सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)

Shukra Niti of Shukracharya Hindi

महर्षि शुक्राचार्य द्वारा

स्रोत: Shukra Niti with Vidyodini Sanskrit-Hindi Commentary (उद्गम)

DevanagariHindipublished526 पृष्ठ

प्रारंभिक पृष्ठ व विषय-सूची

श्री काशी संस्कृत ग्रन्थमाला १८५

॥ श्रीः ॥

शुक्रनीतिः

'विद्योतिनी'-हिन्दीव्याख्योपेता

चौखम्भा संस्कृत संस्थान

भारतीय संस्कृति एवं साहित्य के प्रकाशक तथा विक्रेता
पो० आ० चौखम्भा, पो० बा० नं० १३९
जड़ाव भवन, के. ३७/११६, गोपाल मन्दिर लेन
वाराणसी (भारत)

मूल्य रु० २०-००

W(Q2), 1:1x1,1 ²²⁸²
152K8

W(Q2), 1: 1 x 1, 1
152 K8
2282


कृपया यह ग्रन्थ नीचे निर्देशित तिथि के पूर्व अथवा उक्त तिथि तक वापस कर दें। विलम्ब से लौटाने पर प्रतिदिन दस पैसे विलम्ब शुल्क देना होगा।

अध्यक्ष
भदन्त / २४-५-८३

मुमुक्षु भवन वेद वेदाङ्ग पुस्तकालय, वाराणसी।

प्रकाशक : चौखम्बा संस्कृत सीरीज आफिस, वाराणसी
मुद्रक : विद्याविलास प्रेस, वाराणसी
संस्करण : प्रथम, वि० संवत् २०२५
मूल्य :


© The Chowkhamba Sanskrit Series Office
Gopal Mandir Lane
P. O. Chowkhamba, Post Box 8
Varanasi-1 ( India )
1968
Phone : 3145


❁ वेद वेदाङ्ग पुस्तकालय ❁
आगम क्रमांक: 2248 ........
दिनांक.....................


प्रधान शाखा
चौखम्बा विद्याभवन
चौक, पो० बा० ६६, वाराणसी-१
फोन : ३०७६

THE
KASHI SANSKRIT SERIES
185
****

ŚUKRANĪTI

OF
ŚRĪ MAHARṢI ŚUKRĀCĀRYA

Edited With the
'Vidyotinī' Hindi Commentary

By
ŚRĪ Pt. BRAHMAŚAṄKARA MIŚRA

With a Foreword

By

Paṇḍitarāja-Padmabhūṣaṇa
ŚRĪ RĀJEŚVARAŚĀSTRĪ DRĀVIḌA

THE
CHOWKHAMBA SANSKRIT SERIES OFFICE
VARANASI-1
1968

First Edition
1968
Price Rs. 18-00

Also can be had of
THE CHOWKHAMBA VIDYABHAWAN
Publishers and Oriental Book-Sellers
Chowk, Post Box 69, Varanasi-1 ( India )
Phone : 3076

* श्री गुरुःशरणम् *

भूमिका

सर्वेषु शास्त्रेषु भारतीयं राजनीतिशास्त्रमेकमद्वितीयं शास्त्रम् । तद्धि देहली-स्थितदीपोऽन्तर्बहिःस्थितपदार्थमिव नास्तिकास्तिकोभयमतं समन्वयपुरस्सरं प्रकाशयत् स्वस्मिन्नन्तर्भावयति । नीतिर्हि सैव यत्र प्रमाणत्रय-समन्वयेन देशकाललोकस्थितिं ध्यात्वा शक्तिपुरःसरं बहुलवर्गेषु कांचन रसप्रतीतिमुत्पादयन्ती शाश्वती योजना स्यात् । सृष्ट्यारम्भत ईश्वरात्सर्वज्ञात्प्रवृत्ता प्रकाशबहुला, लक्षाध्यायात्मिका दयामयी ब्रह्ममुखादवतरन्ती सर्वानपि मर्यादायां स्थापयन्ती सैषा नीतिविद्या, धर्मतो निरतिशयसुखमनुभवतां, ऐहिकसुखं वाञ्छतां वा वर्ग यदा काचन मोहविततिः प्रसरति, तथा लोकः शोककवलीकृतो दुःखकर्दमेषु निमग्नः सन् आत्मत्राणाय जीवातूभूतां विद्यां विचेतुं प्रयतते च तदा चकास्ते । इत्येतत् महाभारत-शान्तिपर्वान्तर्गत-५९-अध्यायदर्शिनां न तिरोहितम् । ततो विशालाक्षादिमहात्मनां शिरसि रसिकतामुत्पादयन्ती तत्र-तत्र विभक्ता गुरुशिष्यभावेषु प्रवहन्ती सूक्ष्मरेखारूपेण कामन्दकान्तं प्रसरन्ती सेयं विद्या, ब्रह्ममुखादवतरन्ती चन्द्रकलामादिलोकानाप्लावयन्ती क्रमशोऽमरावत्यादिषु तटिनीभावं प्राप्ता हिमगिरिमासाद्य धारास्वनेकासु विभक्ता गङ्गाधारेवाद्यापि जलधिमिव लोकमापूरयन्ती कथंचिद् वर्तते । किंच ब्रह्म-विशालाक्ष-शक्र-नारद-देवगुरु-भारद्वाज-शुक्र-भीष्म-पाराशरोद्धव-विष्णुगुप्त-कामन्दकादीनां ग्रन्थेषु क्वचिद्विभज्य क्वचित् संक्षिप्य च उपलभ्यते । तत्र सामान्यतः तत्तद्-ग्रन्थाध्येतारोऽन्तेवासिन एकत्रैव विचारचातुरीभिस्तुरीयं वयः पश्यन्तोऽन्यत्राज्ञातभावं प्राप्नुवन्तः स्वकीयाचार्यगौरवं ख्यापयन्तोऽतिविस्तृतशाखान्तर्गतानां पदार्थानां देशकालानुसारेण समन्वयं, पूर्वपक्षोत्तर-

( ६ )

पक्षस्थितिं वा न जानन्ति । अत एव मतभेदः प्रसृतो भवति । एतादृश्या-
मवस्थायां व्यास इव भगवत्प्रसादेन निर्मलान्तःकरणः पतञ्जलिरिव निपुणमतिः—
विदग्धः, कार्यदक्षो यदावतरति कश्चित्तदा स इतस्ततः प्रसृतानां मतीनां
पूर्वोत्तरपक्षभावेन समन्वयं प्रकाशयति । तदेव कार्यं वात्स्यायनापरपर्यायेण
कौटिल्येनार्थशास्त्रं निर्माय कृतम् । यस्य प्रतिभावत्त्वं, शक्तिमत्त्वं, मेधावित्वं,
वेधस्त्वं च कामन्दकेन ग्रन्धारम्भे प्रत्यपादि ।

जातवेदा इवार्चिष्मान् वेदान् वेदविदां वरः ।
योऽधीतवान् सुचतुरश्चतुरोऽप्येकवेदवत् ॥

यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपातामूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥

एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥

नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः ।
य उद्धत्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ इति

ततः पूर्वं नीतिविद्याया एका शाखा शुक्रमुखात्स्यन्दन्ती सहस्राध्याय्यात्मिकाऽऽ-
सीत् । इति महाभारतवचनप्रामाण्यादवगम्यते ।

अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ॥ इति

तदन्तर्गतानि कतिपयगद्यानि उद्धृतानि विश्वरूपाचार्यकृत-बालक्रीडायामुप-
लभ्यन्ते । ( या० अ० श्लो० ३२८ ) तथा नीतिवाक्यामृतटीकायामपि अनेकानि
शुक्रनीतिवाक्यानि दृश्यन्ते । अस्याः टीकायाः प्रतिलिपिः—१५४९-वैक्रमसंवत्सरे
कयाचिद् विदुष्या जैनसम्प्रदायान्तर्गताय चन्द्रप्रभाचैत्यालयाय समर्पितेति तत्प्र-
काशकेन स्वकृते आमुखे सप्रमाणमुपन्यस्तम् । एतट्टीकाकर्तुः गौरवं कदा लोके
प्रसिद्धमिति तु तिमिर एव तिरोहितम् तथापि कतिपयशतब्दीपर्यन्तं विस्तृतः
शुक्रनीतिग्रन्थ उपलभ्यमान आसीदिति निश्चप्रचम् । तमपि महान्तं ग्रन्थं

( ७ )

धारयितुमसमर्थान् विद्यारसिकान् दृष्ट्वा कश्चन कुशलस्तस्मादेव ग्रन्थात् सङ्ग्रह-
रूपेण तान्येव पद्यानि सङ्कलय्य शुक्रनीतिनाम्ना ग्रन्थमुपस्थापितवान् । सेयं
शुक्रनीतिः अद्य प्रकाश्यमाना विदुषां पुरतः उपस्थिता वर्तते ।

अत्र केचित्—महाभारतोक्तमौशनसशास्त्रं शुक्रनीतेरन्यदिति मन्यन्ते । तन्नाति-
मनोरमम् । चाणक्यः ग्रन्थारम्भे “ओं नमः शुक्रबृहस्पतिभ्याम्” इति मङ्गलं
कृत्वा तत्र शुक्रनाम निर्दिश्य स्वग्रन्थे पूर्वाचार्यमतपर्यालोचनावसरे औशनसेति
नाम्ना तदेव मतं निर्वक्ति ।

अथ प्रस्तुत-शुक्रनीतिविषये केचनाक्षेपद्वयमुपस्थापयन्ति । तयोर्वास्तविक-
त्वमस्ति न वेति प्रसङ्गात् विचार्यते । तत्रायं प्रथमः आक्षेपः, कौटिल्येन दण्डनीति-
रेकैक विद्येत्यौशनसं मतमस्तीति प्रतिपादितम् । अत्र तु—

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्र एवैता अभ्यसेन्नृपतिः सदा ॥

इत्युपलभ्यते । अतोऽयं शुक्रनीतिसारग्रन्थः कौटिल्यसम्मतौशनसशास्त्रापेक्षया भिन्नः
शुक्रादन्येन केनचित् प्रणीतः इति ।

अत्रोच्यते—“तस्यां हि सर्वविद्यारम्भाः प्रतिष्ठिताः” इति चाणक्यनिरूपितौ-
शनसमतदर्शनेनावगम्यते, यत् भगवान् शुक्राचार्यः स्वयं चतसृणामपि विद्याना-
मुपयोगं जानन्नपि शिष्यविशेषाणां पुरतः सर्वविद्यारम्भो दण्डनीत्यधीन एवेति
व्याजहारेति । तच्छ्रुत्वा ते शिष्या दण्डनीतेः प्राधान्यं तदभिप्रेतमिति स्वीचक्रुः ।
नह्यस्यायमाशयः, यत् इतरविद्यानामनुपयोगित्वमिति । स्वयं शुक्नो वा तच्छिष्या वा
तपस्विनो भूलोकादारभ्य ब्रह्मलोकपर्यन्तं गतिशीलाः आन्वीक्षिकीत्रयीवार्ताना-
मुद्देश्यसिद्धयनन्तरं निष्फलत्वं जानन्तो लोकसङ्ग्रहं चिकीर्षवः एकां दण्डनीतिमे-
वात्मसात्कर्तुं प्रायतन्त । कालक्रमेण तत्परम्परायां ब्रह्मवित्त्वह्रासो दण्डनीतेरेव
प्राधान्यं चाभूदिति दृष्ट्वा चाणक्येनोपयुक्तं मतमौशनससङ्केतेन प्रतिपादितम् ।
स्वयमुशनसस्तु मतं पृथक् प्रयोजनवत्त्वाच्चतसृणामपि विद्यानां लोकोपकारकत्व-

( ८ )

मस्तीत्यभिप्रायकमत्र ग्रन्थे निर्दिष्टम्। इत्युभयोस्सति समन्वये शुक्रनीतिसार-ग्रन्थो मूलभूतशुक्रनीतिग्रन्थात्सवर्ंथा भिन्न इत्यत्र प्रबलं प्रमाणं न पश्यामः ।

अपरश्चाक्षेपः—शुक्रनीतिसारे चतुर्थाध्याये त्रिंशत्तमश्लोकमारभ्य "बन्दूक" "तोप" पदवाच्यानामायुधानामुखेखः समुपलभ्यते । तद्द्वारा "गन् पाउडर" आदि वस्तुजातैर्निमितमभिचूर्णं निक्षिप्य शत्रुभञ्जनः कत्र्तव्यो भवति । "गन् पाउडर" पदार्थंश्च भारतीयैः पूर्वमज्ञातः “पोतुंगीज” जातीयैः पाश्चात्त्यविद्वद्भिरेव संशोध्य आविष्कृतः । इतीतिहासतो ज्ञायते । तस्मात् प्रस्तुतग्रन्थोऽयं 'पोतुंगीज' आक्रमणा-नन्तरं केनचिद् विदुषा निर्माय 'बन्दूक' 'तोप' आद्यायुधान्युल्लिख्य प्रकाशितः । स्वस्य ग्रन्थस्य प्रामाण्यख्यापनार्थं च शुक्रनीतिनाम्ना प्रसिद्धतां नीतः । इति ।

अत्रोच्यते—'गन् पाउडर' पदार्थे अपेक्षितं द्रव्यं 'सोरा' इति प्रख्यातं वस्तु । तच्च भारतीयैर्न ज्ञातमासीदिति पूर्वपक्षिणामाशयः। तदिदमबोधविजृम्भितम् । 'सोरा' नामकं वस्तु 'सुवर्चिका' नाम्ना आयुर्वेदग्रन्थेषु प्रसिद्धम् । तद्यथा शालग्रामनिघण्टौ—

'सूर्यंक्षारोऽर्कंक्षारश्च ताक्ष्यंस्त्रीक्षणरसस्तया ।
सुवर्चिका सार्वसहो क्षौरिणश्च शिलाजतु ॥ इति ।

तैत्तिरीयश्रुतिदर्शंनतोऽपि ज्ञायते । तथाहि—

एषा वै सूर्मी कर्णकावत्येतया ह स्म वै देवा असुराणां शततर्हाᳲ स्तूᳲ हन्ति यदेतया समिधमादधाति वज्रमेवैतच्छ्रतघ्नीं यजमानो भ्रातृव्याय प्रहरति । इति ।


१. संस्कृते— सूर्यंक्षारः
हिन्दीभाषायाम्—सोरा, सूर्याखार, बाजी,

भाषाशब्द
मराठीसोरा
गुजरातीसुरोखार
तैलंगीचिट्लुभस्ममु
इंग्रेजीनाइटर, साल्टपिटर
लैटिनपोटेश्यं नैंट्राम्,
फारसीशोरा
अरबीअबकेर, । इति ।