मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 419, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये तृतीयपादः ३६७
नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा-
चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा-
वासप्रभावलाभः ख्यात एव ।
वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् ।
तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६
यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु
काम-क्रोध-लोभ-मोह-शोकादिहेतुत्वेनोपलभ्यते, स यथाविधि-प्रतिषेधं वर्तिष्यते ।
ते । विश्वामित्रस्यापि यद्रागद्वेषपूर्वकमपि तपोबलारूढस्य चरितम्, तत् सर्वं बलवतः
पथ्यमित्यनेन न्यायेन महान्ति च तपांसि कृत्वा तानि क्षयं नयत उत्तरकालं वा
पापविशुद्धिं प्रायश्चित्तैः प्रतिकुर्वाणस्य जीर्यत्यपि । मन्दतपसां गजेरिव महावट-
काष्ठादिभक्षणमात्मविनाशायैव स्यात् ।
द्वैपायनस्यापि, “गुरुनियोगादपतिरपत्यलिप्सुर्देवराद् गुरुप्रेरितादृतुमतीयात्”
इत्येवमागमान्मातृसंबन्धभ्रातृजायापुत्रजननं प्राक्कृत-पश्चात्करिष्यमाणतपोबलेन
नातिदुष्करम् । अन्योऽपि यस्तादृक्कृतपोबलो निर्वहेत् स कुर्यादेव ।
रामभीष्मयोस्तु स्नेहपितृभक्तिवशात् विद्यमानधर्ममात्रार्थदारयोरेवं साक्षाद्-
व्यवहितापत्यकृतपितृऋण्योपयोगसिद्धिः, हिरण्मयसीताकरणं लोकापवादभिया
त्यक्तसीतागतानृशंस्याभावशङ्कानिवृत्त्यर्थम् ।
भीष्मश्च— भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वे तेनैव पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ ३५७
इत्येवं विचित्रवीर्यक्षेत्रजपुत्रलब्धपितृनॄणत्वः केवलयज्ञार्थपत्नीसंबन्ध आसी-
दित्यर्थापत्त्यानुक्तमपि गम्यते ।
यो वा पिण्डं पितुः पाणौ विज्ञातेऽपि न दत्तवान् ।
शास्त्रातिक्रमाद्भीतो यजेतैकाक्यसौ कथम् ॥ ३५८
धृतराष्ट्रोऽपि व्यासानुग्रहादाश्चर्यपर्वणि पुत्रदर्शनवत्क्रतुकालेऽपि दृष्टवानेव ।
शापानुग्रहसमर्था महर्षयः श्रूयन्ते । तद्यथैव तद्वचनादसावन्धो जातो विज्ञायते,
तथा यज्ञानुष्ठानवचनात्तावति काले दृष्टवानित्यर्थापत्त्या सुज्ञानम् ।
यद्वा, “यजदेवपूजासंगति करणदानेषु” इति दानार्थ एवायं यजिर्भविष्यति ।
ऋतुफलसमानि च दानतपश्चरणादीन्यपि श्रूयन्ते । तत्कारणात्क्रतुक्रियोपचारः ।
या चोक्ता पाण्डुपुत्राणामेकपत्नीविरुद्धता ।
साऽपि द्वैपायनेनैव व्युत्पाद्य प्रतिपादिता ॥ ३५९
योवनस्थैव कृष्णा हि वेदिमध्यात्समुत्थिता ।
सा च श्रीः श्रीश्च भूयोभिर्भुज्यमाना न दुष्यति ॥ ३६०