मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 420, कुल 804 में से
संदर्भ में पढ़ें१९८ मीमांसादर्शनम् [ सू०
अत एव चोक्तम्—
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः ।
महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति ।
न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन
कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं
प्रमाणभूतः सन्नेवं वदेत् ।
अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य एकत्वेनोपचरिता इति व्यव-
हारार्थपत्त्या गम्यते ।
यद्वा नार्जुनस्यैव केवलस्य भविष्यति ।
साधारणा प्रसिद्धिस्तु निश्छिद्रत्वाय दर्शिता ॥ ३६१
यथा युधिष्ठिरोपदेशात्सभामध्यमानीयमाना सहसैव रजस्वलावेषं सुपुत्रकस्य
धृतराष्ट्रस्यायश उत्पादयितुमात्मानं प्रख्यापयितुं द्रौपदी कृतवती, तथैव केवला-
र्जुनभार्याया एव सत्याः श्रीत्वं च जनेनाविदितं परस्परं संघाताविशयं च
भेदप्रयोगानवकाशार्थं दर्शयितुम्, साधारण्यप्रख्यापनमित्येवमादिविकल्पैः सुपरि-
हरत्वाद्रागलोभकृतव्यवहारस्य च शिष्टैरेव धर्मत्वेनापरिग्रहस्योक्तत्वादनुपालम्भः ।
तथा द्रोणवधाऽङ्गभूतानृतवादे ‘प्रायश्चित्तं कामकृतेऽप्येक’ इत्येवमन्तेऽप्यश्व-
मेधः प्रायश्चित्तत्वेन कृत एवेति, न तस्य सदाचारत्वाभ्युपगमः ।
यत्तु वासुदेवार्जुनयोर्मद्यपान-मातुलदुहितृपरिणयनं स्मृतिविरुद्धमुपन्यस्तम्,
तत्रान्नविकारसुरामात्रस्य त्रैवर्णिकानां प्रतिषेधः ।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत ॥ इति । ३६२
मधु-सीध्वोस्तु क्षत्रियवैश्ययोर्नैव प्रतिषेधः, केवलब्राह्मणविषयत्वात्, मद्यं
ब्राह्मणस्य’ इति वचनात् ।
यदप्येतत्—गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥ इति । ३६३
एतदपि ब्रह्मवादिशब्दस्य तच्छील-तद्धर्म-तत्साधुकारित्वनिमित्तत्वात्प्रवचना-
श्रयणेन ब्रूञ्वदत्योरेकार्थत्वात्प्रब्रूयाद् ब्राह्मणस्त्वेवामिति नियमाद्यस्यैव प्रवचनम्,
स एव तच्छीलः तद्धर्मः तत्साधुकारो वा भवति । तस्माद् ब्राह्मणा एव ब्रह्म-
वादिनः । तथा च मद्यसामान्यप्रतिषेधाऽङ्गनिन्दार्थवादेऽभिहितम् ।
अकार्यमन्यत्कुर्याद्धि ब्राह्मणो मदमोहितः ॥ इति ।