किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
by महाकवि भारवि
Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)
Page 637 of 707
Read in contextसप्तदशः सर्गः ३८१
नेत्रोंसे जैसे महान् नाग विषवमन करता है इसी तरह क्रोधसे उत्थापित आंसू गिराने लगे ॥ ७ ॥
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ ८ ॥
मल्लि०— तस्येति । आहवायासेन = युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य । ‘चूडा किरीटं केशाश्च संयता मौलयस्त्रयः' इत्यमरः । संरम्भताम्रे = कोपारुणे आयते विस्तृते लोचने यस्य । 'संरम्भः संभ्रमे कोपे' इति विश्वः । तस्यार्जुनस्य । रोषतप्तं मुखं निदाघो घर्मो निर्वापयिष्यन् शिशिरीकरिष्यन्निवेत्युत्प्रेक्षा । प्रस्नापयामास = सिषेच । स्वेदं जनयामासेत्यर्थः । स्नातेर्मित्त्वविकल्पाद्ध्रस्वविकल्पः ॥ ८ ॥
हिन्दी— युद्धके आयाससे शिथिल केश बन्धवाले, क्रोधसे लाल और विशाल नेत्रोंवाले अर्जुनके क्रोधसे सन्तप्त मुखको स्वेदविन्दुने मानों ठण्डा करनेके लिए सेचन किया ॥ ८ ॥
क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वाशुराजीरिव तिग्मरश्मिः ॥ ९ ॥
मल्लि०— क्रोधेति । क्रोधोऽन्धकार इव तेनान्तरित आवृतः सोऽर्जुनो घनोपरुद्धो मेघावृतस्तिग्मरश्मी रविवृष्टेः प्रभवाय=वर्षणाय तिस्र ऊर्ध्वांशूनां राजीरिव । अर्कस्योर्ध्वांशुरेखोदये वृष्टिलिङ्गमित्यागमः । रणाय = रणप्रवृत्तये तिस्रस्त्रिसंख्या भ्रूभेदो भ्रूभङ्गस्तस्य रेखा बभार ॥ ९ ॥
हिन्दी— अन्धकारके समान क्रोधसे आच्छादित अर्जुनने जैसे मेघसे आच्छादित सूर्य वृष्टि करनेके लिए तीन ऊर्ध्वकिरणोंको धारण करते हैं उसी तरह युद्धकी प्रवृत्तिके लिए तीन भ्रूभङ्गोंकी रेखाओंका धारण किया ॥ ९ ॥
स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शंभोरिषुभिस्तताप चेतांसि चिन्ताभिरिवाशरीरः ॥ १० ॥
मल्लि०— स इति । सोऽर्जुनोऽम्बुदवन्नदतीति अम्बुदनादि । 'कर्तर्युपमाने' इति णिनिः । चापं दिङ्नागो दिग्गजोऽद्रिशृङ्गमिव हस्तेन = करेण प्रध्वनय्य = ध्वनयित्वा शंभोर्बलानि = सैन्यानि । अशरीरोऽनङ्गः कामश्चेतांसि = युवमनांसि