मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
इस ग्रन्थ के बारे में
पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।
यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।
ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।
५९४ मीमांसादर्शनम् [ सू०
प्रसिद्धमपि शास्त्रत्वं यस्तु तर्केण वारयेत् ।
वेदस्यापि स नित्यत्वाद् व्योमवद्वारयिष्यति ॥ ८९९
सदृष्टान्तं व्याकरणस्य शास्त्रत्वनिषेधे परिहारकथनम्
यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुम-
ध्यवसीयते, तथाऽऽकाशादिकालात्मनां१ परमाणुदृष्टान्तबलेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसूत्र-वार्त्तिक-भाष्यकाराणां विगानस्य परिहारः
२९ ] प्रथमाध्याये तृतीयपाद। ५९५
प्रमाणषट्कमूलत्वं पूर्वं चैषां प्रदर्शितम् ।
दृष्टादृष्टफलत्वेन तस्मान्नास्त्यप्रमाणता ॥ ९०८
एकस्य च यदा युक्त्या समूलत्वं निरूपितम् ।
पौरुषेयान्तरग्रन्थमूलताऽपि तदेष्यते ॥ ९०९
असंभावितमूलं हि पौरुषेयं यदुच्यते ।
मूले तस्याप्रतिष्ठत्वं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें५९६ मीमांसादर्शनम् [ सू०
सत्यं ब्रूयादित्यास्मृतिविहितस्य सत्यद्वयस्य निर्वचनम्
सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन, यागसाधनत्वेन च नियतम् ।
सत्यं च द्विविधं शब्दसत्यम्, अर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थ-
वचनं श्रेयःसाधनम्, एवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः
प्रत्यवायाय एवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ५९७
ज्ञानाच्चेद्धर्मः सिध्येत्, को नामानेकतालवादि व्यापारायासखेदमन्ुभवेत् ।
तस्मात्क्रतुवदेव ज्ञानपूर्वप्रयोगस्यैव फलं कारणे कार्यवदुपचारात्तण्डुले देववर्षण-
वज्ज्ञाने धर्मवचनमापादिताधर्मपरिहाराभिधानशक्तिमात्रप्रदर्शंनार्थमेवोप न्यस्तम्,
न फलवत्त्वप्रतिपादनाय। 'द्रव्यसंस्कारकर्मसु परार्थत्वात्' (४-३-१) इत्यनेन न्यायेन
ज्ञानस्य पुरुषशब्दसंस्कारत्वेन निराकाङ्क्षस्य फलसम्बन्धासम्भवात् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें५९८ मीमांसादर्शनम् [ सू०
न चैषा सम्प्रदायेन व्याकृतेत्यभिधीयते ।
तत्र ह्युच्यत इत्येव व्याकृतेति तु निष्फलम् ॥ ९२२
यद्यपि च मनुना पङ्क्तिपावनमध्ये वेदादेवोपलभ्योक्तं ‘यश्च व्याकुरुते
वाचं यश्च मीमांसतेऽध्वरम्’ इति । तेनापि पूर्वपश्चादुक्ताधीतवेदत्व-यज्ञमीमांसन-
व्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्व-
सिद्धिः ॥ २७-२८-२९ ॥
(इति व्याकरणाधिकरणम् ॥ ८ ॥)
न्या० सु०—भाष्यकृता पदोत्तरत्वेन सूत्रं व्याख्यातुं कथं पुनरित्याशङ्कितम् ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ५९९
ननु च कुत्वं कस्मान्न भवतीत्यादिलक्षणानुगमदर्शनाद्व्याकरणावयवभूतेष्वपि पदेषु
साधुत्वनिर्णयेन भाव्यमित्याशङ्क्य—पुनस्तैरेपोत्युक्तम् । अथ लक्ष्याणां शब्दानां साधुत्वे
सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेतीतरेतराश्रयमभिप्रेतं तत्राह--यदीति । न त्वेतदस्तीति
शेषः। ननु व्याकरणात्प्रागेव साधुत्वज्ञाने व्याकरणानर्थक्यं स्यादित्याशङ्कयाह—
निशानेति । श्लोकं व्याचष्टे—तेनेति । ननु लौकिकशब्दानां सङ्कीर्णत्वाद्व्रतवन्वाख्यान-
मर्थवद्वैदिकानां त्वसङ्कीर्णत्वादनर्थकमित्याशङ्कते — वेद इति । अनेन च नचाश्रितप्रतिपद-
पाठानां लक्षणं न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६०० मीमांसादर्शनम् [ सू०
तयोरनादित्वेऽवगम्यमानञ्चासौ वेदविधिश्चेति वेदविधित्वेनावगम्यमानत्वं हेतुः।
इतरेषामवगम्यमानो वैदिको विधिर्मूलं येषामित्यवगम्यमानवेदविधिमूलत्वं वैदिकस्य
विधेरनादित्वाक्षेपकत्वे वेदादीनां स्वरूपविधयः कार्यविधयः साधनविधयश्च दृष्टान्तिताः।
ध्वनिमात्राण्यसाधूनीत्यादिना गव्यादीनामवाचकत्वस्य लोकविरुद्धत्वं यदुक्तं
तत्परिहारायानुभाषते—यस्त्विति। भेर्यादिशब्दश्च मातृकाक्षपाठश्च प्रसिद्धानि च
न्यूनवर्णान्यतिरिक्तवर्णानि विपर्यस्तवर्णानि च यानि पदानि तद्व्यतिरिक्ता ये प्रसिद्धा
गव्यादयः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ६०१
तत्र—आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥
ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वंपथे चरन् ।
नाभिहृत्कण्ठमूर्द्धास्येष्वाविर्भावयति ध्वनिम् ॥
नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टापुष्टश्च कृत्रिमः ।
इति पञ्चाभिधावन्तः पञ्चस्थानस्थितीः क्रमात् ॥
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
कण्ठे मध्यो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६०२ मीमांसादर्शनम् [ सू०
नन्वेवमप्यर्थप्रत्यायनाङ्गत्वलक्षणस्य साधुत्वस्येन्द्रियग्राह्यत्वं नास्तीत्याशङ्क्य,
वाचकत्वस्य साधुत्वस्याविनष्टत्वेन निरूप्यत्वात्तद्विषयस्य ज्ञानस्य श्रोत्रजन्यत्वेनेन्द्रिय-
ग्राह्यत्वं नास्तीति वक्तुम्—अविनष्टेत्युक्तम् । प्रकृतिप्रत्ययान्वाख्यानस्मृतिसहकृतस्य च
श्रोत्रस्याविनष्टरूपविषयज्ञानहेतुत्वाद्वैयाकरणस्याज्ञानं युक्तमिति—स्मर्यमाणशब्देनोक्तम् ।
यथोदात्तादिरूपज्ञानश्रोत्रं स्मृतिमपेक्षते तद्वदविनष्टरूपज्ञानेऽपीति दृष्टान्तार्थः ।
लिङ्गग्राह्यत्वं विवृणोति—तदुत्तरेति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ६०३
त्वादङ्गविषयत्वम्, अपशब्दनिषेधस्यावसीयत इति सूचयितुम् - यथोक्तमित्युक्तम् । यच्च
प्रतिशब्दं विधिनिषेधवाक्यानुमानकल्पनानुपपत्तेर्न साध्वसाधुतोर्विधिनिषेधविषयत्वं
सम्भवतीत्युक्तम् । तत्परिहरति - द्वाभ्यामेवेति । ऋत्वर्थपुरुषार्थविध्योर्भेदेऽपि विधित्वेनैक्यं
मत्वा - द्वाभ्यामित्युक्तम् । ननु वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं
विधिप्रतिषेधानपेक्षं नैव किञ्चित्प्रमाणत्वेन सम्भवतीत्यनेन वेदस्य स्वरूपपरत्वनिषेधात्कथं
स्वरूपज्ञानार्थं शास्त्रविषयता साध्वसाधुत्वयोरुक्तेत्याशङ्क्याह - न चेति । 'यावदेकाहेनाश्वो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६०४ मीमांसादर्शनम् [ सू०
ननु प्रत्यक्षादित्रयविषयत्वाभिधानमात्रेण परोक्तश्लोकप्रतिकञ्चुकसिद्धेरुपमानादि-
त्रयविषयत्वाभिधानं किमर्थमित्याशङ्कयाह—इतीति। व्यापारशब्देनाभावोपमानयोः
साक्षात्साध्वसाधुत्वनिर्णायकत्वाभावेऽपि व्यापारसद्भावात्तद्विषयतेति सूचितम् । प्रयोगेऽप्य-
स्त्यसङ्कर इत्येतद्विवृणोति—यद्यपीति । मातापितृसम्बन्धकुशलानां ब्राह्मणादिविवेक-
वत्प्रकृतिप्रत्ययान्वाख्यानकुशलानां साध्वसाधुशब्दविवेकोऽस्तीत्यर्थः । किञ्च साधुत्वं नाम
दोषवर्जितत्वम् । तच्चान्यत्रापि परीक्षकगम्यं दृष्टमित्याह—यथा चेति । रत्नतत्त्वपरीक्षका
यथा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ६०५
काराणां विरुद्धयेत । स्वातन्त्र्येण तु सर्वदा साधुभाषणनियमे मौने दोषोऽपरिहार्यः ।
स्वाभिप्रायप्रकाशनद्वाराऽर्थज्ञापनं मौनिनाक्षिनिकोचादिना क्रियमाणं न श्रेयःसाधन-
मित्यक्षिनिकोचादिव्यावृत्त्यभिधानेनैव सूचितम् । अतश्च भोजनादौ मौनविधाने शाकादे-
र्भाषणनिवारणादि हस्तसंज्ञादिना न कार्यं शिष्टाचारविरोधपरिहारार्थं वा मौनविध्य-
भावविषयत्वं साधुभाषणनियमस्य कल्पनीयम्, भाषणानुवादेन साधुनियामकत्वं कल्प्यम् ।
साधुभाषाशब्दस्त्वस्मिन्पक्षे विशेषणाशयः ।
नन्वन्यनिवृत्त्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६०६ मीमांसादर्शनम् . [ सू०
त् क्रियारूपस्य नैराकाङ्क्ष्येऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेर्युक्त-
मित्यभिप्रायेणानुभाषणपूर्वकं परिहरति—यत्त्विति ।
ननु फलसिद्धयर्थत्वाद् अपूर्वकल्पनायात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य
क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह—क्रत्वर्थमिति । एतदेवोपपादयितुमेकस्य
उभयत्वं संयोगपृथक्त्वादिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति—एकस्य त्विति ।
ननु तत्र दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्माद् गुणानां
च.
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२९ ] प्रथमाध्याये तृतीयपादः ६०७
ब्राह्मणेन म्लेच्छितवा इति ज्योतिष्टोमप्रकरणाधीतापशब्दनिषेधसामर्थ्यलभ्याद्यज्ञमध्यगत-
मुक्तभाषणविषयात्साधुशब्दनियमादपूर्वं तज्जञ्जभ्यमानन्यायेनापशब्दवर्जनस्य क्रतुयुक्त-
पुरुषधर्मत्वावधारणेन क्रतुसाधनीभूतपुरुषाश्रितमित्यर्थः ।
क्रत्वाङ्गभूतानामपि पदार्थानामङ्गस्वरूपेण यदभिधानं तदर्थं तद्विषयम् यन्न भवती-
त्यनङ्गत्वाभिधानार्थमित्युक्तम् । अपूर्वहेतोर्नियमस्याभिधानविषयत्वमुपचारेणापूर्व्वेऽभि-
हितम् । यद्वाऽङ्गभूतस्यापि यस्यानङ्गत्वेन प्राप्तत्वेनाभिधानं यस्य स अनङ्गत्वामिधानो
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६०८ मीमांसादर्शनम् [ सू०
उत्तरार्द्धं व्याचष्टे—बाह्येति । साधुशब्दप्रयोगस्य फलसाधनतैवाऽवगम्यमाना प्रयोक्तुः
फलभोक्तृत्वमाक्षिपतीत्याशयः । अनेन वानप्रस्थपदं चात्र विद्यत इति परिहृतम् । यच्च न
वेदोच्चारणमुच्चारयित्रर्थमित्यनेनोच्चारणस्य पुरुषार्थपूर्वंद्धारता न युक्तेत्युक्तम्, तत्परि-
हरति — यद्यपि चेति । अन्यार्थाश्रितस्य निषेधस्यान्यार्थत्वे तदहर्मांसमैथुने वर्जयेदिति
दर्शपूर्णमासप्रकरणाधीतं निषेधमुदाहरति — तथा हीति । नियमस्यान्याश्रितस्यान्यार्थत्वे
'खादिरं वीर्यकामस्य यूपं कुर्यादित्युदाहरणमाह—क्रत्वर्थादिति । ननु संयोगपृथक्त्वाच्च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७-२९ ] प्रथमाध्याये तृतीयपादः ६०९
परम्परान्यायः स्यादित्याह-- असम्भावितेति । यच्च परस्परेण चाचार्या इत्यादिनाऽ-
न्योन्यविगानादप्रामाण्यमुक्तं तदप्यनुभाष्य परिहरति -- यत्त्विति । श्रुतीनां च विगीतत्वे
तन्मूलश्रुतीनामविगानमेवा प्रामाण्यमापादयेदित्याह -- विगीतेति । न चान्योन्यसंवादः
प्रामाण्यकारणं येन तदभावादप्रामाण्यं स्यादित्याह -- मूलेति । उपसंहरति - परस्परेति ।
सिद्धे वस्तुनि विकल्पायोगाद्यथासम्भवविषयं विकल्पाभिधानं न सर्वविगीतव्याकरणस्मृति-
विषयम् । विगानं च धर्माधर्म्मसाधनत्वविषयं वा स्यात्, अन्वाख्यानविषयं वा, सूत्र-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६१० मीमांसादर्शनम् [ सू०
विवृणोति शब्दसाधुत्वेति । उपसंहरति-तस्मादिति । शास्त्रेण सर्वशब्दान्वाख्यानस्य
प्रयोजनं यत्स्वयं सूत्रकृता नोक्तम्, तद्विज्ञायमानत्वान्नाभावाभिप्रायेणादित्यर्थः । नित्यसापेक्षत्वे-
नान्त्वाख्यानशब्दस्य समासाविघातः ।
यच्च सुज्ञानत्वनिरासाय सुज्ञानत्वं पुनरीदृशम्, येनाद्यापि विवदन्त इत्युक्तं तदसिद्ध-
मित्याह-न चेति । ननु मुख्यमुख्यप्रयोजनासम्भवेन निष्प्रयोजनत्वस्य पूर्वपक्षेऽभिधानाद्
विवादोऽस्त्येवेत्याशङ्कयाह-स एव त्विति । प्रयोजनप्रस्तावे तीर्थिकान्तरविप्रतिपत्तावपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७-२९ ] प्रथमाध्याये तृतीयपादः ६११
ज्ञानादधर्म्मपत्तिर्दोष इति, द्वेषेण वार्त्तिकव्याख्योक्ता । यथा व्याकरणाच्छब्दज्ञानं भवति,
एवमपशब्दज्ञानमपीत्यपि शब्दो योज्यः । अधर्म्मत्वापत्तिरिति च शब्दार्थं न विद्मः । शब्दा-
नुशासनार्थद्वया करणात्कथमपशब्दज्ञानमित्याशङ्का, साध्वसाधुविवेकार्थत्वे व्याकरणस्य
तन्त्रेण साध्वनुशासनमात्रार्थत्वे--प्रसङ्गेनेत्युक्तम् । किमर्थोऽभ्युपेत्यवाद इत्यापेक्षायाम्—
पूर्वोक्तेत्युक्तम् ।
अत्र भाष्यकृता नैष दोषः, शास्त्रप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणं
शब्दश्च शब्दज्ञाने धर्म्ममाह,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें५१२ मीमांसादर्शनम् [ पृ०
शब्दज्ञानस्य संस्कारत्वं परार्थ्यं चोपपादयितुमाह- सर्वत्रैव हीति। संस्कारस्यापि
चूडाकरणाधानादेः संस्कार्यसाध्यकर्मार्थत्वाभावात्तेन च विना फलश्रुतेरर्थवादत्वाभावात्-
पराङ्गं चेत्युक्तम्। पुरुषार्थस्यात्मज्ञानस्य पराङ्गत्वाभावात् - ततोऽन्यत्रेत्युक्तम्। इति-
करणः संस्कारत्वपारार्थ्यत्वाभावत्वपरामर्शार्थः । संस्कारत्वपारार्थ्यत्वभाष्यावधारणाच्च-
स्मात्सर्वत्र ज्ञानं संस्कारत्वेन पराङ्गत्वेनाऽवगम्यते। तस्माच्छब्दज्ञानमपि तथेति हिशब्दो
योज्यः। ननु सम्बन्धग्रन्थे कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यत इत्यत्र,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२७-२९ ] प्रथमाध्याये तृतीयपाद। ६१३
स्पष्टस्यापरोक्षरूपस्यात्मतत्त्वज्ञानस्य विधानम्, तदपेक्षितस्य वाक्यान्तरोपात्तस्य द्विविध-
स्याभ्युदयरूपस्य निश्रेयसरूपस्य च फलस्य सम्बन्धः कामवाद-लोकवाद-वचनविशेषैर्ज्ञायत-
इत्येवं क्रत्वर्थं पुरुषार्थत्वेन ज्ञायत इत्येतत्पक्तिकागतपदानुषङ्गेण योज्यम् । श्रुतिभेदज्ञाप-
नार्थः पुनस्तथाशब्दः । सगुणात्मज्ञानविध्यपेक्षिताभ्युदयरूपफलं सम्बन्धज्ञापकं कामवादं
तावदुदाहरति-स सर्वांश्चेति । लोकवादाः कामोपभोगार्थत्वेनैकवाक्यत्वायाभिधाना-
त्कामवादोऽयमभिप्रेतः । तद्विषयमेव लोकवादमुदाहरति — तथेति । पितृलोकेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें