Skip to content
SarvaKosh
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

Page 644 of 707

Read in context
Page 644
३८८किरातार्जुनीयम्

हिन्दी— अर्जुनने वाम और दक्षिण गतियोंसे उग्र धनुको ध्वनित करतेवाले शिवजीके प्रति जैसे-जैसे मत्त फीलवान पारी-पारीसे कर्णतालको संपादित करनेवाले दुष्ट हाथीके प्रति आशङ्का करता है उसी तरह आशङ्का की ॥ २५ ॥

निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ २६ ॥

मल्लि०— निजघ्निर इति। हरेषुजालैस्तस्यार्जुनस्य पतन्ति आगच्छन्ति शिलीमुखानां शराणां वृन्दानि। ऊर्जस्विभिः प्रबलैः। अम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेन आगतानि यादांसीव निजघ्निरे हतानि ॥ २६ ॥

हिन्दी— शिवजीके बाणोंने आते हुए अर्जुनके बाणोंको, समुद्रके जबर्दस्त जल-ग्राहोंसे नदीमुखसे आये हुए जल जन्तुओंकी तरह नष्ट कर दिया ॥ २६ ॥

विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेताऽरिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शंभुः ॥ २७ ॥

मल्लि०— विभेदमिति। अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एव प्रतिबन्धनम्, अन्यत्र तु—आसारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गेलूक-नदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुः। अविदितप्रयोगः संवृतमन्त्रत्वा-दविज्ञातोपायप्रयोगः सन् अरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽ-ज्ञातबाणसंधानमोक्षादिकः सन्, अस्यार्जुनस्य शरेषु चकार कृतवान्। कर्तरि लिट्। श्लेषालङ्कारः ॥ २७ ॥

हिन्दी— जैसे सेनापति शत्रुओंमें अविदित उपायका प्रयोग कर व्यूहभेद मार्ग-प्रतिबन्ध और किलेका विध्वंस कर देता हैं उसी तरह शिवजीने बाणोंका सन्धान और प्रयोगको अविदित कर अर्जुनके बाणोंका विध्वंस कर डाला ॥ २७ ॥

सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ २८ ॥

मल्लि०— सोढेति। सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वो-त्कृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः अत एव वेगितया वेगेन पतद्भिर्गतिं कुर्वद्भिः अत एव छिन्नैरपि त्रासिता वाहिनी यैस्तैरत एव कृतार्थैरिव बाणैः पेते। भावे लिट्। वस्तुतस्त्वकृतार्थै-रेवेत्यर्थः ॥ २८ ॥