवल आप ही का प्रभाव है ॥६॥

सम्प्रति यद्वक्तव्यं तदाह-
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगती सुयोधनः॥७॥

विशङ्कमान इति। सुखेन युध्यते सुयोधनः। 'भाषायां शासियुधिदृशिधृषिभ्यो युज्वाच्यः' नृपासनस्थः सिंहासनस्थोऽपि। वनमधिवसतीति तस्मात् वनाधिवासिनो वनस्थात्। राज्यभ्रष्टादपीत्यर्थः। भवतस्त्वतः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन्। दुष्टमुदरमस्येति दुरोदरं द्यूतम्। पृषोदरादित्वात्साधुः। 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः। तस्य छद्मना मिषेण लब्धां दुर्नयार्जितां जगतीं महीम्। 'जगती विष्टपे महां वास्तुच्छन्दोविशेषयोः' इति वेजयन्ती। नयेन नीत्या जेतुं वशीकर्तुं समीहते व्याप्रियते। न तुदास्त इत्यर्थः। बलवत्स्वामिकमविशुद्धागमञ्च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः। अत्र दुरोदरच्छद्मजिताम् इति विशेषणपदार्थस्य चतुर्थपदार्थं प्रति हेतुत्वेनोपन्यासाद् द्वितीयकाव्यलिङ्गमलङ्कारः। तदुक्तम्— 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥७॥

अन्वयः- नृपासनस्थः, अपि वनाधिवासिनः, भवतः, पराभवं, विशङ्कमानः, दुर्योधनः, दुरोदरच्छद्मजितां, जगतीम्, नयेन, जेतुम्, समीहते ॥७॥

सुधा- नृपासनस्थः = राजसिंहासनारूढः, 'सन्' अपि, वनाधिवासिनः = (साम्प्रतम्) विपिने विहरतोऽपि भवतः = त्वतः पराभवं = पराजयम् विशङ्कमानः = मन्यमानः न जाने कदाऽपि पाण्डवाः समागत्यास्माकं समूलघातं कृत्वा राज्यं ग्रहीष्यन्ति एवं शङ्कया सदैव भयभीत इति भावः। सुयोधनः = अक्लेशयोद्धा, चैतन्नामकः धृतराष्ट्रज्येष्ठपुत्रः, दुरोदरच्छद्मजिताम् = द्यूतकपटवशीकृताम्, व्याजाक्षक्रीडयाऽऽत्मसात्कृतामित्यर्थः। जगतीम् = महीम्, नयेन = न्यायेन राज्यधर्मेणेत्यर्थः। जेतुं = वशीकर्त्तुम्, समीहते = सञ्चेष्टते। येन प्रजाजनाः सर्वे तद्वशवर्तिनोऽनुरागिणश्च भवेयुस्तथा यतते इति भावः॥७॥

समासः- नृपत्यासनं नृपासनम् तिष्ठतीति नृपासनस्थः। वनमधिवसतीति वनाधिवासी तस्माद् वनाधिवासिनः। दुरोदरस्य द्यूतस्य छद्म कपटं दुरोदरच्छद्म, तेन