Skip to content
SarvaKosh
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages
Page 570Permalink
३१४किरातार्जुनीयम्

कर धनुर्मण्डलको शब्दायमान करनेवाले शिवजी विस्तृत दो पाश्वोंको अपनी महिमासे व्याप्त कर गणोंके मध्यमें अवस्थित होकर भी ऊपर रहे हुएके समान शोभित हुए ॥ ३१ ॥

सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धमावभौ वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ ३२ ॥

मल्लि०— सुगेष्विति । सुखेन दुःखेन च गच्छन्त्येष्विति सुगेषु सुगमेषु दुर्गेषु दुर्गमेषु च । समविषमदेशेष्वित्यर्थः । सुदुरोरधिकरणार्थे डो वक्तव्यः । अत एव टिलोपः । तुल्यविक्रमैर्लाघवात्समसंचारैः जवाद् वेगात् । अहंपूर्विकयाऽहमहमिकया । ‘अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम्’ । इत्यमरः । यियासुभिर्यातुमिच्छुभिः । यातेः सन्नन्तादुप्रत्ययः । गणैः प्रमथैः । मनोज्ञादित्वाद् वुञ्प्रत्ययः । पृषोदरादित्वाद् वृद्धयभावः । ‘गणाः प्रमथसङ्घोघाः’ इति वैजयन्ती । अविच्छेदेन निरुद्धमत एव, आकुलाकुलमाकुलप्रकारम् । ‘प्रकारे गुणवचनस्य’ इति द्विर्भावः । वनं निरुच्छ्वासं निरुद्धप्राणमिव । आवभौ इत्युत्प्रेक्षा ॥ ३२ ॥

हिन्दी— सुगम और दुर्गम सभी स्थानोंमें तुल्य पराक्रमवाले, वेगसे ‘मैं पहले जाऊँगा,’ ‘मैं पहले जाऊँगा’ इस प्रकार जानेकी इच्छा करनेवाले गणोंसे विच्छेदके बिना निरुद्ध अतएव वन अत्यन्त आकुल होकर दम घुटा सा हो गया ॥ ३२ ॥

तिरोहितश्वभ्रनिकुञ्जरोधसः समश्नुवानाः सहसाऽतिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ ३३ ॥

मल्लि०— तिरोहितेति । किरातसैन्यैस्तिरोहितानि छन्नानि श्वभ्रनिकुञ्ज-रोधांसि गर्तकुञ्जतटानि यासां ताः । अत एव भुवः । प्रदेशाः सहसाऽतिरिक्ततामु-त्तानातां समश्नुवाना आप्नुवन्त्यः । तथा, अपिधायाच्छाद्य रेचिता रिक्तीकृता मुक्ताः क्षणं निम्नतया गाम्भीर्येण भेजिरे इव प्राप्ता इवेत्युत्प्रेक्षा । सैन्यैर्या भुवो व्याप्तास्ता उत्तानाः प्रतीयन्ते । तैर्मुक्तास्ता एव निम्नाः प्रतीयन्त इत्यर्थः ॥ ३३ ॥

हिन्दी— किरातसेनाओंसे गड्ढे, लतागृह और तटभाग आच्छादित हो जानेसे जमीनके भाग भाग (हिस्से) सहसा उन्नत भावको प्राप्त हो गये । उस तरहके आच्छादन कर छोड़े जानेपर क्षणभरमें फिर गाम्भीर्य प्राप्त हुए-से प्रतीत हुए ॥ ३३ ॥

Page 571Permalink

चतुर्दशः सर्गः ३१९

पृथूरुपर्यस्तवृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ॥ ३४ ॥

**मल्लि०—**पृथ्विति। पृथुभिर्विशालै रुरुभिः सक्थिभिः पर्यस्ताः क्षिप्ता बृहल्यो लताततयो यया सा जवानिलेन वेगमारुतेनाऽऽघूर्णिता भ्रमिताः शालाः सर्जतरवश्चन्दनानि च यया सा । 'प्राकारवृक्षयोः सालः शालः सर्जतरुः स्मृतः' इति शाश्वतः । परितः सर्वत्र प्रसारिणी प्रसरणशीला गणाधिपानां संहतिः समूहो वनान्यवाञ्चि न्युब्जानीव नीचानीवेत्यर्थः । चकारेत्युत्प्रेक्षा । अवाञ्चत्यधोमुखोभवति । अवपूर्वादञ्चतेः क्विप् । 'स्यादवाङप्यधोमुखः' इत्यमरः ॥ ३४ ॥

**हिन्दी—**विशाल ऊरुओंसे बड़ी-बड़ी लतापंक्तिको फेंकती हुई वेगपूर्ण वायुसे सिर्जवृक्ष और श्रीखण्ड वृक्षोंको घुमाती हुई चारों ओर फैलनेके स्वभावसे युक्त करातस्वामियोंकी सेनाने मानों वनोंको अधोमुख कर डाला ॥ ३४ ॥

अथाष्टभिः श्लोकैरर्जुनं विशेषयन् गणानां तदभियोगमाह—

ततः सदपं प्रतनुं तपस्यया मदस्रुतिश्राममिवैकवारणम् ।
परिज्वलन्तं निधनाय भूभृतां दहन्तमाशा इव जातवेदसम् ॥ ३५ ॥

**मल्लि०—**तत इत्यादि । ततः सदपं सगवं सान्तःसारं तपस्यया तपश्चर्यया । तपस्यतेः क्यङन्तात्स्त्रियामप्रत्यये टाप् । प्रतनुं कृशमत एव मदस्रुत्या मदक्षरणेन क्षामं कृशम् । 'क्षायो मः' इति निष्ठातकारस्य मकारः । एकवारणमेकाकिनं गजमिव स्थितमित्युपमा । पुनः । भूभृतां राज्ञां निधनाय नाशाय परिज्वलन्तं तेजस्विनमत एव, आशा दिशो दहन्तं जातवेदसमग्निमिव स्थितमित्युपमालंकारः । 'कृपीटयोनिज्वलनो जातवेदास्तनूनपात्' । इत्यमरः ॥ ३५ ॥

**हिन्दी—**तब अन्तःसारसे युक्त तपस्या करनेसे दुबले-पतले अतएव मदके गिरनेसे अकेले हाथीके समान स्थित राजाओंके नाशके लिए तेजस्वी अतः दिशाओंको जलाते हुए अग्निके समान स्थित अर्जुनको ॥ ३५ ॥

अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् ।
शनैरपूर्णंप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ ३६ ॥

**मल्लि०—**अनादरेति । पुनश्च, अनादरेणावगणनया उपात्तो निष्षङ्गादुद्धृतो धृतश्चैकः सायको येन तं, तथाऽनुकूले सुहृदीव जये सस्पृहम् । जयमिच्छन्तमित्यर्थः । पुनश्च, अपूर्णो न्यूनः प्रतिकारो बाणाहरणप्रत्यर्पणरूपो यस्य सः । अत एव पेलवो

Page 572Permalink

३१६ किरातार्जुनीयम्

लघुस्तस्मिन् अपूर्णप्रतिकारपेलवो बलोदधौ सेनासमुद्रे शनैरसंभ्रमेण नयने दृष्टे निवेशयन्तमिति वीरस्वभावोक्तिः। वलमुदधिरिवेत्युपमितसमासः। 'पेषंवास्वाहरुधिषु च' इत्युदकस्योदादेशः॥ ३६॥

हिन्दी—अनादरसे तरकशसे एकमात्र बाणको लिये हुए अनुकूल मित्रके समान विजयको चाहनेवाले न्यून प्रतिकारवाले अतः लघु सेनासमुद्रमें दृष्टिपात करते हुए अर्जुनको ॥ ३६ ॥

निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कंपमिवापगापतिम्॥ ३७॥

मल्लि०—निषण्णमिति। पुनश्च, आपदां प्रतिकारस्य कारणे साधनेऽनपायिनि स्थिरे एवंभूते शरासने धैर्य इव निषण्णं स्थितं प्रकृतौ स्वभावे स्थितमपि। निर्विकारमपीत्यर्थः। अत एव, अलङ्घनीयमनतिक्रमणीयमत एव निवातनिष्कंपं वाताभावान्निश्छलम्। 'निवातावाश्रयावातो' इत्यमरः। आपगापतिं समुद्रमिव स्थितम्॥ ३७॥

हिन्दी—फिर आपत्तियोंके प्रतिकारके कारणमें स्थिर धैर्यके समान धनुषमें स्थित, प्रकृतिमें स्थित (निर्विकार) अत एव अलङ्घनीय अतः हवा न लगनेसे कम्परहित समुद्रके समान स्थित अर्जुनको ॥ ३७ ॥

उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे॥ ३८॥

मल्लि०--उपेयुषीमिति। पुनश्च, अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य। व्रीह्यादित्वादिनिप्रत्ययः। वधाद्धेतोः उपेयुषीं प्राप्ताम्, अन्तकस्येव यमस्येव द्युतिस्तां बिभ्रतं धारयन्तम्। तथा च द्विजैर्ब्राह्मणैः। अध्वरे यज्ञे। 'यज्ञः सवोऽध्वरो यागः' इत्यमरः। हूतमाहूतं पुरोऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तम्। पशूनां पतिं रुद्रमिव स्थितम्॥ ३८॥

हिन्दी—फिर समीपमें गिरे हुए वराहके वधसे प्राप्त यमराजके समान तेजको धारण करते हुए तथा ब्राह्मणोंसे यज्ञमें बुलाये गये सामने यज्ञियपशुको रखनेवाले रुद्रके समान स्थित अर्जुनको ॥ ३८ ॥

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा।
वनोदयेनेव घनोरुवीरुधा सनन्धकारोत्कृतमुत्तमाचलम् ॥ ३९।

Page 573Permalink

चतुर्दशः सर्गः ३१७

**मल्लि०—**निजेनेति। पुनश्च, निजेन नैसर्गिकेण भूयसा बहुलेन धैर्येमेव गुणस्तेन विजितमन्येषां गौरवं गाम्भीर्यं यस्मिन्कर्मणि तथा गभीरतां दुरवगाहत्वं नीतम्। अत एव घनाः सान्द्रा उरवोश्च महत्यो वीरुधो लताश्च यस्मिंस्तेन घनोरुवीरुधा वनोदयेन अरण्यप्रादुर्भावेन समन्धकारीकृतं दुरवगाहीकृतम्, उत्तमाचलमिव स्थितम्। समन्ततोऽन्धकारो यस्य स इति विग्रहः ॥ ३९ ॥

**हिन्दी—**फिर अपने प्रचुर धैर्यरूप गुणसे औरोंके गाम्भीर्यको जीतकर गम्भीरताको प्राप्त कराये हुए अत एव घनी और बड़ी फैली हुए लताओंसे युक्त बनके प्रादुर्भावसे दुष्प्रवेश किये गये उत्तम पर्वतके समान स्थित अर्जुनको ॥ ३९ ॥

महर्षभस्कन्धमनूनकन्धरं बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥ ४० ॥

**मल्लि०—**महर्षभेति। महर्षभस्य महावृषभस्य स्कन्ध इव स्कन्धावंसौ यस्य तम्। उपमानपूर्वपदत्वादुत्तरस्कन्धलोपः। 'ऋषभो वृषभो वृषः' इत्यमरः। स्कन्धो भुजशिरोंसोऽस्त्री' इत्यमरः। अनूनकन्धरं स्थूलग्रीवम्। 'अथ ग्रीवायां शिरोधिः कन्धरेत्यपि' इत्यमरः। बृहच्छिलावप्रं महाशिलातटं तद्वत् घनेन कठिनेन वक्षसा उपलक्षितम्। महाभरां दुष्टैरतिभारवतीं जगतीं महीं समुज्जिहीर्षुं दुष्टराजकार्णवात् समुद्धर्तुमिच्छुम्, अत एव महतोऽर्णवाजगतीं समुज्जिहीर्षुमुक्तविशेषणविशिष्टं च महावराहमिव स्थितम्। अर्थसाधर्म्यादियमुपमा न श्लेषः, शब्दमात्रसाधर्म्येण तस्य विधानादिति रहस्यम् ॥ ४० ॥

**हिन्दी—**बड़े-से साँड़के-से कन्धोंवाले, स्थूल ग्रीवासे युक्त और बड़े चट्टानके समान कठोर वक्षस्थल (छाती) से उपलक्षित अतिशय भारवाली पृथ्वीका दुष्ट राजसमूहरूप समुद्रसे उद्धार करनेकी इच्छा वाले अत एव विशाल समुद्रसे पृथ्वीका उद्धार करनेके इच्छुक महावराहके समान स्थित अर्जुनको ॥ ४० ॥

हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ ४१ ॥

**मल्लि०—**हरिदिति। पुनश्च, हरिन्मणिश्यामं मरकतमणिश्यामलम्। उदग्रविग्रहमुदारमूर्ति देहिनः सत्त्वान् परिभूय तिरस्कृत्य प्रकाशमानम्। जलमेवाऽऽदर्शो मुकुरस्तस्मिन्, अंशुमालिनं सूर्यमिव। मनुष्यभावे मनुष्यरूपे स्थितं पुरातनं पुरुषम्। यो बदरीतपोवननिवासी नारायणसहचरो नरो नाम स एवायमित्यर्थः ॥ ४१ ॥

Page 574Permalink
३१८किरातार्जुनीयम्

**हिन्दी—**मरकत मणि ( पन्ना ) के समान श्याम वर्णवाले, उन्नत शरीरवाले अन्य जन्तुओंका तिरस्कार कर प्रकाशमान जलरूप दर्पणमें स्थित सूर्यके समान, मनुष्यरूपमें स्थित प्राचीन पुरुष नरके समान स्थित अर्जुनको ॥ ४१ ॥

गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनोलवाजिशं तपात्यये तोयघना घना इव ॥ ४२ ॥

**मल्लि०—**गुर्विति । गुर्वीभिः क्रियारम्भाणां फलैरलंकृतम् । सफलकर्मारम्भमित्यर्थः । जगत्प्रमाथिनो जगद्विजयिनः प्रतापस्य तेजसो गतिं स्थानम् । अतोऽस्य बहूनामेकलक्ष्यत्वं च युज्यत इति संदर्भाभिप्रायः । पूर्वोक्तविशेषणविशिष्टम्, अनोलवाजिशं श्वेताश्वमर्जुनं गणाः प्रमथादयः, तपात्यये तोयघनास्तोयभरिताः । वार्षिका इत्यर्थः । घना मेघा इव । महाचलमिति शेषः । समासेदुः । अवापुरित्यर्थः । कुलकम् ॥ ४२ ॥

**हिन्दी—**गौरवपूर्ण कार्यके आरम्भोके फलसे अलंकृत, जगत्के विजयी तेजके स्थानस्वरूप अर्जुनके पास जैसे बलपूर्ण वर्षाके मेघ महापर्वतोंको प्राप्त करते हैं वैसे ही प्रमथगण अर्जुनके पास प्राप्त हुए ॥ ४२ ॥

यथास्वमाशंसितविक्रमाः पुरः मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ ४३ ॥

**मल्लि०—**यथास्वमिति । पुरा पूर्वम् । स्वं स्वमनतिक्रम्य यथास्वम्, अहमेवैनं जेण्यामीति आशंसिताः काङ्क्षिताः कविता वा विक्रमा यैस्ते परे शत्रवो मुनेःप्रभावात्क्षततेजसो हतप्रभावाः सन्तः क्षणादप्रतिपत्तिमूढतां मोहान्धतां ययुः । तथा हि—महानुभावोऽतिप्रतापः पौरुषं पुरुषस्य चेष्टितं प्रतिहन्ति नाशयति ॥ ४३ ॥

**हिन्दी—**पहले 'मैं ही इसे जीत लूँगा' ऐसा कहते हुए शत्रुलोक अर्जुनके प्रभावसे नष्ट प्रभाववाले होकर क्षणभरमें ही निश्चय करनेमें मोहको प्राप्त हुए, क्योंकि अतिशय प्रतापी पुरुष दूसरेके पुरुषार्थको नष्ट कर देता है ॥ ४३ ॥

ततः प्रजह्वे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानामपि सङ्घवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ ४४ ॥

**मल्लि०—**तत इति । तत एकैकस्याशक्तौ अपेक्षिता वाञ्छिताऽन्योन्यबलोपपत्तिरन्योन्यशक्त्यवष्टम्भो यैः । तै प्रमथैः । तत्रार्जुने । क्रियावारत्वात्सप्तमी । समं युगपदेव प्रजह्वे प्रहृतम् । भावे लिट् । तथा हि—सहायसाध्याः सिद्धयः कार्य-

चतुर्दशः सर्गः ३१९

Page 575Permalink

चतुर्दशः सर्गः ३१९

सिद्धयो महोदयानामपि महानुभावानामपि । सङ्घेन वृत्तिश्शरीरो येषां तेषां भाव-
स्तत्ता तां सङ्घ-वृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं
न दोष इति भावः ॥ ४४ ॥
हिन्दी — उसके बाद दूसरेकी शक्तिको सहारा चाहनेवाले उन प्रमथोंने अर्जुन-
पर एक-ही बार प्रहार किया, क्योंकि सहायसे होनेवाली कार्य सिद्धियाँ महानुभावों
को भी-समुदायसे कार्य करनेका उपदेश देती हैं ॥ ४४ ॥

किरातसैन्यादुरुचापचोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव प्रवृत्तपत्रध्वनयः शिलीमुखाः ॥ ४५ ॥
मल्लि० — किरातेति । उरुभिर्वृहद्भिश्वापैर्नोदिताः प्रक्षिप्ता उपात्तरंहसः प्राप्त-
वेगाः प्रवृत्तपत्रध्वनयः संजातपक्षस्वनाः शिलीमुखा बाणाः । महावनादुन्मनसः
क्वापि गन्तुमुत्सुकाः । तथा, उक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव । किरात-
सैन्यात् समं समन्ततः समुत्पेतुः ॥ ४५ ॥
हिन्दी — विशाल धनुषोंसे प्रेरित, वेगको प्राप्त करनेवाले, पंखकी आवाजवाले
बाण विशाल वनसे कहीं भी जानेके लिए उत्सुक होकर पक्षियोंकी तरह किरातों-
की सेनासे एक-ही बार चारों ओर छूट गये ॥ ४५ ॥

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुच्छ्रमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ ४६ ॥
मल्लि० — गभीरेति । गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रति-
स्वनास्तैर्भृशमुन्नमितेनोत्थापितेन दीर्घीकृतेन जवादुपेयुषा प्राप्नुवता धनुषा निनादेन
दिशो विभिद्यमाना विदार्यमाणा इव दध्वनुर्ध्वनिं चक्रुः ॥ ४६ ॥
हिन्दी — गहरा गुफाओंमें, पर्वतकी समतल जमीनोंमें प्रतिध्वनिसे अतिशय
दीर्घ किये गये और वेगसे प्राप्त होनेवाले धनुकी आवाजसे दिशाएँ विशीर्णका
-गई-सी होकर आवाज करने लगीं ॥ ४६ ॥

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
यहायसो वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ ४७ ॥
मल्लि० — विधूनयन्तीति । भूरुहां गहनानि वनानि । 'अटव्यरण्यं विपिनं
गहनं काननं वनम्' । इत्यमरः । विधूनयन्ती कम्पयन्ती तिरोहितानि छादितानि
उपान्तानि प्रान्तानि नभोऽन्तरिक्षं दिगन्तराणि च यया सा । गणमार्गणावलिः

Page 576Permalink
३२०किरातार्जुनीयम्

प्रमथशरसंहतिः । अनिलेन वायुना । ईरिता प्रेरिता । महीयसी वृष्टिरिव रवं वितने विस्तारयामास ॥ ४७ ॥

**हिन्दी—**वृक्षोंके समूहोंको कम्पित करती हुई, आकाश और दिशाओंके प्रान्तोंको आच्छादित करती हुई, प्रमथोंके बाणोंकी पंक्ति (कतार) वायुसे प्रेरित होकर मूसलधार वृष्टिकी तरह आवाज फैलाने लगी ॥ ४७ ॥

त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ ४८ ॥

त्रयीमिति । ऋतूनां त्रयी षण्मासान् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । अनिलाशिनो वायुभक्षकस्य । कृशस्येत्यर्थः । सतः तथापि रणाय रणं कर्तुं प्रहृष्यत उत्साहमानस्य । 'क्रियार्थोप—'त्यादिना चतुर्थी । जिष्णोरर्जुनस्य वपुषि पोषमुपचयं प्रयाति गच्छति सति शिथिलेन । प्रथममिति शेषः वर्मणा कवचेन विदुषेवानन्तरकरणीयं जानतेवेत्युत्प्रेक्षा । सत्वरं शीघ्रं घनत्वं दृढत्वम् । ईये प्राप्तम् । अन्यथानुप्रयोगादिति भावः । इण कर्मणि लिट् ॥ ४८ ॥

**हिन्दी—**तीन ऋतु अर्थात् छः मास तक वायुपान करते हुए कृश तो भी युद्ध करनेके लिए उत्साह करनेवाले अर्जुनके शरीरके वृद्धिको प्राप्त करनेपर पहले शिथिल कवच विद्वान्‌के समान मानों पीछे करने योग्य विषयको जानता हुआ दृढ़ (मजबूत) हो गया ॥ ४८ ॥

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्धुधूषतः ।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिविनिपातशंसिनी ॥ ४९ ॥

मल्लि०—पतत्स्विति । शस्त्रेषु रोदसी द्यावापृथिव्यौ । 'द्यावापृथिव्यौ रोदस्यौ' इत्यमरः । समन्ततो वितत्य पतत्सु सत्सु धनुर्धुधूषतः कम्पितुमिच्छतः । आस्फालयत इत्यर्थः । धूञः सन्नन्ताच्छतृप्रत्ययः । 'स्वरतिसूतिसूयतिधूतीदितो वे'ति विकल्पादिट्ठभावः । तस्यार्जुनस्य संबन्धिनी । भीषयत इति भीषणा । नन्द्यादित्वाल्ल्युः । विनिपातशंसिनी विनाशसूचिका दृष्टिरुक्तविशेषणा उल्केव बलेषु सरोषं यथा तथा पपात ॥ ४९ ॥

**हिन्दी—**आकाश और पृथिवीको चारोंओरसे व्याप्त कर शस्त्रोंके प्रहार करनेपर धनुको कम्पित करना चाहते हुए अर्जुनकी विनाशकी सूचना करनेवाली दृष्टि उल्काकी तरह किरातसेनाओंमें क्रोधके साथ पड़ गई ॥ ४९ ॥

चतुर्दशः सर्गः ३२१

Page 577Permalink

चतुर्दशः सर्गः ३२१

दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् ।
मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्नि्वेषुभिः ॥ ५० ॥

मल्लि०—दिश इति। क्षयकालः कल्पान्तकाल इव। 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः। दारुणो रौद्रो मुनिरर्जुनः। इषुभिर्बाणैः। दिशः समूहन्निव एकत्र समाहरन्निव। अन्यथा तासां पारदर्शनं न स्यादिति भावः। रवेः प्रभां विक्षिपन्निव अधः प्रक्षिपन्निव। अन्यथा सा कथं न दृश्यत इति भावः। तथा अनिलं वायुमाकुलयन्निवेषुभिरन्तराल आघूर्णयन्निव। तस्य तथा गतिविधातादिति भावः। सशैलां क्षितिं चलयन्निव कम्पयन्निव। तथा संक्षोभादिति भावः। चचाल गतिमकरोत्। सर्वत्र 'इव' शब्द उत्प्रेक्षायाम् ॥ ५० ॥

हिन्दी—प्रलय-समयके समान भयंकर तपस्वी (अर्जुन) बाणोंसे मानों दिशाओंको एक स्थानमें लाते हुए, मानों सूर्यके तेजको नीचे फेंकते हुए, वायुको बाणोंसे मानों घुमाते हुए, मानों पर्वतके साथ पृथिवीको कम्पित करते हुए घूमने लगे ॥ ५० ॥

विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः।
स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ ५१ ॥

मल्लि०—विमुक्तमिति। आशंसितः काङ्क्षितः शत्रुनिर्जयो यैस्तैः। अहमहमिकया शत्रुं विजिगीषद्भिरित्यर्थः। वनेचरैरेकावसरं समकालम्। अत्यन्तसंयोगे द्वितीया। विमुक्तं प्रयुक्तमनेकं बहु आयुधम्। जातावेकवचनम्। सोऽर्जुनः क्रियाफलमतिपातितोऽतिक्रान्तः काल इव। अतिक्रान्तकालस्य कर्मणो निष्फलत्वादिति भावः। अन्तरा मध्ये शरैर्निजघान ॥ ५१ ॥

हिन्दी—शत्रुको जीतनेकी आशा करते हुए किरातोंसे एक ही बार छोडे हुए अनेक हथियारोंको अर्जुनने क्रियाफलको अतिक्रान्त समयके समान बीचमें बाणोंसे प्रहार किया ॥ ५१ ॥

गतैः परेषामविभावनोयतां निवारयद्भिर्विपदं विदूरगैः।
भृशं बभूवोपचितो बृहत्फलै शरैरुपा तैरिव पाण्डुनन्दनः ॥ ५२ ॥

मल्लि०—गतैरिति। पाण्डुनन्दनोऽर्जुनः परेषामविभावनीयतां लघुप्रयोगात्, अन्यत्र—गूढप्रयोगाच्च अदृश्यतामप्रकाशयतां च गतैर्विपदममर्थं निवारयद्भिर्विदूरगैः दूरलक्ष्यगैः परमण्डलप्रविष्टैश्च बृहत्फलैरायताग्रैर्महालाभैश्च। 'फलं बाणाग्रलाभयोः'

२१ कि०

Page 578Permalink
३२२किरातार्जुनीयम्

इति शाश्वतः। शरैर्हयाद्यैः सामादिभिरिव भृशमुपचितः प्रवृद्धो बभूव। अत्र शब्दमात्रसाधर्म्यात् प्रकृताप्रकृतश्लेषः। उपमेति केचित् ॥ ५२ ॥

**हिन्दी—**अर्जुन शत्रुओंसे शीघ्रतासे छोड़े जानेसे नहीं जाने जाते हुए, अन्य गूढ प्रयोगसे अदृश्यताको प्राप्त अनर्थका निवारण करते हुए और दूर लक्ष्यको जानेवाले, और परमण्डलको प्रविष्ट, बड़े बाणाग्रवाले, और अधिक लाभवाले बाणोंसे, वा साम आदि उपायोंसे अतिशय समृद्ध हुए ॥ ५२ ॥

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादूत तिग्मतेजसः।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ ५३ ॥

**मल्लि०—**दिव इति। शरा दिवोऽन्तरिक्षात् पृथिव्या भूगोलाद्वा ककुभां मण्डलान्नु दिशां मण्डलाद्वा, उत तिग्मतेजसोऽर्कस्य बिम्बात् मण्डलाद्वा अथवा सकृद्विकृष्टात् कार्मुकाद्वा, मुनेः शरीराद्वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः। अन्यथा कथममी विश्वमन्तर्धाय शराः संभाव्यन्त इति भावः। अत्र सर्वतः शरसंपातदर्शनात् संभावनया पृथिव्यादीनामन्यतमस्यापादानत्वोत्प्रेक्षा। सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । 'नु' शब्दादयस्तु संशये ॥ ५३ ॥

**हिन्दी—**बाण आकाशसे, पृथिवीसे, दिशाओंके मण्डलसे, अथवा सूर्यमण्डलसे वा एकबार खींचे गये धनुसे अथवा मुनि (अर्जुन) के शरीरसे गिर रहे हैं ऐसा किरात सेना सोचने लगी ॥ ५३ ॥

गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जयादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ॥ ५४ ॥

**मल्लि०—**गणेति। मर्मविदारणैरपि। मर्मस्थानान्येव विदारयद्भिरपीत्यर्थः। गणाधिपानां परासुतां मरणम् अविधायाकृत्वा निर्गतैः। तेषाममर्त्यत्वादिति भावः। तस्य मुनेः पत्रिभिः शरैः कृतापराधैरिव स्वामिकार्याकरणात् सापराधैरिवेत्युत्प्रेक्षा। अधोमुखैः सद्भिः जवाद्धिमवानतीयेऽतिक्रमे। तत्र प्रविष्टमित्यर्थः। लज्जितस्य क्वचिन्निलयनमुचितमिति भावः ॥ ५४ ॥

**हिन्दी—**मर्मस्थानोंको ही विदीर्ण करते हुए भी प्रमथोंको मारे बिना निकले हुए तपस्वी अर्जुनके बाण अपराध किये हुएके समान अधोमुख होकर वेगपूर्वक हिमालय पर्वतको पार कर गये ॥ ५४ ॥

Page 579Permalink

चतुर्दशः सर्गः । ३२३

द्विषां क्षतीर्याः प्रथमे शिलीमुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुन्तुदत्वं महतां ह्यगोचरः ॥ ५५ ॥

मल्लि०—द्विषामिति । प्रथमे । प्रथममुक्ता इत्यर्थः । शिलीमुखा मुनिशरा द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीः प्रहारान् चक्रिरे तासु क्षतिषु पुनः पश्चात्प्रयुक्तैर्मुनेर्विशिखैर्न पेते न पतितम् । पिष्टपेषणदोषापातादिति भावः । तथा हि—अरुन्तुदत्वं पीडितपीडनं महतां सतामगोचरोऽविषयं हि । मन्तः पीडितपीडां न कुर्वन्तीत्यर्थः । 'न हन्याद्व्यसनप्राप्तं नार्तं नातिपरिक्षतम्' । इति निषेधस्मरणादिति भावः । अरुः व्रणं तुदतीति अरुन्तुदः । 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः । 'अरुर्द्विपदजन्तस्य मुम्' इति मुमागमः ॥ ५५ ॥

हिन्दी—पहले छोड़े गये तपस्वी ( अर्जुन ) के बाणोंसे शत्रुओंके शरीरके कवचोंको भेदन कर जो प्रहार किया । उनमें फिर उन्होंने प्रहार नहीं किया । क्योंकि बड़े लोगोंसे दूसरोंका मर्मस्पर्श करना नही देखा जाता है ॥ ५५ ॥

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुपापतेश्चमूम् ॥ ५६ ॥

मल्लि०—समुज्झितेति । यावन्तोऽरातयो यावदराति । 'यावदवधारणे' इत्यव्ययीभावः । यावदराति यथा तथा समुज्झिताऽरातिजनसंख्यया मुक्ता मुनिचापात्सह संभूय एव निर्यती निष्क्रामन्ती । तादृक् तस्य कौशलमिति भावः । यातेः शतरि ङीप् । मुनिबाणसंहतिरुमापतेश्चमूं हिमांशोः प्रभा पङ्कजावलिमिव संकोचं निनाय प्रापयामास । दुहादिपाठान्नेयर्द्विकर्मकः ॥ ५६ ॥

हिन्दी—जितने शत्रु हैं उतनी छोड़ी गई तपस्वी ( अर्जुन ) के धनुसे मिलकर निकलती हुई मुनिके बाणोंकी पङ्क्तिने शिवसेनाको जैसे चन्द्रमाकी कान्ति कमल-पङ्क्तिको संकुचित कर देती हैं उसी तरह संकुचित कर दिया ॥ ५६ ॥

अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरोधमुत्साहमिकास्य विद्विषः ॥ ५७ ॥

मल्लि०—अजिह्ममिति । अजिह्मं स्वरूपतो गत्या चाऽवक्रम् । अन्यत्र तु—जिह्मस्थानप्रवृत्तो न भवतीत्यजिह्मस्तम् । ओजिष्ठमोजस्विनं सारवत्तमं तेजिष्ठं च । उभयत्रापि 'ओजस्वि' शब्दादिष्ठन्न्तादिष्ठन् । 'विन्मतोर्लुक्' इति लुक् । टिलोपश्च । अमोघमव्यर्थम् अक्लमं निरन्तरव्यापारेऽप्यश्रान्तं बह्वीषु क्रियासु छेदनभेदनपात-

Page 580Permalink

३२४
किरातार्जुनीयम्

नादिकर्मसु पृथक् भेदेन नियोजितम् । कर्मानुगुण्येन विनियुक्तमित्यर्थः । अस्य मुनेः शरोघमुत्साहोत्सुक्यमिव । वीररसस्य स्थायिभूतं प्रयत्नविशेषमिवेत्यर्थः । सादिताः कंपिता विद्दिषः शत्रवः सादयितुं प्रतिकर्तुं न प्रसेहिरे न शेकुः । तस्योत्साहवदेव शरवर्गं दुर्धर्षमभूदिति भावः ॥ ५७ ॥

हिन्दी—अकुटिल अथवा कुटिल स्थानसे प्रवृत्त नहीं होनेवाला, अत्यन्त सारयुक्त वा अतिशय तेजसे सम्पन्न, सफल । अश्रान्त बहुत-सी क्रियाओं (छेदन, भेदन और पातन आदि) में अलग-अलग नियोजित तपस्वी अर्जुनके वाणसमूहके वीररसके स्थायीभाव उत्साहके समान पीड़ित शत्रुलोग प्रतीकार करनेमें समर्थ नहीं हुए ॥ ५७ ॥

शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रैषुमयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥ ५८ ॥

**मल्लि०—**शिवेति । अनेकदेशगा नानादेशस्थाः शिवध्वजिन्यो हरसेनाः। उग्रैषवो मयूखा इवेत्युपमितसमासः । अन्यत्र तु, उग्रैषव इव मयूखा इति मयूरव्यंसकादित्वात्समासः । तेषां मालाऽस्यास्तीति तं उग्रैषुमयूखमालिनम् । व्रीह्यादित्वादिनिः । एकदेशस्थमेकत्रावस्थितं तं मुनिमर्कं प्रजा इव युगपत् प्रतियोधं योधं योधं प्रति । 'अव्ययं विभक्ती—'त्यादिना प्रत्यर्थे वीप्सायामव्ययीभावः । अग्रतः स्फुरन्तं निदध्युर्ददृशुः । यथैकोऽर्क एकत्रैव स्थितोऽपि नानादेशस्थानामपि प्रतिपुरुषं ममैवाग्रे वर्तत इति युगपत् प्रतीयते तद्वद्वाणवर्षी मुनिरपि प्रतियोधं तथैव प्रत्यभादित्यर्थः ॥ ५८ ॥

**हिन्दी—**अनेक स्थानोंमें स्थित शिवजीकी सेनाएँ किरणोंके समान उग्र बाण अथवा उग्रवाणोंके समान किरणें उनकी पङ्क्तिवाले एक स्थानमें स्थित अर्जुनको सूर्यको प्रजाओंके समान एक-ही बार अपने सामने अवस्थित देखने लगीं । ५८ ।

मुनेः शरोघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ ५९ ॥

**मल्लि०—**मुनेरिति । प्रकोपात् अमर्षादिव विष्वक् समन्तात् आयताऽगच्छता, उग्ररंहसा तीव्रवेगेन मुनेः शरोघेणोक्तविशेषणेन । महानिलेन वात्यया निदाघजं ग्रीष्मोत्थं रज इव । विधूनितं व्याहतं तत् बलं प्रमथानां सैन्यं सङ्गिनीमनुबन्धिनीम् । अविच्छिन्नामिति यावत् । भ्रान्तिमनवस्थानम् । इयाय प्राप ॥ ५९ ॥

Page 581Permalink

चतुर्दशः सर्गः
३२९

**हिन्दी—**मानों कोपसे चारों ओरसे आते हुए तीव्र वेगवाले अर्जुनके बाण-समूहसे बवण्डरसे ग्रीष्मसे उत्पन्न धूलके समान ताडित होकर प्रमथोंका सैन्य लगातार भ्रान्ति (भ्रमण) को प्राप्त होने लगा ॥ ५९ ॥

अथ त्रिभिर्विशेषकमाह—
तपोबलेनैव विधाय भूयसोस्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ ६०॥

**मल्लि०—**तप इत्यादि । एष मुनिः । तपोबलेन तपःसामर्थ्येन भूयसीर्बह्वीः । अदृश्या स्तनूरात्मनः शरीराणि विधाय सृष्ट्वा, इषून्निरस्यति स्विन् क्षिपति किम् । अथवा, अमुष्यास्य मुनेः । मायया विहितं प्रतिहतं स्वं स्वकीयमिव आयुधं प्रतीपं प्रतिकूलम् । आगत्य । प्रत्यावृत्त्येत्यर्थः । नोऽस्माकं निहन्ति किमु । 'जासिनिप्रहणे-' त्यादि सूत्रेण कर्मणि षष्ठी । शेषविवक्षायां तु द्वितीया ॥ ६० ॥

**हिन्दी—**यह तपस्वी तपस्याके सामर्थ्य से बहुत से अदृश्य शरीरों को बना कर बाण छोड रहा है क्या ? अथवा इसकी मायासे नष्ट आयुध प्रतिकूल होकर (लोट कर ) हमलोगों पर प्रहार कर रहा है क्या ? ( प्रमथलोग ऐसा सोचने लगे ) ॥ ६० ॥

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ ६१ ॥

**मल्लि०—**हृता इति । यद्वा, अस्य मुनेर्गुणैः शान्त्यादिभिः हृता आकृष्टाः । वशीकृता इति यावत् । भयेन दरेण वा । भयाद्विभ्यत्य एवेत्यर्थः । देवतास्तिरोहिताः सत्य प्रहरन्ति स्विन् । तत्कुतः । अन्यथा, अस्य मुनेः । अमी सायका जलधेरुर्मय इव कथं नु संततमनेकेऽसङ्ख्या भवन्ति । एतच्चोद्यमन्यसपक्षसंभवेन न संभवतीत्यर्थः । [ 'एक' शब्दस्यैकशेषे कृते एक इति रूपमिति केचित् । 'नु' शब्दस्त्वन्यार्थे ] ॥ ६१ ॥

**हिन्दी—**अथवा इस तपस्वीके गुणोंसे आकृष्ट होकर वा तपस्वीके भयसे देवता लोग अदृश्य होकर प्रहार कर रहे हैं क्या ? नहीं तो इस तपस्वीके ये बाण समुद्रकी तरङ्गोंकी तरह लगातार कैसे असंख्य हो रहे हैं ? ॥ ६१ ॥ ( प्रमथलोग ऐसा सोचन लगे ) ।

Page 582Permalink

३२६ | किरातार्जुनीयम्

जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा।
तताप कीर्णा नृपसूनुमार्गणेरिति प्रतर्काकुलिता पताकिनी॥ ६२॥

मल्लि०-- जयेनेति। कच्चिदयं रणाज्जयेन विरमेत्। अस्मान्जित्वा कच्चि-
दयं युद्धमुपसंहरेदित्यर्थः। अपि चराचराय स्वस्ति भवेत् कच्चित्। अपि स्थावर-
जङ्गमं जगन्न विनश्येदित्यर्थः। 'अपि' शब्दः संभावनायाम्। प्रार्थनायां लिङ्।
इति प्रतर्काकुलिता पूर्वोक्ता ये प्रतर्कास्तैः आकुलिता विह्वला। अत्र सहेतुकं
विशेषमाह— नृपसूनुमार्गणेरर्जुनबाणैः कीर्णा विद्धा पताकिनी सेना। किरातपते-
रिति शेषः। तताप तापं प्राप॥ ६२॥

हिन्दी— यह (तपस्वी) जयलाभ करके युद्धसे विरत होगा क्या? स्थावर
और जङ्गम प्राणियोंका कल्याण भी होगा क्या? इस प्रकारके तर्कसे आकुल होकर
अर्जुनके बाणोंसे विद्ध प्रमथोंकी सेना सन्तप्त होने लगी॥ ६२॥

अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना॥ ६३॥

मल्लि०— अमर्षिणेति। अमर्षिणा क्रोधवता क्षमाश्रयं शान्तिसाध्यं कृत्यमिव।
क्षमासाध्यं हि कृत्यं सामर्षैनिरस्यते, तच्च निरस्तं न शोभते। मदोद्धतेन पुंसा हितं
प्रियं वचो निरस्तं तिरस्कृतमिव। यथा बलीयसा बलवत्तरेण विधिना दैवेन
निरस्तं पौरुषमिव। बलीयसा दैवेन प्रतिहतपुरुषव्यापारस्य निष्फलत्वादिति
भावः। तथा जिष्णुनाऽर्जुनेन निरस्तं क्षिप्तं बलं किरातसैन्यं न रराज। मालो-
पमा॥ ६३॥

हिन्दी— क्रोधी पुरुषसे शान्तिसे सिद्ध होने वाले कार्यके समान, मदसे उद्धत
पुरुषसे तिरस्कृत हित और प्रियवचनके समान, अधिक बलसे युक्त भाग्यसे प्रतिहत
पुरुषार्थके समान जयशील अर्जुनसे प्रतिहत होकर प्रमथसेना शोभित नहीं हुई॥ ६३॥

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे॥ ६४॥

मल्लि०— प्रतिदिशमिति। प्लवगानामधिपोऽधीशो लक्ष्म यस्य तेन वानर-
चिह्नेन। 'कपिप्लवङ्गप्लवगे-'ति, 'चिह्नं लक्ष्म च लक्षणम्' इति चामरः।
अर्जुनेन विशिखसंहतितापितमूर्तिभिरिति। विशिखा बाणास्तेषां संहतयः समूहाः।

Page 583Permalink

चतुर्दशः सर्गः [३२७]

• 'स्त्रिया तु संहतिर्वृन्दम्' इत्यमरः। तामिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथामूर्तैः। शरनिकरकर्तितकलेवरैरित्यर्थः। शिवबलैः प्रमथसैन्यैः कर्तृभिः, रविकरेण ग्लपितैः सूर्यकिरणशोषितैर्वारिभिरुदकैरिव, प्रतिदिशं दिक्षु परिमण्डलता परितश्चक्राकारमण्डलेतेति यावत्। दधेऽधारि प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः। धाञः कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः—'द्रुतविलम्बितमाह नभौ भरौ'। इति लक्षणात् ॥ ६४ ॥

हिन्दी— कपिध्वज अर्जुनसे बाणसमूहसे सन्तप्तमूर्त्तिवाली प्रमथसेनाएं सूर्य-किरणोंसे सुखाये गये जलोंके समान प्रत्येक दिशाओंमें मण्डलाकार हो गई । ६४।


प्रविततशरजालच्छन्नविश्वान्तराले
विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्भीतभीता विहातुं
विषमनयनसेनापक्षपातं विषेहे ॥ ६५ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।

मल्लि०— प्रविततेति। प्रविततानि विस्तीर्णानि यानि शरजालानि तैः छन्नमाच्छादितं विश्वान्तरालं येन तस्मिञ्छरसमूहपूरितब्रह्माण्डोदरे पाण्डुसूनौ अत एव आविर्मण्डलमाविर्भूतमण्डलं धनुः। आविर्भूतं मण्डलं यस्य धनुष इति वृत्तौ भूतार्थस्यानुप्रवेशात् 'भूत' शब्दस्याप्रयोगः। विधुवति कम्पयत्यास्फालयति सति भीतभीतेव भीतप्रकारेव जयलक्ष्मीर्विजयश्रीः कथमपि केनचित्प्रकारेण। महता कष्टेन वा। विषमनयनसेनापक्षपातं शिवसैन्यानुरागं विहातुं त्यक्तुं विषेहे। शशाकेत्यर्थः। मालिनीवृत्तम्। लक्षणं तूक्तम् ॥ ६५ ॥

इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्दशः सर्गः समाप्तः ।

हिन्दी— विस्तृत बाणसमूहोंसे विश्वके अन्तरालको आच्छादित करनेवाले अर्जुनके मण्डलाकार किये गये धनुको कम्पित करनेपर डरी हुई-सी विजयलक्ष्मी किसी प्रकार अथवा बड़े कष्टसे शिवसेनाके अनुरागको छोड़नेको समर्थ हुई ॥ ६५॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।

Page 584Permalink

पञ्चदशः सर्गः

अथ भूतानि वार्त्रघ्नशरैस्त्रस्तस्त तत्रसुः ।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ॥ १ ॥

मल्लि०—अथेति । अथानन्तरम् । तत्र रणे भूतानि सर्वप्राणिनः । वृत्रं हतवानिति वृत्रहेन्द्रः । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । तस्यापत्यं पुमान् वार्त्रघ्नोऽर्जुनः । 'तस्यापत्यम्' इत्यण्प्रत्ययः । तस्य शरैस्त्रस्तत्रसमुद्विग्भूः । 'वा जृम्भमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । सा चमूश्च । इषवोऽस्यन्त एभिरितीष्वासा धनूंषि । 'धनुष्काण्डेऽस्त्रमिष्वासः' इति हेमचन्द्रः । 'अकर्तरि च कारके संज्ञायाम्' इति करणे घञ् । परित्यक्ता महान्त इष्वासा यया सा । परित्यक्तायुधेत्यर्थः । दिशो भेजे । पलायाञ्चक्र इत्यर्थः । अत्र भूतत्राससेनापलायनयोः समुच्चयकथनाद्द्विसद्विषयः क्रियासमुच्चयोऽलङ्कारः । 'गुणक्रियायौगपद्यं समुच्चयः' इति सामान्यलक्षणम् । तस्य यमकेन संसृष्टिः ॥ १ ॥

हिन्दी—तदनन्तर उस युद्धमें समस्त प्राणी अर्जुनके बाणोंसे त्रस्त हो गये, ह प्रमथसेना भी आयुधोंका परित्याग कर दशों दिशाओमे भाग गई ॥ १ ॥

अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥ २ ॥

मल्लि०—अपश्यद्भिरिति । गणैः प्रमथैः । ईशानं स्वामिनं शिवम् । पुरोवर्तिनमिति भावः । अपश्यद्भिरिव रणान्निववृते निवृतम् । भावे लिट् । तथा हि—कृच्छ्रेषु आपत्सु संभ्रमेण साध्वसेन ज्वलितं तप्तम् । 'संभ्रमः साध्वसेऽपि स्यात्' इति विश्वः । मनो मुह्यत्येव । अतः पुरोवर्तिनोऽप्यदर्शनमुपपद्यत इति भावः ॥ २ ॥

हिन्दी—प्रमथगण स्वामी शिवजीको न देखते हुए-से होकर युद्धसे निवृत्त हो गये, क्योंकि विपत्तियोंमें घबराहटसे सन्तप्त होकर मन मोहयुक्त हो जाता है ॥ २ ॥

खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्ध्वानरं नरम् ॥ ३ ॥

मल्लि०—खण्डितेति । खण्डिता ध्वस्ता आशंका जयाशा यस्यास्तया तेषां

Page 585Permalink

पञ्चदशः सर्गः ३२९

गणानां संवन्धिन्या तया । अतिसंनिकृष्टयेत्यर्थः । पराङ्मुखतया रणवैमुख्येन । पलायनेनेत्यर्थः । केतौ ध्वजे कृत आरोपित उच्चैरून्नतो वानरो हनुमान् येन तं नरं पुरुषम् । कपिध्वजमित्यर्थः । कृपा करुणा । आविवेश । तदीयदुर्दशां दृष्ट्वा स कृपाविष्टोऽभूदित्यर्थः । यमकालङ्कारः ॥ ३ ॥

हिन्दी—विजयकी आशासे रहित उन प्रमथोंके पलायनसे कपिध्वज अर्जुन दयासे युक्त हो गये ॥ ३ ॥

आस्थामलम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ४ ॥

मल्लि०—आस्थामिति । आस्थां यत्नमालम्ब्य । 'आस्था त्वालम्बनास्थान-यत्नापेक्षासु कथ्यते' इति विश्वः । वशं नीतेषु क्षुद्रेषु अरातिषु शत्रु षु विषयेऽनुकम्पया कृपया महतां वीराणां माहात्म्यं महानुभावत्वं व्यक्ति स्फुटताम् । आयाति प्राप्नोति । स्वपौरुषनिर्जितेष्वरतिष्वपि करुणा भूषणमेव महतामिति भावः ॥ ४ ॥

हिन्दी—प्रयत्नका अवलम्बन कर क्षुद्र शत्रुओंके वशवर्ती होने पर वीर पुरुषोंकी महानुभावता दयासे व्यक्त हो जाती है ॥ ४ ॥

स सासिः सासुसूः सासो येयायेयाययाययः ।
ललो लीलां ललोऽलोलः शशोशशिशुशोः शशन् ॥ ५ ॥
( एकाक्षरपदः )

मल्लि०—स सासिरिति । सहासिना वर्तमानः सासिः सखड्गः असून् सुवन्ति प्रेरयन्तीत्यसुवो बाणाः । 'षू प्रेरणे' इति धातोः 'सत्सूद्विषे-'त्यादिना क्विप् । असुसूभिः सह वर्तत इति सासुसूः सबाणः । अस्यन्ते क्षिप्यन्ते शरा अनेनेत्यासो धनुः । 'अकर्तरि च कारके संज्ञायाम्' इति घञ् । आसेन सह वर्तत इति सासः सचापः । सर्वत्र 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । येया यातव्या यानसाध्याः अयेया अयातव्या यानं विनैव साध्याः । 'अचो यत्' इति यत्प्रत्ययः । येयाश्च अयेयाश्च येयायेयाः, तेषां द्वयानामाये स्वर्णगजादिलाभे याति येयायेयाययः । अयं शुभावहर्दैवं यातोत्यर्थः । येयायेयाययश्चासौ अययश्चेति येयायेयाययाययः । याधातो-रुभयत्रापि 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । लतो ललति विलसतीति ललः । 'लल विलासे' पचाद्यच् । अलोलोऽचपलः । शशिन ईशः शिवस्तस्य शिशुः स्कन्द-स्तं शृणाति हिनस्तीति शशीशशिशुशोः । क्विप् । शशन् प्लुतगति कुर्वन् । 'शश

Page 586Permalink
३३०किरातार्जुनीयम्

प्लुतगतौ' इति धातोः शतृप्रत्ययः। सोऽर्जुनो लीलां शोभां ललौ प्राप। 'ला आदाने' कर्तरि लिट् ॥ ५ ॥

**हिन्दी—**साऽसिः = असि (तलवार) को लिये हुए, साऽसुसूः = असु (प्राण)-को प्रेरणा करनेवाले अर्थात् बाण उसको लिये हुए, साऽसः = आस = बाणोंको छोड़नेवाला धनु, उससे युक्त, येयायेयायनायायथः = अर्थात् येयाः (यानसे साध्य) अयेयाः (यानके बिना साध्य), येयाऽयेयानम् (यान साध्य और अयानसाध्य) इनके आये (सुवर्ण और गज आदिके लाभमे) याति (जो प्राप्त होता है), अयम् (शुभकारक भाग्य) को जो याति (प्राप्त करता है), इस कारणसे ललः (शोभित होनेवाला), अलोलः (जो लोल अर्थात् चपल नहीं है) शशीशः = शशी (चन्द्रमा) उनके ईश (स्वामी) अर्थात् शिवजी, उनके शिशु (बालक अर्थात् स्कन्द), उनका ताडनकरनेवाले शशन् = प्लुतगति करते हुए सः = अर्जुन लीलां (शोभा) को ललौ = प्राप्त हुए ॥ ५ ॥

**हिन्दी—**हाथमें तलवार, बाण और धनुषको लिये हुए और यानसाध्य और अयानसाध्य दोनों प्रकारके सुवर्ण और हाथी आदिके लाभमें प्राप्त होनेवाले शुभदायक भाग्यको प्राप्त करनेवाले शोभायुक्त चञ्चल न होकर शिवपुत्र स्कन्दको पीडित करते हुए प्लुत गतिवाले होकर अर्जुन शोभित हुए ॥ ५ ॥

यह "एकाक्षर पद्य" नामका चित्रकाव्य है।

त्रासजिह्मं यतश्चैतान् मन्दमेवान्वियाय सः।
नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः॥ ६ ॥

**मल्लि०—**त्रासेति। सोऽर्जुनः। त्रासजिह्मं भयविलम्बं यथा तथा यतो गच्छतः। पलायमानानित्यर्थः। एतान् गणान् मन्दमेव। अन्वियायानुजगाम। तथा हि—महौजसो महानुभावा भग्नानतिपीडयितुं नेच्छन्ति ॥ ६ ॥

**हिन्दी—**अर्जुनने भयसे कुटिल होकर जाते हुए (भागते हुए) इन गणों का मन्दगतिसे अनुगमन किया, क्योंकि महानुभावलोग भागे हुएको ज्यादा पीडित करना नहीं चाहते हैं ॥ ६ ॥

अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना।
सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा॥ ७ ॥
(निरोष्ठ्यम्)

पञ्चदशः सर्गः ३३१

Page 587Permalink

पञ्चदशः सर्गः ३३१

मल्लि०--अयेति । अथाग्रे । बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्समय-
मानेन साचिस्थिततेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः'
इत्यमरः । स्थिरकीर्तिना । स्वयमभङ्ग्त्वादिति भावः । किंचिदीषद् बायस्तं
खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गादीपरिखिन्नचित्तेन सेनान्या स्कन्देन ।
'पार्वतीन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिरे
उक्ताः । ओष्ठ्यवर्णाभावान्निरोष्ठ्यमेतत् ॥ ७ ॥

हिन्दी—अनन्तर सेनाओंके सामने हँसते हुए उनको रोकनेके लिए तिरछे
होकर रहे हुए स्थिर कीर्तिवाले और कुछ खिन्न चित्तवाले होकर सेनापति
कार्तिकेय उन सैनिकोंको कहने लगे । यह निरोष्ठ्य नामक चित्रकाव्य है, इसमें
ओष्ठस्थानीय वर्ण नहीं हैं ॥ ७ ॥

अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह--

मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणेरिव किं यशः ॥ ८ ॥
( पादान्तादियमकम् )

मल्लि०--मा विहासिष्टेत्यादि । रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे
तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समिदाजिरिमियुधः' इत्यमरः ।
समे रन्तव्यसंयती येषां ते समरन्तव्यसंयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् ।
यूयं समरं संग्राम मा विहासिष्ट न त्यजत । जहातेर्भाङि लुङ् । मध्यमबहुवचनम् ।
क्षुण्णाः पराजिता असुरगणा यैस्तैः । भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यै-
रिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ८।

हिन्दी-रमण और युद्धको समान समझनेवाले हे प्रमथो ! तुमलोग
संग्रामको मत छोड़ो । दैत्यगणोंको जीतनेवाले तुमलोग गणोंसे इतर ( भिन्न )के
समान होकर अपने यशको क्यों नष्ट कर रहे हो ? । यह 'पादान्तादियमक'
नामका चित्रकाव्य है ॥ ८ ॥

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः ।
अमो वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ ९ ॥

मल्लि०--विवस्वदिति । विवस्वदंशुसंश्लेषणे सूर्यकिरणसंपर्केण द्विगुणी-
कृतानि उत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थम् उद्गूर्णा उद्यताः ।

Page 588Permalink

३३२ किरातार्जुनीयम्

'गुरी उद्यमने' इति धातोः कर्मणि क्तः। वो युष्माकम्। अमो महासयः सङ्गा हसन्तीवेत्युत्प्रेक्षा। किं पलायमानानां खड्गैरिति हासः ॥ ९ ॥

हिन्दी—सूर्यकी किरणोंके सम्पर्कसे द्विगुण तेजवाला व्यर्थ ही उठाया गया तुमलोगोंका यह विशाल खड्ग मानों उपहास कर रहा है ॥ ९ ॥

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम्।
वाणैर्वाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १० ॥
[ पादादियमकम् ]

मल्लि०—वन इति। वनसदां वनेचराणाम्। अवने रक्षके, वने मार्गं मृगसंबन्धिनं मार्गं पन्थानम्। उपेयुषाम्। पलायमानामित्यर्थः। युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः। 'वण संशब्देने' इति धातोरर्घम्। ततः 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः। यमकत्वाद् बवयोरभेदः। उक्तं च—'रलयोर्डलयोस्तद्वज्जशययोर्बवयोरपि। सविन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम्।' इति। वाणैः शरैः समासक्तं समासङ्गितम् अशं दुःखं तत् केन शाम्यतीति शङ्के। केनोपायेन शाम्येदिति विचारयामीत्यर्थः ॥ १० ॥

हिन्दी—वनचरोंके रक्षक वनमें रास्ते रास्तेमें प्राप्त होनेवाले (भागते हुए) तुमलोगोंके ध्वनियुक्त बाणोंसे सम्बद्ध दुःख किस उपायसे शान्त होगा ? मैं ऐसी आशङ्का कर रहा हूँ। यह 'पादादियमक' नामक चित्रकाव्यका उदाहरण है। १०।

पतितोत्तुङ्गमाहात्म्यैः संहतायतकीर्तिभिः।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ ११ ॥

मल्लि०—पातितेति। पातितं भ्रंशितम् उत्तुङ्गमहात्म्यमुन्नतभावा यैस्तैः संहता आहृता आयता विस्तुताः कीर्तयो यैस्तैः। युष्माभिरिति शेषः। कां गुर्वीमापदं हन्तुम्। न कांचिदपीत्यर्थः। आवृत्तिर्युद्धाद्विनिवृत्तिः। सैव साहसं कृतम्। अतः पापादन्यत्र किंचित्फलमस्तीति भावः। तदुक्तं मनुना—'यस्तु भीत परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किचित्तत्सर्वं प्रतिपद्यते॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति ॥ ११ ॥

हिन्दी—उन्नत महत्त्वको भ्रष्ट करनेवाले, विस्तृत कीतिका संहार करनेवाले तुमलोगोंने कौन-सी बड़ी आपत्तिको नाश करनेके लिए युद्धसे भागने का साहस कर लिया है ? ॥ ११ ॥

Page 589Permalink

पञ्चदशः सर्गः ३३३

नासुरोऽयं, न वा नागो घरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १२ ॥

( गोमूत्रिक बन्ध )

मल्लि०— नेति । वि.च, अयमसुरो दैत्यो न । नागो नागराजो वा पन्नगश्च न । घर इव संस्था यस्य स घरसंस्थः पर्वताकारः । 'अहार्य्यघरपर्वताः' इत्यमरः । 'संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किंतु अयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः । महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नरा' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः—'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ।' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ १२ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) दैत्य नहीं है, न नाग है, न पर्वताकार राक्षस है, किन्तु यह सुखसाध्य और महान् उत्साहसे युक्त भूतलमें रहनेवाला रजोगुणी पुरुष है ॥ १२ ॥

मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १३ ॥

मल्लि०— मन्दमिति । एष मुनिर्घृणया कृपया । इषुं लतां शाखामिव मन्दमस्यन् क्षिपन् वो युष्मान् पशूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः ॥ १३ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) कृपासे शाखाकी तरह बाणको छोड़ता हुआ तुमलोगोंको पशुओंकी तरह अनादरपूर्वक जघन स्थानोंमें प्रहार कर रहा है, ( इससे ज्यादा कष्ट क्या है ? ) यह 'गोमूत्रिका बन्ध' नामक चित्रकाव्यका उदाहरण है ॥ १३ ॥

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥

( एकाक्षरः । )