मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
१५९ मीमांसादर्शनम् [ सू०
एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते,
मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् ।
प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः
पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था
व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां
प्रामाण्यम् ॥ ७ ॥
भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते
सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा-
वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि-
दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः ।
यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि
हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट-
प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा-
ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः ।
परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका
इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया
प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान-
बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत-
दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च
कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया
तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् ।
एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य-
स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि
योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि-
रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद-
नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः
किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति -
तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव
हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि
पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते
कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन
इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-
७ ] प्रथमाध्याये तृतीयपादः ३५७
कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे
फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न
तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या-
नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं
जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति,
तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः,
तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना-
दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः ।
विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम-
यति—तस्मादिति ॥ ७ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु-
पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच-
नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् ।
अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते ।
तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७
विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य
यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क-
प्रमाणत्वं निश्चीयते ।
यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते ।
अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८
न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते,
यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत ।
अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते ।
विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९
इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः ।
पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९०
ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति ।
उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता ।
बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१
प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति ।
तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः ।
प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२
३५८ मीमांसादर्शनम् [ सू०
येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् ।
न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३
पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् ।
न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४
नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति ।
आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५
न च प्रमेयदौर्बल्यबलीयस्त्वनिबन्धनम् ।
प्राप्तं स्मृतिप्रमाणत्वं प्रमाणस्थेन बाध्यते ॥ २९६
न च प्रमेयदौर्बल्ये सत्यपि श्रुतिबाधनम् ।
तावता मन्दतेजस्त्वात्स्मृतिस्तां नैव बाधते ॥ २९७
एतदेव श्रुतेः पश्चाद् बहु यत्र स्मृतिर्वृथा ।
महास्मृत्याऽपि या काचिन्न शक्या बाधितुं श्रुतिः ॥ २९८
युगपत्प्राप्तिहेतुश्च विरोधस्तुल्यकार्ययोः ।
इह तु द्वयमप्येतन्नास्ति तेनाविरुद्धता ॥ २९९
कालेयत्ताक्रमाणां हि सर्वान्ते प्राप्तिरिष्यते ।
सुजघन्यप्रमाणोऽपि पदार्थः पूर्वमश्नुते ॥ ३००
प्राप्तेषु हि पदार्थेषु क्रमः पश्चादपेक्षते ।
यदा प्राप्तेष्वसौ क्लृप्तः केन पश्चाद्विरुध्यते ॥ ३०१
परिमाणमपि त्वार्थमविस्मरणसिद्धये ।
स्वयमालोच्यते प्राज्ञैः स्मार्तैः सह तदिष्यते ॥ ३०२
न केनचित्प्रमाणेण पदार्थेयत्ता परिच्छिद्यते । तत्र यदि तेन विनाऽन्ये
समस्तपदार्थस्मृतिहेतवो न स्युः, तत एतदप्येकं कारणमिति परिमाणमपि
स्थाप्येत । तस्यामपि त्ववस्थायां यथा श्रौतमात्रपरिमाणमसमाप्य, समाख्यापर्यन्त-
प्रापितपदार्थगतपरिमाणावधारणमाश्रीयते, तथा स्मृत्याचारपर्यन्तावगतपरि-
माणमाश्रयिष्यत इति निर्दोषम् ।
कालस्याङ्गत्त्वोपपादनम्
कालोऽपि च प्रयोगाङ्गं सर्वान्ते सोऽपि गृह्यते ।
स्मार्तैः सह ससाहित्यमाशुत्वं वा प्रपत्स्यते ॥ ३०३
कालो ह्ययं प्रधानस्य सर्वाङ्गसहितस्य यः ।
अङ्गैरविप्रकृष्टत्वमीदृशस्यैव चोद्यते ॥ ३०४
७ ] प्रथमाध्याये तृतीयपादः ३५९
तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि
नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते ।
विरोधो नास्तीतिकथनं
यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना ।
अपि च—
शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता ।
सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम् ॥ ३०५
अतदङ्गेन हि तुल्यकक्ष्येण व्यवधानं भवति, न सर्वपदार्थेन ।
वेदं कृत्वा यदा वेदिमकृत्वाऽऽचामति क्षुते ।
वेदिमेव करोतीति स वक्तुं शक्यते तदा ॥ ३०६
वेदिरेव ह्यनाचम्य कुर्वतो विगुणी भवेत् ।
तामेव सगुणां कर्तुं शुद्ध्यै न व्यवधास्यते ॥ ३०७
इममेवार्थमभिप्रेत्य भाष्यकारेणोक्तं न चैवंजातीयका अर्थाः पदार्थानां व्यव-
धातारो भवन्तीति । इतरथा ह्यङ्गप्रधानार्थत्वेनाश्रीयमाणे शून्यहृदयवचन-
मेवैतत्स्यात् ।
तस्मादाचमनादीनां क्रतुभिः संग्रहे सति ।
पश्चात्प्राप्तक्रमेयत्ताकालशास्त्रविरोधिता ॥ ३०८
भाष्यकारोक्तोदाहरणाक्षेपः
नन्विदं यज्ञोपवीतमुदाहर्तव्यम् । दर्शपूर्णमासदिषु ‘उपव्ययते देवलक्ष्ममेव
तत्कुरुते (२-५-११) इति क्रत्वङ्गप्रत्यक्षविधानात् । तथा काठके चानारभ्यवाद-
विधिना सर्वयज्ञगतयजनयाजनसम्बन्धः, अध्यापनाध्ययनसम्बन्धश्च श्रूयते । प्रसृतेन
वै यज्ञेन देवा स्वर्गं लोकमायन्नप्रसृतेनासुरानपराभावयन् । प्रसृतो ह वै
यज्ञोपवीतिनो यज्ञोऽप्रसृतोऽनुपवीतिनो यद्वै किं च ब्राह्मणो यज्ञोपवीत्यधीते
यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा यज्ञस्य प्रसृत्या
२-२—इति’
तथाऽऽचमनविधिरपि ‘दक्षिणत उपवीयोपविश्य हस्ताववनिज्य त्रिराचम्य,
द्विः परिमृज्य, दर्भाणां महदुपस्तीर्योपस्थं कृत्वा, प्राङ्मुख उपविश्य, स्वाध्यायम्-
धीयीत’ इति । यद्यपि ब्रह्मयज्ञप्रकरणे श्रूयते तथाऽपि वेदोच्चारणसंबन्धात्तद-
ङ्गत्वेनापि तावज्जायमानं सर्वयज्ञानां मन्त्रवत्प्रयोगित्वात्तदङ्गं भवति । तथा
च “न सोमेनोच्छिष्टा भवन्ति” इति प्राप्ताचमनप्रतिषेधार्थमेवावधार्यते ।
सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
३६० मीमांसादर्शनम् [ सू०
दक्षिणाचारत्वं तु—
यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना ।
तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९
“यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये
देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्-
कायोग्यमित्यनुदाहरणानि । तस्मान्नैव तदधिकरणान्तरम् ।
वेदाविरुद्धशाक्यादिवचसामप्रामाण्यनिरूपणम् ।
सूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
वेदविहितं न बाधते, शिष्टान्वा वेदविदो न कोपयति । विहाराराममण्डलकरण-
वैराग्य-ध्यानाभ्यासाऽहिंसा-सत्यवचन-दम-दान-दयादि, तद्बुद्धादिभाषितं प्रमाणे-
नाविरुद्धमिति चेत् ?
न । शास्त्रपरिमाणत्वात् । परिमितान्येव हि चतुर्दशाऽष्टादश वा विद्यास्थानानि
धर्मप्रमाणत्वेन शिष्टैः परिगृहीतानि, वेदोपवेदाङ्गोपाङ्गाष्टादशधर्मसंहिता-
पुराणशास्त्रशिक्षा-दण्डनीतिसंज्ञकानि, । न च तेषां मध्ये बौद्धार्हतादिग्रन्थाः
स्मृताः गृहीता वा ।
प्रतिकञ्चुकरूपेण पूर्वशास्त्रार्थगोचरम् ।
यदन्यत्क्रियते तस्य धर्मं प्रत्यप्रमाणता ॥ ३१०
तथा च प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयम्, अन्यकविकृतं वा
श्लोकम्, सूत्रं वोच्चार्य मानवादिप्रायश्चित्तं दद्यात् कश्चिदपि धर्मार्थं प्रतिपद्येत ।
वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ।
नित्यानामभिधेयानां मन्वन्तरयुगादिषु ॥ ३११
तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः ।
वचनानि प्रमाणानि नान्येषामिति निश्चयः ॥ ३१२
तथा च “मनोर्ऋचः सामिधेन्यो भवन्ति” इत्यस्य विधेर्वाक्यशेषे श्रूयते
“मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजतायै” इति प्रायश्चित्ताद्युपदेशवचनं
पापव्याधेर्भेषजम् ।
न वैतच्छ्रुतिसामान्यमात्रं नित्येऽपि संभवात् ।
यज्ञेऽध्वर्युँरिव ह्यस्ति मनुर्मन्वन्तरे सदा ॥३१३
प्रतिमन्वन्तरं चैवं १स्मृतिरन्या विधीयते ।
स्थिताश्च मनवो नित्यं कल्पे कल्पे चतुर्दश ॥ ३१४
१. श्रुतिरन्येति पाठः ।
७ ] प्रथमाध्याये तृतीयपादः ३६१
तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः ।
तदुक्तिज्ञापनाच्चेदो नानित्यऽतो भविष्यति ॥ ३१५
प्रतियज्ञं भवन्त्यन्ये सर्वदा षोडशर्त्विजः ।
आदिमत्त्वं च वेदस्य न तच्चरितबन्धनात् ॥ ३१६
उक्तं च—यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भाति युगादिषु ॥ इति । ३१७
इतिहासपुराणं च कृत्रिमत्वेन निश्चिते ।
यथाऽप्यकृत्रिमे वेदे तद्विद्यात्वेन संमतम् ॥ ३१८
एवं ह्युपनिषत्सूक्तम्—“ऋग्वेदं भगवोऽध्येमि, यजुर्वेदम्, सामवेदम्, अथर्ववेदं
चतुर्थमितिहासं पुराणं पञ्चमम्” (छा० उ० ७.१ इति) । तेन प्रतिकल्प-मन्वन्तर-
युगनियतनित्यऋषिनामाभिधेयकृत्रिमविद्यास्थानकारा ये वेदेऽपि मन्त्रार्थवादेषु
श्रूयन्ते, तत्प्रणीतान्येव विद्यास्थानानि धर्मज्ञानाङ्गत्वेन संमतानि । तथा च
ऋग्वेदादिविहितयज्ञाङ्गभ्रंशप्रायश्चित्तविशेषानभिधाय 'यज्ञविज्ञात इति ।' प्राय-
श्चित्तान्तरं विदधत् त्रैविद्यवृद्धस्मृतिविहितविनष्टोद्देशेनैव विदधातीति गम्यते ।
अन्यथा हि प्रत्यक्षवेदविहितं सर्वं विज्ञातमूलविशेषत्वादविज्ञातमूलत्वेनानभिधेय-
मेव स्यात् । यदि च स्मर्यमाणवेदमूलग्रन्थनिबन्धनानामविज्ञातवेदविशेषपूर्वकत्वे-
नापि स्थितानां प्रामाण्यं नाऽऽश्रीयेत, तथा सति नैवाविज्ञातमूलं किंचिद्यज्ञे क्रियत
इति, तद्विनष्टप्रायश्चित्तविधिर्नैवोपपद्येत ।
तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् ।
अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः ॥ ३१९
यथैवाऽन्यायविज्ञाताद्वेदाल्लेख्यादिपूर्वकात् ।
शूद्रेणाधिगताद्वापि धर्मज्ञानं न संमतम् ॥ ३२०
तथाऽतिक्रान्तवेदोक्तमर्यादाव्यवहारिणाम् ।
संवादिष्वपि वाक्येषु नेष्यते धर्महेतुता ॥ ३२१
स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतवः ।
कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति ॥ ३२२
यथा कृतककर्पूरसुवर्णादिषु दीयते ।
यद्वीजं तदपि व्यक्तमग्राह्यत्वात्प्रलीयते ॥ ३२३
तेन कर्मानुरूप्यसामान्यतो दृष्टार्थापत्तिबलात्तदभिप्रायकल्पितधर्माभासमध्य-
पतितं सन्मूलमप्यहिंसादि श्वदृतिनिक्षिप्तक्षीरवदनुपयोग्यविश्रम्भणीयं च ।
तन्मात्रोपलब्धं भवतीत्यवश्यम्, यावत्परिगणितधर्मशास्त्रेभ्यो नोपलभ्यते, तावद-
ग्राह्यं भवति ।
३६२ मीमांसादर्शनम् [ सू०
यदा शास्त्रान्तरेणैव सोऽर्थः स्पष्टोऽवधार्यते ।
तदा तेनैव सिद्धत्वादितरस्यादनर्थकम् ॥ ३२४
तस्माद्यावत्परिगणितवेदादिशाख्यव्यतिरिक्तनिबन्धनं तद्धर्मप्रमाणत्वेन नापे-
क्षितव्यमिति ।
सदाचारप्रामाण्याधिकरणम् ।
यत्त्वेतत् । ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’, इति । सूत्रम् ।
अत्र सदाचारानुदाहृत्य त्रिवर्गसिद्ध्यर्थं विचार्यते । तद्विपरीतसंकीर्णव्यव-
हारिषु शिष्टेष्वपथ्यकारिवैद्यातुरवद्विस्रम्भणीयचरितत्वात्संभाव्यमानवेदमूलत्वाच्च
धर्मसंशयं दर्शयित्वा “धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यम्” इति पूर्वः पक्षः
क्वचिच्च “विरोधे त्वनपेक्ष्यम्” इत्येतन्न्यायानुसारेण । सदाचारेषु हि दृष्टो
धर्मव्यतिक्रमः, साहसं च महतां प्रजापतीन्द्रवसिष्ठविश्वामित्रयुधिष्ठिरकृष्णद्वैपायन-
भीष्मधृतराष्ट्रवासुदेवार्जुनप्रभृतीनां बहूनामद्यतनानां च । प्रजापतेस्तावत्प्रजापति-
रुषसमभ्यैत्स्वां दुहितरमित्यगम्यागमनरूपादधर्माचरणाद्धर्मव्यतिक्रमः । इन्द्र-
स्यापि तत्पदस्थस्य च नहुषस्य परदारानियोगाद्धर्मव्यतिक्रमः । तथा वसिष्ठस्य
पुत्रशोकार्तस्य जलप्रवेशात्मत्यागसाहसम् । विश्वामित्रस्य चाण्डालयाजनम् ।
वसिष्ठवत्पुरूरवसः प्रयोगः। कृष्णद्वैपायनस्य गृहीतनैष्ठिकब्रह्मचर्यस्य विचित्र-
वीर्यदारेष्वपत्योत्पादनप्रसङ्गः । भीष्मस्य च सर्वाश्रमधर्मव्यतिरेकेणावस्थानम् ।
अपत्नीकस्य च रामवत्क्रतुप्रयोगः । तथाऽन्धस्य धृतराष्ट्रस्येज्या पाण्डुवर्जितैर्ध-
नैरित्यनधिकृतक्रिया । तथा युधिष्ठिरस्य कनीयोऽर्जितभ्रातृजायापरिणयनमाचार्य-
ब्राह्मणवधार्थमनृतभाषणं च । वासुदेवार्जुनयोः प्रतिषिद्धमातुलदुहितृरुक्मिणी-
सुभद्रापरिणयनम्, उभौ मध्वासवक्षीबाविति सुरापानाचरणम् ।
अद्यतनानामाचाराक्षेपः
अद्यत्वेऽप्यहिच्छत्रमथुरानिवासिब्रााह्मणीनां सुरापानम् । केसर्यश्वाश्वतरखरो-
ष्ट्रोभयतोदद्वानप्रतिग्रहविक्रयव्यवहारभार्यापत्यमित्रसहभोजनाद्युदीच्यानाम् । मातृ-
लदुहितृद्वाहासान्दीस्थभोजनादीनि दाक्षिणात्यानाम् । मित्रस्वजनोच्छिष्टस्पृष्ट-
भोजनं सर्ववर्णपरस्परस्पृष्टताम्बूलादनतदवसानानाचमननिर्णेजकधौतगर्दभारूढ-
वस्त्रपरिधानब्रह्महत्यातिरिक्तमहापातककार्यपरिहरणादीन्युभयेषाम् । अतिस्थूलानि
प्रतिपुरुषजातिकुलावस्थितसूक्ष्मस्वधर्मव्यतिक्रमणानि त्वनन्तभेदानि सर्वत्र
विगानहेतुदर्शनानि च प्रायेणैव संभ्रन्तीति, नैवंजातीयकमिश्रसदाचारधर्मत्वा-
ध्यवसानसंभवः ।
किं च—के शिष्टा ये सदाचाराः सदाचाराश्च तत्कृताः ।
इतीतरेतराधीननिर्णयत्वादनिर्णयः ॥ ३२५
७ ] प्रथमाध्याये तृतीयपादः ३६३
आत्मतुष्टेः प्रामाण्याक्षेपः
ननु—सदाचारप्रमाणत्वं मन्वादिभिरपि स्मृतम् ।
आत्मतुष्टिः स्मृतान्यैस्तैर्धर्मे सा चानवस्थिता ॥ ३२६
यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयहीनक्रियानुष्ठायिनामात्मतुष्टिरपि
विचित्त्रैव भवति ।
तथा हि—कस्यचिज्जायते तुष्टिरशुभेऽपि हि कर्मणि ।
शाक्यस्येव कुहेतूक्तिर्वेदब्राह्मणदूषणे ॥ ३२७
तथा—पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः ।
तेभ्य एव हि यज्ञेभ्यः शाक्या क्रुध्यन्ति पीडिताः ॥ ३२८
तथा—शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः ।
स्वमातुलसुतां प्राप्य दाक्षिणात्यस्तु तुष्यति ॥ २२९
अन्ये तु सव्यलीकेन मनसा तन्न कुर्वते ।
ततश्चानवस्थितत्वाद्यथैवाऽऽत्मनस्तुष्टिरेव चेत्येतन्मनुवचनं कथमप्यन्यथा
नेतव्यम् । एवमाचारश्चैव साधूनामित्येतदपीति ।
स्वयमज्ञातमूलाश्च शिष्टाचारप्रमाणताम् ।
वदन्तोऽपि न शोभन्ते स्मृतिकारास्ततोऽधिकाः ॥ ३३०
स्मृतिकारवचनार्थो हि शिष्टैराचरितव्यः शिष्टत्वाय । अन्यथा हि तदनपेक्षाः
स्वातन्त्र्येण व्यवहरमाणा दुष्टा भवेयुः, न शिष्टाः ।
न च तेषां श्रुतिमूलं व्यवहारस्य दृश्यते ।
यदि च स्यात्परोक्षाऽपि स्मर्येतैव ह्यसौ ध्रुवम् ॥ ३३१
तस्मान्निर्मूलत्वादपेक्षाणि शिष्टाचरणानीति प्राप्ते ।
सिद्धान्तः
अभिधीयते—“अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ।”
दृष्टकारणहीनानि यानि कर्माणि साधुभिः ।
प्रयुक्तानि प्रतीयेरन्धर्मत्वेनेह तान्यपि ॥ ३३२
शरीरस्थितये यानि सुखार्थं वा प्रयुञ्जते ।
अर्थार्थं वा न तेष्वस्ति शिष्टानामेव धर्मधीः ॥ ३३३
धर्मत्वेन प्रपन्नानि शिष्टैर्यानि तु कानिचित् ।
वैदिकैः कर्तृसामान्यात्तेषां धर्मत्वमिष्यते ॥ ३३४
३६४ मीमांसादर्शनम् [ सू०
प्रदानानि जपो होमो मातृयज्ञादयस्तथा ।
शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५
कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः ।
प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६
अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया-
प्रमाणं न शास्त्रादृते किंचिदस्ति ।
स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः
प्रमाणमिति (आपस्तम्ब-धर्म-सूत्रम्), वेदाविरुद्धानामाचाराणां सामान्यतः
प्रामाण्यमनुमन्यन्ते । तथाऽनध्यायाधिकार ऊर्ध्वं भोजनादुत्सव इति देशनगरोत्सव-
प्रामाण्याश्रयणम् । वेदेऽपि च महाव्रते प्रेङ्खमारुह्य होता शंसतीत्येतद्वाक्यशेषे
श्रूयते । यदा वै प्रजा मह आविशन्ति, प्रेङ्खं तह्र्यारोहन्तीति । महःशब्द-
वाच्योत्सवप्रसिद्धिरनूदिता ।
यत्तु परिमितशास्त्रप्रमेयत्वादद्धर्माधर्मयोरिह च तदसंभवादित्युक्तम् । तद्वेद-
मूलत्वानुमानात्पूर्ववदेव प्रत्याख्येयम् । न च स्मृतिर्निर्मूला, विस्तरवचनानामपि
प्रपाठकमात्रेणोपसंहारात्, किमुत संक्षेपवचनस्य । शक्यं च स्मृत्यनुरूपमेव वेद-
वचनमनुमातुम् ।
तथा हि—शिष्टैराचर्यमाणानां सतां गोदोहनादिवत् ।
फलसंबन्धमप्राप्तं बोधयच्छास्त्रमर्थवत् ॥ ३३७
न हि तदेवैकं शास्त्रप्रमाणकम्, यस्य स्वरूपमपि तत एवावगन्तव्यम् । अनेका-
कारस्य हि प्रमेयस्य कश्चिदेवाऽऽकारः केनचित्प्रमाणेन् प्रमीयते । तत्र प्रत्य-
क्षाद्यवगतेऽप्याचारस्वरूपे दधिगोदोहनादिवत्फलसंबन्धः शास्त्रेणावगम्यते । यागा-
दिष्वपि च नैवं स्वरूपज्ञानेन शास्त्रमपेक्षितम्, फलसंबन्धमात्रस्यैवातीन्द्रियत्वेन
तदपेक्षितत्वात् । अतो न नामोपलक्षणमन्तरेण शास्त्रं प्रवृत्तमुपलभ्य शिष्टाः
प्रवृत्ताः सर्वकालं तु शिष्टव्यवहार-शास्त्रयोरवियोगाद् व्यवहारादेवोद्धृत्य केचि-
त्स्वर्गादिसाधनत्वेन नियम्यमानः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञा-
यन्ते । तेषां चाऽऽर्यावर्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षणं वेदेनापि सरस्वतीवि-
नशनप्लक्षप्रस्रवणादिवदुपात्तमिति शक्यमनुमातुम् ।
अन्योन्याश्रयत्वशङ्कानिरासौ
ननु शास्त्रार्थकारित्वाच्छिष्टत्वं गम्यते यदा ।
शिष्टत्वेन च शास्त्रोक्तिरित्यन्योन्याश्रयं भवेत् ॥ ३३८
नैव तेषां सदाचारनिमित्ता शिष्टता मता ।
साक्षाद्विहितकारित्वाच्छिष्टत्वे सति तद्वचः ॥ ३३९
७ ] प्रथमाध्याये तृतीयपादः ३६५
प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि
धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव।
तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः।
पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४०
तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः। स्मृति-
रप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः।
यत्तु हेत्वन्तरं दृष्ट्वा वेदमूलनिवारणम्।
प्रत्यक्षवेदमूलेऽपि तद् दृष्टैस्तदकारणम् ॥ ३४१
वेदेऽपि हि बहून्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्त इति, न तावता वेदमू-
लत्वाभावः।
यानि तु म्लेच्छादिसमानानि नियतानियताक्रियान्तराण्यर्थसुखसाधनकृषि-
सेवा-वाणिज्यादीनि मिष्टान्नपान-मृदुशयनासनरमणीयगृहोद्यानालेख्यगीतनृत्यगन्ध-
पुष्पादिकर्माणि प्रसिद्धानि, तेषु नैव कस्यचिद्धर्मत्वाशङ्काऽस्तीति न तत्सा-
मान्पतोदृष्टेनेतरनिराक्रियोपपत्तिः। केषांचिद्वा धर्मत्वाभ्युपगमान्न सर्वेषामेव
तत्प्रसङ्गः।
किं तु—देवब्राह्मणपूजादि यत्तेषामपि किंचन।
तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् ॥ ३४२
लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यते।
कश्चित्तु प्राणिसामान्यप्राप्तस्तैरपि संगतः ॥ ३४३
तत्र यः कार्यरूपेण शिष्टानेवानुवर्तते।
स एव केवलो धर्मो नेतरः प्राणिमात्रगः ॥ ३४४
आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम्
एतेन वैदिकानन्तधर्मधीसंस्कृतात्मनाम्।
आत्मतुष्टेः प्रमाणत्वं प्रसिद्धं धर्मशुद्धये ॥ ३४५
तथैव बहुकालाभ्यस्तवेदतदर्थज्ञानाहितसंस्काराणां वेदनियतमार्गानुसारि-
प्रतिभानां नोन्मार्गेण प्रतिभातं संभवतीत्याश्रित्योच्यते—“यदेव किंचनानूचा-
नोऽभ्यूहत्यार्षं तद्भवतीति”। वैदिकवासनाजनितत्वाद् वेद एव स भवति।
आत्मतुष्टेः प्रामाण्योपसंहारः
तथा हि-यथा रुमायां लवणाकरेषु मेरौ यथा वोज्ज्वलरुक्मभूमौ।
यज्जायते तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ॥ ३४६
१६६ मीमांसादर्शनम् [ सू०
एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविभिनिरूपितम् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ इति । ३४७
अनेकैर्दृष्टांन्तरैरात्मतुष्टेः प्रामाण्यसमर्थनम्,
बहुदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथंचिद्धर्मकरणरूपात्मतुष्टिरन्यत्र
संभवतीति, धर्मत्वेनाभ्यनुज्ञायते ।
यद्वा शिष्टात्मतुष्टीनां वचनादेव धर्मता ।
पुण्यकृद्ध्यानवत्तस्मादाचारेष्वपि सा तथा ॥ ३४८
तथा वा वरदानादौ देवताराधनोद्भवे ।
तद्वक्ष्यसि स मन्त्रस्ते विषघ्न इति मन्त्रिते ॥ ३४९
लोकः स्मरति तं मन्त्रं विषापहरणादिषु ।
तथा वा सर्पसिद्धान्ते नकुलो यां किलौषधिम् ॥ ३५०
दन्तैर्गृह्णाति तामाहुः समस्तविषहारिणीम् ।
यथा वा यां भुवं कश्चिदध्यावसति पुण्यकृत् ॥ २५१
तत्संपर्कपवित्रत्वात्सेव्यते पुण्यकारणम् ।
तथाऽऽचारात्मतुष्ट्यादिधर्म्मं धर्ममयात्मनाम् ॥३५२
वेदोक्तमिति निश्चित्य ग्राह्यं धर्मबुभुत्सुभिः ॥ ३५३ इति ।
पूर्वपक्षे उदाहृतानां क्रमेण परिहारवर्णनम्
यत्तु प्रजापतिरुषसमभ्यैत्स्वां दुहितरमहल्यायां मैत्रेय्यामिन्द्रो जार आसी-
दित्येवमादिदर्शनादितिहासदर्शनाच्च शिष्टाचारेषु धर्मातिक्रमं पश्यद्भिः शिष्टाचार-
प्रामाण्यं दुरध्यवसानमिति ।
तत्रोच्यते—
श्रुतिसामान्यमात्राद्वा न दोषोऽत्र भविष्यति ।
मनुष्यप्रतिषेधाद्वा तेजोबलवशेन वा ॥ ३५४
यथा वा न विरुद्धत्वं तथा तद्गमयिष्यति ॥ ३५५
प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्यते । स चारुणोदयवे-
लायामुषमुद्यन्नभ्येत्, सा तदागमादेवोपजायत इति, तद्दुहितृत्वेन व्यपदिश्यते ।
तस्यां चारुणकिरणाख्यबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचारः । एवं समस्ततेजाः
परमेश्वर्यनिमित्तेन्द्रशब्दवाच्यः सवितैवाऽहनि लीयमानतया रात्रेरहल्याशब्द-
वाच्यायाः क्षयात्मकजरणहेतुत्वाज्जीर्यत्यस्मादनेनैवोदितेनेत्यादित्य एवाहल्याजार
इत्युच्यते । न तु परस्त्रीव्यभिचारात् ।
७ ] प्रथमाध्याये तृतीयपादः ३६७
नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा-
चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा-
वासप्रभावलाभः ख्यात एव ।
वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् ।
तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६
यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु
काम-क्रोध-लोभ-मोह-शोकादिहेतुत्वेनोपलभ्यते, स यथाविधि-प्रतिषेधं वर्तिष्यते ।
ते । विश्वामित्रस्यापि यद्रागद्वेषपूर्वकमपि तपोबलारूढस्य चरितम्, तत् सर्वं बलवतः
पथ्यमित्यनेन न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तरकालं वा
पापविशुद्धिं प्रायश्चित्तैः प्रतिकुर्वाणस्य जीर्यत्यपि । मन्दतपसां गजेरिव महावट-
काष्ठादिभक्षणमात्मविनाशायैव स्यात् ।
द्वैपायनस्यापि, “गुरुनियोगादपतिरपत्यलिप्सुर्देवराद् गुरुप्रेरितादृतुमतीयात्”
इत्येवमागमान्मातृसंबन्धभ्रातृजायापुत्रजननं प्राक्कृत-पश्चात्करिष्यमाणतपोबलेन
नातिदुष्करम् । अन्योऽपि यस्तादृक्कृतपोबलो निर्वहेत् स कुर्यादेव ।
रामभीष्मयोस्तु स्नेहपितृभक्तिवशात् विद्यमानधर्ममात्रार्थदारयोरेवं साक्षाद्-
व्यवहितापत्यकृतपितृऋण्योपयोगसिद्धिः, हिरण्मयसीताकरणं लोकापवादभिया
त्यक्तसीतागतानृशंस्याभावशङ्कानिवृत्त्यर्थम् ।
भीष्मश्च— भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वे तेनैव पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ३५७
इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपितृनॄणत्वः केवलयज्ञार्थपत्नीसंबन्ध आसी-
दित्यर्थापत्त्यानुक्तमपि गम्यते ।
यो वा पिण्डं पितुः पाणौ विज्ञातेऽपि न दत्तवान् ।
शास्त्रातिक्रमाद्भीतो यजेतैकाक्यसौ कथम् ॥ ३५८
धृतराष्ट्रोऽपि व्यासानुग्रहादाश्चर्यपर्वणि पुत्रदर्शनवत्क्रतुकालेऽपि दृष्टवानेव ।
शापानुग्रहसमर्था महर्षयः श्रूयन्ते । तद्यथैव तद्वचनादसावन्धो जातो विज्ञायते,
तथा यज्ञानुष्ठानवचनात्तावति काले दृष्टवानित्यर्थापत्त्या सुज्ञानम् ।
यद्वा, “यजदेवपूजासंगति करणदानेषु” इति दानार्थ एवायं यजिर्भविष्यति ।
ऋतुफलसमानि च दानतपश्चरणादीन्यपि श्रूयन्ते । तत्कारणात्क्रतुक्रियोपचारः ।
या चोक्ता पाण्डुपुत्राणामेकपत्नीविरुद्धता ।
साऽपि द्वैपायनेनैव व्युत्पाद्य प्रतिपादिता ॥ ३५९
योवनस्थैव कृष्णा हि वेदिमध्यात्समुत्थिता ।
सा च श्रीः श्रीश्च भूयोभिर्भुज्यमाना न दुष्यति ॥ ३६०
१९८ मीमांसादर्शनम् [ सू०
अत एव चोक्तम्—
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः ।
महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति ।
न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन
कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं
प्रमाणभूतः सन्नेवं वदेत् ।
अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य एकत्वेनोपचरिता इति व्यव-
हारार्थपत्त्या गम्यते ।
यद्वा नार्जुनस्यैव केवलस्य भविष्यति ।
साधारणा प्रसिद्धिस्तु निश्छिद्रत्वाय दर्शिता ॥ ३६१
यथा युधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव रजस्वलावेषं सुपुत्रकस्य
धृतराष्ट्रस्यायश उत्पादयितुमात्मानं प्रख्यापयितुं द्रौपदी कृतवती, तथैव केवला-
र्जुनभार्याया एव सत्याः श्रीत्वं च जनेनाविदितं परस्परं संघाताविशयं च
भेदप्रयोगानवकाशार्थं दर्शयितुम्, साधारण्यप्रख्यापनमित्येवमादिविकल्पैः सुपरि-
हरत्वाद्रागलोभकृतव्यवहारस्य च शिष्टैरेव धर्मत्वेनापरिग्रहस्योक्तत्वादनुपालम्भः ।
तथा द्रोणवधाऽङ्गभूतानृतवादे ‘प्रायश्चित्तं कामकृतेऽप्येक’ इत्येवमन्तेऽप्यश्व-
मेधः प्रायश्चित्तत्वेन कृत एवेति, न तस्य सदाचारत्वाभ्युपगमः ।
यत्तु वासुदेवार्जुनयोर्मद्यपान-मातुलदुहितृपरिणयनं स्मृतिविरुद्धमुपन्यस्तम्,
तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः ।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत ॥ इति । ३६२
मधु-सीध्वोस्तु क्षत्रियवैश्ययोर्नैव प्रतिषेधः, केवलब्राह्मणविषयत्वात्, मद्यं
ब्राह्मणस्य’ इति वचनात् ।
यदप्येतत्—गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥ इति । ३६३
एतदपि ब्रह्मवादिशब्दस्य तच्छील-तद्धर्म-तत्साधुकारित्वनिमित्तत्वात्प्रवचना-
श्रयणेन ब्रूञ्वदत्योरेकार्थत्वात्प्रब्रूयाद् ब्राह्मणस्त्वेवामिति नियमाद्यस्यैव प्रवचनम्,
स एव तच्छीलः तद्धर्मः तत्साधुकारो वा भवति । तस्माद् ब्राह्मणा एव ब्रह्म-
वादिनः । तथा च मद्यसामान्यप्रतिषेधाऽङ्गनिन्दार्थवादेऽभिहितम् ।
अकार्यमन्यत्कुर्याद्धि ब्राह्मणो मदमोहितः ॥ इति ।
७ ] प्रथमाध्याये तृतीयपादः १६९
सुरानिषेधे उक्तस्यार्थस्य संक्षेपः
तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि-
भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव
स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य-
विरुद्धम् ।
लिङ्गोपन्यासः
तथा चान्यार्थदर्शनमभ्यनुज्ञानवचनम् । 'यन्माल्यमासीत्तत्पश्चात्पर्याहृत,
सुरा वै माल्यम्, ततो राजन्यमसजत, तस्माज्ज्वायाइच स्नुषा च श्वशुरश्च
सुरां पीत्वा विलपन्तश्चाऽऽसते । पाप्मा वै माल्यम् । तस्माद् ब्राह्मणः सुरां न
पिबेत्पाप्मना न संसृज्या इति, तदेतदेतल्लक्षत्क्षत्रियो ब्राह्मणं ब्रूयान्नैनं सुरा पीता
हिनस्ति, य एवं विद्वान्सुरां पिबति' इति । मधुसीधुविवक्षयैतत् ।
मातुलदुहितृपरिणयस्य समाधानम्
यत्तु मातुलदुहितृपरिणयनं तयोस्तन्मातृष्वस्त्रीयादिसम्बन्धव्यवधानेऽपि
भ्रात्रादिव्यवहारादविरुद्धम् । यद्यपि वासुदेवस्वसेति सुभद्रा ख्याता, तथाऽप्युत्पत्तौ
वलदेववासुदेवयोरेकानशायाश्च निजत्वान्वाख्यानान्मातृष्वस्त्रीया सुभद्रा तस्य
मातृपितृष्वस्त्रीया दुहिता वेति परिणयनाभ्यनुज्ञानद्विज्ञायते ।
वासुदेवाङ्गजाया च कौन्तेयस्य विरुध्यते ।
न तु व्यवेतसम्बन्धमभवे तद्विरुद्धता ॥ ३६४
येन ह्यन्यत्रैवमुक्तम्—
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥ ३६५
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति ।
स कथं सर्वलोकादर्शभूतः सन् विरुद्धमाचारं प्रवर्तयिष्यति । एतेन रुक्मिणी-
परिणयनं व्याख्यातम् ।
आधुनिकानामापरिहारोपपादनम्
यत्त्वद्यतनानामाहिच्छत्रकमाथुरब्राह्मणीनां सुरापानादि दाक्षिणात्यानां
मातुलदुहितृविवाहादि स्मृतिविरुद्धमुपन्यस्तम् ।
तत्र केचित्तावदाहुः । स्मृत्याचारयोरितरेतरनिरपेक्षवेदमूलत्वेन तुल्यबल-
त्वाद्द्विहितप्रतिषिद्धविकल्पानुष्ठानाश्रयणाददोष इति । तत्त वक्ष्यमाणबलाबल-
विभागादयुक्तम् ।
२४
३७० : मीमांसादर्शनम् [ सू०
अन्ये त्वेवमाहुः—
सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया ।
आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६
येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।
त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७
तथा मनुनाऽप्युक्तम्—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति ॥ ३६८
येषां तु यः पित्रादिभिरेवार्थो नाऽऽचरितः स्मृत्यन्तरप्रतिषिद्धश्च ते तं परि-
हरन्त्येव । अपरिहन्तो वा स्वजनादिभिः परिह्रियन्ते । ननु गौतमेनाऽऽम्नाय-
विरुद्धानामाचाराणामप्रमाण्यमुक्तम् ।
आह—
यदि वेदविरोधः स्यादिष्येतैवाप्रमाणता ।
स्मृतिराम्नायशब्देन न तु वेदवदुच्यते ॥ ३६९
न त्वेतदपि युक्तं स्मृतिग्रन्थेऽप्याम्नायशब्दप्रयोगात् । स्मार्तधर्माधिकारे हि
शङ्खलिखिताभ्यामुक्तम् 'आम्नायः स्मृतिधारकः' इति । ग्रन्थकारगतायाः स्मृते-
स्तत्कृतग्रन्थाम्नायः स्मृतिग्रन्थाध्यायिनां स्मृतिधारणार्थत्वेनोक्तः । ततश्च
मन्वादिवाक्यप्रतिषिद्धाचाराणां प्रामाण्यमशक्यमभ्युपगन्तुम् । आपस्तम्बवचनं तु
बौधायनेन स्मृतिविरुद्धदुष्टाचारोदाहरणान्येव प्रयच्छता निराकृतम् । दृष्टका-
मादिहेत्वन्तरदर्शनान्न विरुद्धाचाराणामापस्तम्बवचनस्य वा श्रुतिमूलत्वोपपत्तिः ।
आह केन वा ब्राह्मणीनां सुरापानं प्रतिषिद्धम् ?
उच्यते—तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ इत्यनेन
पुंलिंगस्य विवक्षा अस्मिन्न वेति विचारः
ननु पुंलिङ्गनिर्देशात्स्त्रीणां न प्रतिषिध्यते ।
सुरापानमतो नात्र स्मृत्याचारविरुद्धता ॥ ३७०
उच्यते—हननप्रतिषेधेऽपि भवेत्पुंस्त्वं विवक्षितम् ।
तथा पुंस्त्ववदेकत्वविवक्षाऽपि प्रसज्यते ॥ ३७१
अहत्वा कंचिदेकैकं ततश्च स्यात्कृतार्थता ।
एकेन च सुरापानेऽवर्जिते पूर्ववद्भवेत् ॥ ३७२
आह यत्तावदेकत्वविवक्षागतमुच्यते ।
प्रत्येकव्यक्तिसंबन्धाज्जातेर्वा तन्न दुष्यति ॥ ३७३
७ ] प्रथमाध्याये तृतीयपादः ३७१
एकैकस्या एव हि ब्राह्मणव्यक्तेर्यथाप्रसक्तवधपानयोः प्रतिषेधात् । विवक्ष्य-
माणमपि तावदनूद्यमानत्वादन्नक्रियाविशेषणं वा संभवति, किमुत यदा जातिगते-
कत्वानुवाद एवायं विज्ञायते । आह । हननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्य-
मानत्वात्सुरापाने च कर्तृत्वेनोपादीयमानत्वात्स्वर्गकामोदुम्बरीसमानार्थयजमान-
वत्तुल्यविवक्षाविवक्षयोरप्रसङ्गादुदाहरणवैषम्यम् ।
तथा हि—यो ब्राह्मण इति ह्यक्ते हननप्रतिषेधतः ।
ब्राह्मणे प्रतिषेधे वा लिङ्गं नान्यद्विधीयते ॥ ३७४
प्रतिषेधविधिपरो हि विधायकः शुद्धवधप्रतिषेधासंभवाद् ब्राह्मणजातिमात्र-
विशिष्टवधप्रतिषेधं विधाय निवृत्तव्यापारो यदि लिङ्गमपरं ब्राह्मणे वधे प्रतिषेधं
वा विदध्यात्, ततः प्रत्ययावृत्तिलक्षणवाक्यभेदप्रसङ्गः ।
विधिप्रतिषेधयोर्नामात्यन्तभेद इति वादिनां मतम्
येषां तु विधिप्रतिषेधौ नामात्यन्तभिन्नौ वेदवाक्यार्थी, तेषां प्रत्ययसम्बन्धानु-
गृहीतशक्तिरभावमात्रामिधानादभ्यधिकलब्धव्यापारो नञ्विध्यर्थमपि द्वेषार्थप्राप्तं
पूर्वोक्तन्यायविवक्षितब्राह्मणविशिष्टहननाविशिष्टं चानूदितं प्रतिषिध्य चरितार्थो न
लिङ्गमपरं ब्राह्मणवधविधिषु शक्नोत्यनावर्तमानः प्रतिषेद्धुमिति, श्रूयमाणमपि
लिङ्गप्रतिषेधं प्रत्यनुपयुज्यमानत्वादविवक्षितं भवति ।
मतभेदेन वाक्यार्थवर्णनम्
एषा ह्यत्र वचनव्यक्तिर्यत्—क्रोधादिवशेन ब्राह्मणं हन्यात्, ब्राह्मणो वा
हन्तव्यस्तन्नेति । विध्येकत्वपक्षे पुनरीदृशी वाक्ययोजना—यद ब्राह्मणहननं तन्न
कुर्यादिति, यो वा ब्राह्मणस्तं न हन्यादिति ब्राह्मणविशिष्टहननप्रतिषेधविधिः
शुद्धोदिदृष्टब्राह्मणविषयवधप्रतिषेधविधिर्वेति ।
सर्वथा ब्राह्मणोद्देशान्नेह मुच्यामहे वयम् ।
न चोद्दिष्टस्य शक्येते लिङ्गसंख्ये विवक्षितुम् ॥ ३७५
ब्राह्मणः सुरां न पिबेत्, न पेया ब्रह्मवादिभिरिति निमित्त-देश-काल-फल-
संस्कार्यार्नुपादेयपञ्चकव्यतिरेकादेकत्राऽऽख्यातप्रत्ययोपात्तगुणीभूतोपादीयमानसँ-
ख्यापरिच्छेद्यत्वयोग्यसाधनांशविशेषणत्वेनोपादानात्, इतरत्र च तृतीयाविभक्ति-
श्रुतिवचनं विवक्षितलिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् ।
अतश्चाप्रतिषिद्धत्वान्नैव स्त्रीणां विरुध्यते ।
सुरापानमहिच्छत्रब्राह्मण्यस्तेन कुर्वते ॥ ३७६
३७२ मीमांसादर्शनम् [ सू०
उद्देश्यविशेषणस्याविवक्षोपपादनम्
नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते ।
ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७
नोपादेयत्वमेवैकं कारणत्वेन संमतम् ।
विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८
अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते ।
तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९,
यदि हि ब्राह्मणः सुरां पिवेदित्ययमवान्तरवाक्यार्थः प्राक्प्रतिषेधसम्बन्धा-
द्विधिबुद्धिमवस्थापयेत् ततो गुणत्वोपादेयत्वविधिसमवायान्न ब्राह्मणपदे किंचिद-
विवक्षितं नाम स्यात् ।
यतस्तु रागमोहादेः सुरापानं प्रसज्यते ।
ब्राह्मणादेरतस्तस्मिन्न कश्चिद्विधिसंभवः ॥ ३८०
प्रतिषेधोपसंहारिमहावाक्यतिरस्कृता ।
नावान्तरविधेः शक्तिः प्रादुरस्ति कथंचन ॥ ३८१
तेनेहापि यत्सुरां ब्राह्मणः पिबेन्नेति वा वचनं व्यज्यते । यो ब्राह्मणः स
न सुरां पिबेदिति वा सुराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्या-
वृत्त्या ब्राह्मणोऽनुगृह्यत इति, नास्य पानं प्रतिषेधं वा प्रतिविधेयत्वोपपत्तिः ।
लोके चैतद्यथाप्राप्तं पानं स्त्रीपुंसकर्तृकम् ।
प्रतिषेधपरे वाक्ये तदवस्थमनूद्यते ॥ ३८२
न च भो ब्राह्मणः पिबेदित्यनूदितम् । स च पुमानिति विधिव्यापाराद्विना
लिङ्गविवक्षाऽत्रकल्पते ।
न चास्य लिङ्गसंबन्धः केवलः संनिधीयते ।
न पानप्रतिषेधाद्धि विधिरन्यत्र गच्छति ॥ ३८३
ततश्चोभयत्राप्यविवक्षितलिङ्गसंख्यत्वं सिद्धम् ।
नन्वेवं सति ब्राह्मणस्त्रीवधेऽपि पुंब्राह्मणवधवद् ब्रह्महत्याऽस्तीति, यदात्रेयीया-
मेव केवलायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते ।
उच्यते—ब्राह्मणस्त्रीवधे को वा ब्रह्महत्यां निषेधति ।
प्रायश्चित्तान्तरे तस्या स्त्रीत्वमात्रनिबन्धनम् ॥ ३८४
न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते, पुंवधेऽपि लघुतर-
प्रायश्चित्तविधिदर्शनेन ब्रह्महत्यादोषाभावप्रसङ्गात्, तस्मान्न वाचनिकप्रायश्चित्ता-
७ ] प्रथमाध्याये तृतीयपादः ३७३
ल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशङ्कितव्यम् । सुरापाने पुनः प्रायश्चित्त-
विशेषोऽपि न कश्चिदाम्नात इति, दूरादपाकृतत्वादस्त्येवास्य स्मृत्या सह
विरोधः । याऽपि चाऽऽपस्तम्बस्मृतिवचनात्तुल्यबलत्वाशङ्का भवेत् साऽपि ।
“तस्माद् ब्राह्मणः सुरां न पिबति” इत्येतेन प्रत्यक्षश्रुतिविधिना निराकृतेति नेवं-
विधाचारप्रामाण्यमाशङ्कितव्यम् ।
इति वार्त्तिकमतेन सदाचारप्रामाण्याधिकरणम्
अथ वा सदाचारप्रमाणत्वप्रतिपादनार्थं सूत्रद्वयेनाप्येतदेकमधिकरणं व्याख्या-
तव्यम् । इह यावन्ति कृष्णमृगसंचारगोपलक्षितार्यावर्त्तनिवासिचतुर्वर्ण्याचरणानि
तान्युदाहृत्य चिन्त्यते--
धर्मबुद्ध्या यदार्याणां चरित्रमुपलभ्यते ।
किं तथैव प्रमाणं तदथ वा निष्प्रमाणकम् ॥ ३८५ इति ।
कुतः संशयः ?
उच्यते—स्मृतिवत्कर्तृसामान्यात्प्रमाणत्वेन गम्यते ।
अनिबन्धनतायास्तु भवेदप्यप्रमाणकम् ॥ ३८६
ननु च स्मृतिकारैरेवैतत्प्रामाण्यमभ्युपगतं “तद्विदां च स्मृतिशीले”
“आचारश्चैव साधूनाम्” “यस्मिन्देशे य आचारः स सदाचार उच्यते” । अतश्च
तत्प्रामाण्यादेव सिद्धम् । न । मूलाभावाहेतुदर्शनातिरेकात् । शाखान्तरगतवेद-
वाक्यदर्शनमूलानि हि स्मरणोपनिबन्धनानि प्रमाणत्वेनाऽधिगतानि ।
ननु सदाचारदर्शनात्तन्मूलमात्रप्रवृत्तस्मरणानां मूलान्तरानुमानसभवः ।
यथैव च वयं तेषां द्रष्टारः केवलं तथा ।
स्मृतिकारास्ततो नैषां गम्यते मूलदर्शनम् ॥ ३८७
यदि हि तैर्मूलान्यश्रोष्यन्त ततो यथैवान्यानि स्मरणानि निबद्धानि, तथैवै-
तान्यपि निबद्धान्येवाभविष्यन्नतस्तु स्वयमुपलब्धानुरूपमनिबध्य परप्रत्ययेनैव
सदाचाराः प्रमाणमित्याहुः । अतो न दृष्टमूलत्वेनाध्यवसातुं शक्यमिति विचा-
र्यते । तत्र पूर्वाधिकरणद्वयबलेन प्रामाण्यं प्रतिज्ञायते, कर्तृसामान्याद्विधिस्मृतिवि-
रोधरहितत्वाच्च ।
न हि केचित्सदाचाराः श्रौतस्मार्तविरोधिनः ।
अतस्तुल्यकारित्वात्प्रामाण्येनावधारिताः ॥ ३८८
स्मृतिकाराभ्यनुज्ञानं महदन्यच्च कारणम् ।
तेषामज्ञातमूलानां न ह्यनुज्ञोपपद्यते ॥ ३८९ इति ।
३७४ मीमांसादर्शनम् [ सू०
तदपाकुर्वन्नाह—
न शास्त्रपरिमाणत्वादधर्माधर्मस्थितेरमी ।
शिष्टाचाराः प्रमाणत्वं लभन्ते शब्दवर्जिताः ॥ ३९०
शास्त्रपरिमेयत्वं तावत्परिमाणशब्दवाच्यं धर्माधर्मयोरवस्थितम्, परिमितानि
च शास्त्राणि वेदोपवेदादीनि । न च तेषां मध्ये सदाचारशास्त्रं किंचिदस्ति । न च
सदाचारः स्वयमेव शास्त्रम् । नापि तद्दर्शनम्, अनुष्ठानं वा, अत्यन्तपरायत्त-
त्वात्प्रमेयत्वाच्च । स्मृतेस्त्वेतद्विषायाया निर्मूलत्वमुक्तमेव ।
किं च मूलं भवेदेकमनेकमिति चिन्तिते ।
नैव द्विविधमित्येतदनुमातुं हि शक्यते ॥ ३९१
न तावद्देशजातिकुलभेदाद्भिन्नानामपरिमितस्वरूपाणामनेक श्रुतिमूलत्वम् ।
न हीदृशी श्रुतिर्यं तान् सर्वाचारान् ग्रहीष्यति ।
शब्दाभिधेययोस्तेषां व्यक्त्याकृत्योरसंभवात् ॥ ३९२
यावदाचारं हि वेदवाक्यानि कल्पयतां वेद एवैकः कल्पयितव्यः । एकस्य
तु वाक्यस्य नैव कस्यचिदपरिमिताचारविधायित्वमवकल्पते । यत आचाराः प्रव-
र्तेरन् । न च धर्मसूत्रकारैस्तदेव दृष्ट्वाऽऽचार-प्रामाण्यमुपनिबद्धम् । शेष-धर्मस्मृति-
वाक्यतुल्यनिबन्धनप्रसङ्गात् न ऽऽचारदर्शनोत्तरकालप्रवृत्ता स्मृतिस्तेषां मूलं
भवति । मूलमूलिबलाबलबिपर्ययप्रसङ्गात् ।
अतः परिमितं शास्त्रमनुमातुं यतोऽर्हति ।
नाऽऽचाराणां च तन्मूलं बहूनामित्यमूलता ॥ ३९३
न च स्मृतिस्वरूपाऽपि श्रुतिरत्रानुमीयते ।
आचाराणामतत्पूर्वप्रसङ्गात्सविपर्ययात् ॥ ३९४
शिष्टाचारः प्रमाणमिति हि श्रुतावनुमीयमानायामाचारः प्रथमं सिद्धो
भवेत्तत्पूर्विका श्रुतिः ।
न त्वाचारस्य सा मूलमिति निर्मूलता पुनः ।
शास्त्रपरिमाणत्वादिति वा परिमिते ह्यर्थे शास्त्रं प्रवर्तेत । अपरिमितत्वा-
दाचाराणामुच्छास्त्रत्वमिति ।
परिमितार्थविषयत्वाद्वा शास्त्रस्य, 'अप्राप्ते शास्त्रमर्थवत्' जै. सू. (६।२।४)
इति ।
दृश्यमानान्यहेतुत्वान्नात्र शास्त्रप्रमाणता ।
तस्मादर्थसुखाङ्गत्वान्नाऽऽचारेष्वस्ति धर्मता ॥ ३९५
७ ] प्रथमाध्याये तृतीयपादः ३७५
वैश्यानां सेवकानां वा वैद्यानां नगरेषु वा ।
चरित्राणां यथा चार्थसुखाङ्गत्वं तथाऽस्त्विह ॥ ३९६
तस्माच्छ्रुतिस्मृती एव प्रमाणे धर्मगोचरे ।
शीलाचारात्मतुष्टीनां गोष्ठीहास्यादितुल्यता ॥ ३९७
इति द्वितीयं वर्णकम्
अथ तृतीयं वर्णकम्
यद्वा सूत्रत्रयेणाप्येतदेवाधिकरणं व्याख्यातव्यम् । इहाऽऽर्यावर्तनिवासि-
शिष्टाचारानेवोदाहृत्य पूर्ववत्प्रामाण्याप्रामाण्यसन्देहे शिष्टाकोपेऽविरुद्धमिति सिद्धा-
न्तस्तावदुपक्रम्यते ।
तथा हि—शिष्टं यावच्छ्रुतिस्मृत्योस्तेन यन्न विरुध्यते ।
तच्छिष्टाचरणं धर्मे प्रमाणत्वेन गम्यते ॥ ३९८
यदि शिष्टस्य कोपः स्याद्विरुध्येत प्रमाणता ।
तदकोपात्तु नाऽऽचारप्रमाणत्वं विरुध्यते ॥ ३९९
( इति वर्णकतादिसहितं शिष्टाकोपाधिकरणम् ॥ ७ ॥ )
न्या० सु०—सूत्रमवधिद्वयेन पूर्वपक्षनिराकरणार्थतयाऽवतारयति—तदुच्यत इति । पूर्वं-
पक्षोक्तविरोधाङ्गीकरणेन प्रमाणबलावलात् प्रमेयबलाबलबलीयस्त्वमात्रेण सिद्धान्ते पूर्वाऽ-
वधिः पूर्वा समाप्तिः विरोधाभावसिद्धान्ते द्वितीयेति व्यवस्थार्थो वाशब्दः ।
ननु भाष्यकृता अस्योत्तरसूत्रावयवत्वेन पठितत्वात्कथमेतत्सूत्रशेषत्वमित्याशङ्कयाह—
अनन्तरेति । विप्रतिपत्तिशब्दोपात्तस्य विरोधस्यैतदवगताया अभावोक्तेर्विरुद्धत्वेनानन्तर-
सूत्रेऽनुपयुज्यमानत्वाद्विरोधाभावसिद्धान्तपक्षे चेह सूत्रे पूर्वपक्षसूत्रोक्तविरोधाभावस्यावश्य-
वचनीयत्वादित्यर्थः । ननूत्तरसूत्रेऽपि यवादिशब्दानां साधारणत्वे प्रियङ्गवादिद्रव्यकार्ये
विकृतावूहितयवादिशब्दप्रयोगाविरोधप्रतिपादनार्थत्वेनोपयोगो भविष्यतीत्याशङ्कयाह—
उपयोगेति । सकृत्पठितस्यापि व्याख्यानवेलायामुच्चारणानुकृतिः = अनुषङ्गः ।
सकृदुच्चरितस्यैवोभयशेषतया व्याख्याने तन्त्रत्वम् । आद्यावधिना विरोधेऽपि प्रमेयबला-
बलबलीयस्त्वेन सिद्धान्तप्रतिपादनार्थमपि चेत्यादिभाष्यं व्याचष्टे—अपि चेति ।
प्रयुक्तानि प्रतीयेरन्निति सूत्रावयवस्य शिष्टैरनुष्ठितानाचमनादीनाद्रियेरन्नित्येवं व्याख्या-
नार्थं प्रमाणपदमुत्तरार्द्धेन व्याख्यातम् । विरुद्धताशब्देन बाध्यतोक्ता । श्लोकं व्याचष्टे—
विरोधेति ।
प्रमाणबलाबलबलीयस्त्वाभिप्रायं नन्वित्यादिशङ्काभाष्यं व्याचष्टे—इयत्तेति । प्रमेय-
बलाबलबलीयस्त्वाभिप्रायं नैष दोष इति सिद्धान्तभाष्यं व्याचष्टे—पदार्थेति । पूर्वपक्षा-
भिप्रायं विवृणोति—उच्यत इति । श्लोकं व्याचष्टे—प्रमेयेति ।