मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
इस ग्रन्थ के बारे में
पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।
यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।
ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।
१५४ मीमांसादर्शनम् [ सू०
वा नेति कृताकृतनिश्चयो वैगुण्याशङ्काकारणम् । कृताकृतनिश्चयकारणं-पूर्वावधारणभ्रंशः ।
कथं तस्यानिश्चयकारणत्वमित्यपेक्षिते सम्यक्कृतत्वदाढर्चनिमित्तसंस्कारपाटवाभावादित्युक्तम् ।
सम्यग्व्यैतत्कृतमिति स्मृतिदाढर्चंस्य यन्निमित्तं संस्कारपाटवम्, तस्याभावादित्यर्थः ।
अनुष्ठानात्पूर्वं ह्येतावन्तोऽनुष्ठेया इत्यवधारिते यावन्तोऽनुष्ठेयाः तावतामनुष्ठानोत्तरकाले-
ऽनुष्ठितत्वावधारणात्तत्प्रसूतसंस्कारपाटवेन सम्यक्कृतत्वस्मृतिदाढर्यात्कृताकृतसन्देहो
निवर्तते, नान्यथा । ननु सहेयत्तायाः पूर्वमवधारणात्कथं स्मार्त्तपदार्थानुष्ठाने पूर्वावधारण-
भ्रंश इत्याशङ्क्य—प्रथमेत्युक्तम् । प्रयोगवचनस्य श्रुत्याद्यवगतपदार्थमात्रपर्यवसायित्वेन
स्मार्त्तेष्वव्यापारात्प्रथमं प्रयोगवचनव्यापारवेलायामित्यत्थाश्रयत्वेनापरिकल्पितस्य पश्चात्-
द्वद्यापारपर्यवसानोत्तरकालं स्मृतिवशादागतस्य प्राप्तस्य पदार्थस्यानुष्ठानेन पूर्वस्य प्रयोग-
विधिब्यापारकालोनस्येयत्तावधारणस्य भ्रंशादित्यर्थः । वैदिकस्य सुनेदेन होमादेर्नैमित्ति-
कस्यापि प्रयोगविधिब्यापारवेलायामेवानुष्ठेयत्वावधारणान्न तदनुष्ठाने पूर्वावधारणभ्रं-
शापत्तिः । वैगुण्याशङ्कायां चापूर्वातिशयहेतुश्रद्धाविरहादपूर्वदौर्बल्यमात्रं भवति न तु
सर्वथाऽनुपपत्तिः । तदुत्पादकसमस्ताङ्गप्रधानानुष्ठानस्य निष्पन्नत्वाच्छ्रद्धायाश्चापूर्वातिशय-
हेतुत्वं 'यदेव विद्यया करोति, श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवती (छा० उ० १.१.४)
त्यतिशयवाचितरप्रत्यययुक्त्या श्रुत्या ।
श्रद्धयेष्टं च पूत्तं च नित्यं कुर्यादतन्द्रितः ।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥
इति स्मृत्या चाक्षयहेतुत्वं श्रद्धाया वदन्त्यार्थान्तरभावे क्षीणत्वप्रतिपादनादवसीयते ।
ननु किंचित्फललाभेऽपि विधेरर्थवत्त्वान्न शिष्टकोपापत्तिरित्याशङ्क्याह – तच्चेति ।
विधिसिद्धप्रवर्त्तनातिशयार्थेनार्थवादेन प्रवर्त्तनातिशयावसेयफलातिशयावसायात्तत्फलं सर्वं
समग्रमतिशयवच्चार्थवादसहिताद्विधेरवगतमिति कृत्वा न्यूनत्वासहिष्णुतया फलातिशय-
हेतुश्रद्धाविरहवैगुण्याशङ्कापादकपदार्यान्तरविधायकत्वेन विरुद्धामाचमनादिस्मृति बाधत-
इत्यर्थः ।
इयत्ताविरोध एव सूत्रं योजयति-परिमितॆति । अङ्गशास्त्राणां यत्परिमाणम्, तदेवाङ्ग-
नामित्यर्थः । क्रमकालेयत्तासाधारणपूर्वव्याख्यानापेक्षा वाशब्दः । प्रयोगविधिप्रमितप्रधान-
प्रत्यासत्त्याक्षिप्तप्रयोगशैघ्रयविरोधं प्रधानप्रत्यासत्तिविरोधाभिधानेनार्थोक्तमपीदानीं प्रयोग-
विधिना साक्षादपि प्रयोगशैघ्रयावगमात्पदार्थान्तरानुष्ठाने तद् विरोध इति प्रकारान्त-
रेणाह—सहेति । उपसंहरति—तस्मादिति ॥ ६ ॥
भा० प्र०—'न' ना अर्थात् यह सङ्गत नहीं है, "शास्त्र परिमाणत्वात्” = क्योंकि
शास्त्र परिमाण अर्थात् वेदशास्त्र से उपदिष्ट कर्म रहता है । किन्तु सिद्धान्ती का यह मत
ठीक नहीं है, क्योंकि वेद वचन विहित अनन्तर कर्तव्य कर्म रहता है । यह पूर्व पक्ष है ।
आशय यह है कि भाष्यकार के मत के अनुसार प्रत्यक्ष श्रुति विरुद्ध स्मृति अप्रमाण
है—यह पूर्वं अधिकरण में कहा गया है । प्रकृत में यह विचारणीय है कि वह कहाँ
७ ] प्रथमाध्याये तृतीयपादः ३५५
प्रमाण है और कहाँ अप्रमाण है । स्मृतियों में कहा गया है कि "क्षुत आचमेत",
"आचान्तेन कर्तव्यम्", एक शास्त्रोक्त कर्म के करने के बाद दूसरे कर्म को करने से पूर्व
यदि क्षुत् (छींक) होने पर आचमन करना चाहिये अर्थात् आचमन पूर्वक कर्म करना
चाहिए । श्रुति में कहा गया है कि "वेदं कृत्वा वेदिं करोति" वेद अर्थात् कुश के गुच्छे
से निर्मित सम्मार्जनी कर वेदि = आहवनीय एवं गार्हपत्य इन दो अग्नियों के मध्य में
चार अङ्गुल परिमाण भूमि में गड्ढा करे इस स्थल में वेद करने के बाद यदि छींक हो
तब स्मृति से विहित आचमन का अनुष्ठान करे और इसके बाद वेदि करे या आचमन
किए विना ही वेदि का निर्माण करे ? इस प्रकार के संशय होने पर सिद्धान्ती यदि यह
कहते हैं कि प्रकृत में जब श्रुति के साथ स्मृति का विरोध नहीं है, तब स्मृति के वचन
से श्रुति वचन का व्याकोप या बाधा नहीं है, अतः स्मृति से उपदिष्ट वचन अविरुद्ध या
प्रमाण होने से अनुष्ठेय है, किन्तु यह सङ्गत नहीं है, क्योंकि, "वेदं कृत्वा वेदिं करोति",
इस स्थल में श्रुति में प्रयुक्त कृत्वोपद में 'क्त्वा', प्रत्यय से आनन्तर्य अर्थ का बोध हो
रहा है । अतः वेद के बाद वेदि का निर्माण करना होगा—यही वेदवचन के द्वारा अर्थ
अवगत हो रहा है, किन्तु स्मृति वचन के अनुसार यदि वेद करने के बाद आचमन
करके अनन्तर वेदि किया जाय तो श्रुति के द्वारा कथित आनन्तर्य क्रम का बाध होगा ।
इसलिए श्रौतक्रम का विरोध होने से स्मृति के द्वारा प्रतिपादित आचमन कर्तव्य नहीं है,
क्योंकि स्मृति की अपेक्षा श्रुति बलवती होती है । यही पूर्वपक्षियों का आशय है ।
इसी प्रकार "दक्षिणाचारेण कर्तव्यम्" दक्षिण हस्त से ही शास्त्रोक्त कर्म करे, यह
स्मृति वचन श्रौत काल के साथ विरुद्ध होने से अनादरणीय है, क्योंकि, श्रुति में पूर्वाह्ण
आदि काल नियमित है, किन्तु केवल दक्षिण हस्त से कर्म का अनुष्ठान किया जाय तो
पूर्वाह्ण आदि श्रौतकाल के मध्य में कर्म का समापन नहीं होगा, अतः, दोनों हाथ से
शास्त्रीय कर्मों का सम्पादन करना उचित है । क्योंकि; ऐसा करने से अतिशीघ्र कर्म का
सम्पादन होने से श्रौतकाल का अतिक्रमण नहीं होगा । परिमाण के सम्बन्ध में इसी
प्रकार समझना चाहिये । अत एव श्रुति संबोधित पदार्थ के = कर्म के समान श्रौत क्रम
काल एवं परिमाण आदि के साथ विरोध होने पर भी स्मृति विहित कर्म अनुष्ठेय
नहीं है ॥ ६ ॥
यह पूर्व पक्ष है ।
अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥७॥ सि०
शा० भा०—अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः
प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति ? विरुन्धन्तु । नैष दोषः । आचमनं पदार्थः,
पदार्थानाञ्च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि
च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम
१५९ मीमांसादर्शनम् [ सू०
एव नास्ति, केन सह विरोधो भविष्यति इति । तथा यदि दक्षिणेन नाऽऽचर्यते,
मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नाऽऽन्यथात्वमभ्युपगच्छेत् ।
प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः
पदार्थः । अपि च शौचम्, दक्षिणाचारता, यज्ञोपवीतित्वम्, चैवंजातीयका अर्था
व्यवघातारो न भवन्ति, सर्वपदार्थानां शेषभूतत्वात् । तस्मादाचमनादीनां
प्रामाण्यम् ॥ ७ ॥
भा० वि०-एवं श्रौतार्थबाधकतया विरोधे, विरोधाद्वाननुष्ठाने प्राप्ते
सिद्धान्तयति - अपि वेति । तत्र विरोधादननुष्ठानमिति मतं व्यावर्तयितुं सूत्रा-
वयवं व्याचष्टे - अपि वेति । अवशिष्टं व्याकरोति - गृह्यमाणेति । यस्मादपरि-
दृश्यमानलोभादिकारणाः आचमनादयोऽर्थाः, तस्मात्प्रमाणमनुष्ठेया इत्यर्थः ।
यद्यपि स्मार्ताचमनाद्यनुप्रवेशे श्रौतक्रमादिबाधात् श्रुत्या सह स्मृतेर्विरोधः, तथापि
हेतुदर्शनविशिष्टस्यैव विरोधस्याप्रामाण्यप्रयोजकत्वाद्विशेषणाभावे च विशिष्ट-
प्रयोजकाभावेन तदप्रामाण्याभावाद्युक्तं तदनुष्ठानमित्यभिसन्धिः । कारणा-
ग्रहणे सति प्रयुक्तानि-शिष्टैरनुष्ठीयमानानि, प्रतीयेरन्-आश्रीयेरन् इति सूत्रार्थः ।
परिहारान्तरं वक्तुं चोद्यमुद्भावयति - नन्विति । विरुन्धन्ति एवंजातीयका
इत्यनुषङ्गः, क्रतुमनुप्रवेश्यमाना आचमनादय इत्यर्थः । आचमनादीनां पदार्थतया
प्राधान्यात्, क्रमादीनां च पदार्थधर्मतया गुणत्वात्, गुणानुरोधेन च प्रधान-
बाधासम्भवाद्युक्तमाचमनादीनामनुष्ठानमिति, परिहरति - विरुन्धिन्त्विति । एत-
दुपपादयति - आचमनमित्यादिना । क्रम इति कालस्याप्युपलक्षणम्, न च
कालस्य स्वतन्त्रपदार्थतया पदार्थधर्मत्वासंभवः । अनुष्ठेयपदार्थविच्छेदकतया
तस्यापि तद्धर्मत्वादिति द्रष्टव्यम् ।
एवं तावद्विरोधेऽप्याचमनादीमनुष्ठेयतां प्रतीयेरन्नित्येतदन्तस्य सूत्रवाक्य-
स्यार्थतया व्युत्पाद्येदानीं तेष्वदर्शनाद्विरोधस्येत्युक्तसूत्रावयवमनुषङ्गेणात्रापि
योजयन् विरोधपूर्वकपक्षं दूषयति - अपि चेत्यादिना । तत्र क्रमविरोधं तावन्नि-
रस्यति - प्राप्तानामिति । विनियोगवचनवशेन हि पदार्थेषु प्राप्तेषु पश्चाद-
नुष्ठानाङ्गतया क्रमोऽपेक्ष्यते अतः प्राप्तेषु पदार्थेषु पश्चात् क्रमः प्राप्तः, ततः
किमत आह - यदेति । इति शब्दः क्रमनिराससमाप्तौ, कालविरोधं निरस्यति -
तथेति । प्रधानप्रत्यासत्यादिरूपः कालो बाधितो मा भूदिति, यदि दक्षिणेनैव
हस्तेन नाचायेँतेत्यर्थः । व्यथाबाधः अस्तु को दोषस्तत्राह - प्रयोगेति । न हि
पदार्थानां उत्पत्तिविनियोगयोः कालापेक्षा, अपि र्तहि प्रयोगे कर्तव्यमित्युक्ते
कदेत्यपेक्षा भवति । तेन प्रयोगाङ्गत्वात् कालोऽपि पदार्थसिद्धयुत्तरकालीन
इत्यर्थः । इतोऽपि तत्सिद्धयुत्तरकालीन इत्याह - पदार्थानामिति । करणोप-
७ ] प्रथमाध्याये तृतीयपादः ३५७
कारकतया विनियुक्तानां पदार्थानामवच्छेदक इति यावत् । पदार्थानामुपजीव्यत्वे
फलितमाह—अत इति । निखिलाङ्गप्रधानोपकारकत्वाच्चाचमनादीनां न
तैर्व्यवधानमित्याह-अपि चेति । शौचं-शुद्धता, आचान्तता यज्ञोपवीतत्वं चेत्यस्या-
नन्तरमिति शब्दमध्याहृत्यैवं जातीयकपदेन संबन्धनीयम् । सर्वोपकारकत्वमेवं
जातीयकशब्देन सूचितम्, तेन यदा वेदं कृत्वा वेदिमकृत्वापि क्षुत आचामति,
तदा स वेदिमेव करोति । अनाचमने वेदिकरणस्यैव वैगुण्यापातादित्याशयः,
तदनेन तेष्वाचमनादिषु क्रतुमनुप्रवेश्यमानेषु श्रौतक्रमादिभिः विरोधस्यादर्शना-
दिति सूत्रावयवो व्याख्यातः, यस्मादेवमविरोधः ।
विरोधेऽपि वा पदार्थतयाचमनादीनां प्राबल्यं तस्मात् कर्तव्यानीति निगम-
यति—तस्मादिति ॥ ७ ॥
त० वा—तेष्वदर्शनाद्विरोधस्येति वा समासः । अनन्तरसूत्रे विप्रतिपत्त्यु-
पात्तविरोधाभावोक्तेरनुपयुज्यमानत्वात्, इह च प्रक्रान्तविरोधाभावस्यावश्यवच-
नीयत्वात् । उपयोगसद्भावेऽपि च काकाक्षिवदनुषङ्गेण, तन्त्रेण चोभयसम्बन्धात् ।
अपि वा कारणं दृष्टं यस्मादेषु न गृह्यते ।
तस्मान्नाऽऽचमनादीनां क्रतुश्रुतिविरुद्धता ॥ २८७
विरोधत्याजितश्रुतिविरुद्धता । विरोधत्याजितश्रुतिमूलस्य हि स्मरणस्य
यस्य मूलान्तरमिदं संभवदुत्प्रेक्षामात्रेणोपप्लवते, तत्राल्पेनैव प्रयासेन निराशङ्क-
प्रमाणत्वं निश्चीयते ।
यत्र तूत्प्रेक्षयाऽप्यन्यत्कारणं नावलम्ब्यते ।
अत्यन्तानन्यमूलत्वाच्छ्रुतितस्तत्प्रमाणता ॥ २८८
न वाऽऽचमनादिस्मृतेः कामक्रोधलोभद्वेषमानलज्जादिकारणं किंचित्संभाव्यते,
यन्मूलत्वेन श्रुतिमूलत्वमपहूयेत ।
अनन्यमूलिकायां च श्रुतौ मूलेऽवधारिते ।
विरोधेऽपि प्रमाणत्वं स्मृतेः श्रुत्या न वार्यते ॥ २८९
इयत्ताक्रमकालाश्च श्रोतत्वाद्बलवत्तराः ।
पदार्थधर्मभावात्तु दुर्बलत्वादबाधकाः ॥ २९०
ननु पूर्वभावित्वात्प्रमाणबलाबलमेव प्रमेयबलाबलाज्ज्यायस्त्वेन प्रतिभाति ।
उच्यते—नैव तावच्छ्रुतिस्मृत्योः स्वरूपेण विरुद्धता ।
बलाबलपरीक्षा वा प्रमेयद्वारिका हि सा ॥ २९१
प्रमेयगतं हि विरोधमालोच्य प्रमाणविरोधबुद्धिर्भवति ।
तद्यस्यामेव वेलायां विरोधो दृश्यते तयोः ।
प्रमेययोः स्वरूपस्थं तस्मादेव बलाबलम् ॥ २९२
३५८ मीमांसादर्शनम् [ सू०
येषां पदार्थधर्मत्वादौर्बल्यं पूर्वनिश्चितम् ।
न तेषां श्रुत्यवष्टम्भात्तत्पश्चादपगच्छति ॥ २९३
पदार्थत्वेन येषां च वलीयस्त्वं निरूपितम् ।
न स्मृतेर्दुर्बलत्वेन पुनस्तदपनीयते ॥ २९४
नित्यमेवाप्रमाणं यत्तदेवं बाधमर्हति ।
आपेक्षिकाप्रमाणं तु स्यात्प्रमाणमपेक्षया ॥ २९५
न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३५९
तस्माद्यत्किंचनप्रमाणकसर्वपदार्थप्राप्त्युत्तरकालापेक्षितसम्बन्धः कालोऽपि
नैव सर्वोपसंहारविरोधीति तेषु क्रमकालपरिमाणेष्वदर्शनाद्विरोधस्येत्युच्यते ।
विरोधो नास्तीतिकथनं
यद्वा तेष्वाचमनादिषु क्रियमाणेष्वदर्शनाद्विरोधस्येति सूत्रार्थयोजना ।
अपि च—
शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता ।
सर्वं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसूत्राणि तु पूर्वाधिकरणारक्षेपपरिहारसूत्रत्वेनैव व्याख्यातव्यानि । यत्तर्हि
३६० मीमांसादर्शनम् [ सू०
दक्षिणाचारत्वं तु—
यत्राऽऽहृत्य विधानेन स्यात्सव्याञ्जलिचोदना ।
तस्मादेव निवर्तेत नान्यत्राऽऽशङ्क्यतेऽपि तत् ॥ ३०९
“यथा वै दक्षिणः पाणिरैवं देवयजनम्” इति प्रागुदक्प्रवणविधिपरे वाक्ये
देवयजनवद्यज्ञाङ्गत्वौचित्यादुपमानमवकल्पते । तेन नात्रेकमपि विरोधबाधशङ्-
कायोग्यमित्यनुदाहरणानि । तस्मान्नैव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३६१
तेन तद्वाक्यचेष्टानां सर्वदैवास्ति संभवः ।
तदुक्तिज्ञापनाच्चेदो नानित्यऽतो भविष्यति ॥ ३१५
प्रतियज्ञं भवन्त्यन्ये सर्वदा षोडशर्त्विजः ।
आदिमत्त्वं च वेदस्य न तच्चरितबन्धनात् ॥ ३१६
उक्तं च—यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भाति युगादिषु ॥ इति । ३१७
इतिहासपुराणं च कृत्रिमत्वेन निश्चिते ।
यथाऽप्यकृत्रिमे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३६२ मीमांसादर्शनम् [ सू०
यदा शास्त्रान्तरेणैव सोऽर्थः स्पष्टोऽवधार्यते ।
तदा तेनैव सिद्धत्वादितरस्यादनर्थकम् ॥ ३२४
तस्माद्यावत्परिगणितवेदादिशाख्यव्यतिरिक्तनिबन्धनं तद्धर्मप्रमाणत्वेन नापे-
क्षितव्यमिति ।
सदाचारप्रामाण्याधिकरणम् ।
यत्त्वेतत् । ‘अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्’, इति । सूत्रम् ।
अत्र सदाचारानुदाहृत्य त्रिवर्गसिद्ध्यर्थं विचार्यते । तद्विपरीतसंकीर्णव्यव-
हारिषु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३६३
आत्मतुष्टेः प्रामाण्याक्षेपः
ननु—सदाचारप्रमाणत्वं मन्वादिभिरपि स्मृतम् ।
आत्मतुष्टिः स्मृतान्यैस्तैर्धर्मे सा चानवस्थिता ॥ ३२६
यथाभ्यासं ह्याशयवैचित्र्येण शुभाशुभोभयहीनक्रियानुष्ठायिनामात्मतुष्टिरपि
विचित्त्रैव भवति ।
तथा हि—कस्यचिज्जायते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३६४ मीमांसादर्शनम् [ सू०
प्रदानानि जपो होमो मातृयज्ञादयस्तथा ।
शुक्रध्वजमहोध्यात्रा देवतायतनेषु च ॥ ३३५
कन्यकानां च सर्वासां चतुर्थ्याद्युपवासकाः ।
प्रदीपप्रतिपद्दानमोदकापूपपायसाः ॥ ३३६
अनग्निपक्वमाघसप्तमीपौर्णमासीफाल्गुनोप्रतिपद्वसन्तोत्सवादीनां नियमक्रिया-
प्रमाणं न शास्त्रादृते किंचिदस्ति ।
स्मृतिकाराश्चाऽऽचारश्चैव साधूनाम्, देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः
प्रमाणमिति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३६५
प्रत्यक्षवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशा यत्परम्पराप्राप्तमन्यदपि
धर्मबुद्ध्या कुर्वन्ति। तदपि स्वर्ग्यत्वाद्धर्मरूपमेव।
तद्यथा शुश्रुवान्विद्वाननूचानश्च वैदिकः।
पुनस्तल्लक्षितो वेदे तेनैवाध्ययनादिषु ॥ ३४०
तेनाहोरात्रपौर्वापर्यवदनादित्वाद् वेदतदर्थानामितरेतराश्रयत्वाप्रसङ्गः।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१६६ मीमांसादर्शनम् [ सू०
एवं च विद्वद्वचनाद्विनिर्गतं प्रसिद्धरूपं कविभिनिरूपितम् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ इति । ३४७
अनेकैर्दृष्टांन्तरैरात्मतुष्टेः प्रामाण्यसमर्थनम्,
बहुदिनाभ्यस्तधर्मव्याप्तात्मनो हि न कथंचिद्धर्मकरणरूपात्मतुष्टिरन्यत्र
संभवतीति, धर्मत्वेनाभ्यनुज्ञायते ।
यद्वा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३६७
नहुषेण पुनः परस्त्रीप्रार्थननिमित्तानन्तरकालाजगरत्वप्राप्त्यैवाऽऽत्मनो दुरा-
चारत्वं प्रख्यापितम् । शच्याश्च पतिभक्तिनिमित्तपुण्यातिशयजनिततन्निराकरणा-
वासप्रभावलाभः ख्यात एव ।
वसिष्ठस्यापि यत्पुत्रशोकव्यामोहचेष्टितम् ।
तस्याप्यन्यनिमित्तत्वान्नैव धर्मत्वसंशयः ॥ ३५६
यो हि सदाचारः पुण्यबुद्ध्या क्रियते, स धर्मदर्शित्वं प्रतिपद्येत । यस्तु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१९८ मीमांसादर्शनम् [ सू०
अत एव चोक्तम्—
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीवमानुषः ।
महानुभावा किल सा सुमध्यमा बभूव कन्येव गतेऽहनि ॥ इति ।
न हि मानुषीष्वेवमुपपद्यते । तेनातीवमानुषमित्युक्तम् । अत एव वासुदेवेन
कर्ण उक्तः ‘षष्ठे च त्वामहनि द्रौपदी पर्युपस्थास्यति’ इति । इतरथा हि कथं
प्रमाणभूतः सन्नेवं वदेत् ।
अथ वा बह्व्य एव ताः सदृशरूपा द्रौपद्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः १६९
सुरानिषेधे उक्तस्यार्थस्य संक्षेपः
तस्मादेतदुक्तं भवति यथैवैकान्नसुर| त्रयाणामप्यपेया, तथा सर्वा ब्रह्मवादि-
भिरपेयेति । इतरथा यथैवैकति च, ब्रह्मवादिभिरिति चोभयमप्यनर्थकमेव
स्यात् । श्लोकान्तनिर्देशेनैव वर्णत्रयसम्बन्धलाभात् । तेनोभौ मध्वासवक्षीबावित्य-
विरुद्धम् ।
लिङ्गोपन्यासः
तथा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३७० : मीमांसादर्शनम् [ सू०
अन्ये त्वेवमाहुः—
सर्वेषामेवमादीनां प्रतिदेशं व्यवस्थया ।
आपस्तम्बेन संहृत्य दृष्टादृष्टत्वमाश्रितम् ॥ ३६६
येषां परम्पराप्राप्ताः पूर्वजैरप्यनुष्ठिताः ।
त एव तैर्न दुष्येयुराचारैर्नेतरे जनाः ॥ ३६७
तथा मनुनाऽप्युक्तम्—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३७१
एकैकस्या एव हि ब्राह्मणव्यक्तेर्यथाप्रसक्तवधपानयोः प्रतिषेधात् । विवक्ष्य-
माणमपि तावदनूद्यमानत्वादन्नक्रियाविशेषणं वा संभवति, किमुत यदा जातिगते-
कत्वानुवाद एवायं विज्ञायते । आह । हननप्रतिषेधे कर्मभूतस्य ब्राह्मणस्योद्दिश्य-
मानत्वात्सुरापाने च कर्तृत्वेनोपादीयमानत्वात्स्वर्गकामोदुम्बरीसमानार्थयजमान-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३७२ मीमांसादर्शनम् [ सू०
उद्देश्यविशेषणस्याविवक्षोपपादनम्
नैतदेवमिहाप्येतत्पुंस्त्वं नैव विवक्ष्यते ।
ब्राह्मणस्यानुवाद्यत्वात्तद्वधप्रतिषेधवत् ॥ ३७७
नोपादेयत्वमेवैकं कारणत्वेन संमतम् ।
विशेषणविवक्षायाः कारणं हि महद्विधिः ॥ ३७८
अनूद्यमानः सर्वो हि यथाप्राप्तमनूद्यते ।
तत्रानाकाङ्क्षितं नान्यद्विधेयेभ्यो विधीयते ॥ ३७९,
यदि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें७ ] प्रथमाध्याये तृतीयपादः ३७३
ल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशङ्कितव्यम् । सुरापाने पुनः प्रायश्चित्त-
विशेषोऽपि न कश्चिदाम्नात इति, दूरादपाकृतत्वादस्त्येवास्य स्मृत्या सह
विरोधः । याऽपि चाऽऽपस्तम्बस्मृतिवचनात्तुल्यबलत्वाशङ्का भवेत् साऽपि ।
“तस्माद् ब्राह्मणः सुरां न पिबति” इत्येतेन प्रत्यक्षश्रुतिविधिना निराकृतेति नेवं-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें