मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 667, कुल 804 में से
संदर्भ में पढ़ें२७-२९ ] प्रथमाध्याये तृतीयपाद। ६१३
स्पष्टस्यापरोक्षरूपस्यात्मतत्त्वज्ञानस्य विधानम्, तदपेक्षितस्य वाक्यान्तरोपात्तस्य द्विविध-
स्याभ्युदयरूपस्य निश्रेयसरूपस्य च फलस्य सम्बन्धः कामवाद-लोकवाद-वचनविशेषैर्ज्ञायत-
इत्येवं क्रत्वर्थं पुरुषार्थत्वेन ज्ञायत इत्येतत्पक्तिकागतपदानुषङ्गेण योज्यम् । श्रुतिभेदज्ञाप-
नार्थः पुनस्तथाशब्दः । सगुणात्मज्ञानविध्यपेक्षिताभ्युदयरूपफलं सम्बन्धज्ञापकं कामवादं
तावदुदाहरति-स सर्वांश्चेति । लोकवादाः कामोपभोगार्थत्वेनैकवाक्यत्वायाभिधाना-
त्कामवादोऽयमभिप्रेतः । तद्विषयमेव लोकवादमुदाहरति — तथेति । पितृलोकेन मातृलोकेन
भ्रातृलोकेन स्वसृलोकेन सखिलोकेन गन्धमाल्यलोकेन यानलोकेन सङ्गीतवादित्रलोकेन
स्त्रीलोकेन सम्पन्नो महीयत इति जनकादिभिः सुखसाधनयोग्यत्वेन लोकशब्दवाक्यैः
सम्पत्त्यभिधानात् लोकवादोऽयमभिप्रेतः । एतच्च जनकादिसम्पत्तिवचनं यं कामं कामयते
सोऽस्य सङ्कल्पादेव समुत्तिष्ठतीत्युपसंहारादष्टगुणैश्वर्यसिद्धयभिप्रायम् । न स्वर्गकामादि-
श्रुतिवन्नियतफलपरमिति दर्शयितुम्-योगजन्येत्युक्तम् । योगबलात्परमाणुवदतिसूक्ष्मता,
पर्वतवन्महत्त्वम्, सूर्यरश्म्यवलम्बनादिरूपं लाघवम् । करेण चन्द्रस्पर्शादिरूपप्राप्तिः ।
अप्स्रिवव भूमावुन्मज्जनन्मिक्षणादीच्छाद्यनभिघातः । प्राकाम्यं भूतभौतिकाज्ञापयितृत्व-
रूपमीशित्वम् । भूतभौतिकानां तदाज्ञासञ्चरणं वशित्वं अनाज्ञातानामेव तदिच्छानुरोध-
वृत्तित्वं कामावसायित्येत्यष्टौ गुणाः ।
अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमित्यपि ।
ईशित्वं च वशित्वं च यत्र कामावसायिता ॥ इति स्मृताः
सगुणात्मज्ञानफलप्रतिपादकं कामवादम्, लोकवादम्, चोदाहृत्य निर्गुणात्मज्ञान-
विध्यपेक्षितनिःश्रेयसरूपफलप्रतिपादकं वचनविशेषमुदाहरति-तथेति । लोकात्मकब्रह्म-
प्राप्तिरूपस्य फलस्याक्षयत्वाभिधानाद्वचनविशेषोऽयमभिप्रेत इत्यपुनरावृत्त्यात्मकपरमात्म-
प्राप्यवसायस्य फलस्य वचनमित्यनेन सूचितम् । स्थानविशेषात्मकलोकप्राप्तेर्जन्यत्वेना-
क्षयत्वानुपपत्तिमाशङ्क्य परमात्मैव ब्रह्मशब्दवाच्यः । परमानन्दोपभोगे हेतुत्वकर्मधारय-
समासाश्रयेण लोके विवक्षितः तत्राप्तेश्च शरीरसम्बन्धोपाधिककर्तृभोक्तृत्वात्मकसंसारि-
रूपावस्थापरित्यागेना कर्तृभोक्तृत्वात्मकः संसारिरूपनिजावस्थात्मकत्वेनाजन्यत्वाद्युक्तमक्षय -
त्वमिति सूचयितुम्-परमात्मेत्युक्तम् । अनोपाधिकरूपमभिप्रायः परमशब्दः। पूर्वकृताशेष-
बन्धहेतुकर्मक्षयाद्वा संसारिरूपप्राप्तौ कर्तृत्वाभावेन कर्म्मान्तरानुपपत्तेः पुनर्भवासम्भवे-
नापुनरावृत्तेः प्राप्ताया अनुवादात्तत् फलं तदक्षयत्वरूपार्थद्वयाभिधाननिमित्तवाक्यभेदा-
पत्तिरिति सूचयितुमपुनरावृत्तेर्ब्रह्मप्राप्तितो भेदनिरासायापुनरावृत्त्यात्मकतोक्ता ।
कामवादलोकवचनविशेषजिज्ञासामनःसहितेति पाठे त्वेवं व्याचक्षते । कामःसत्यकामत्वं
वादः सत्यवादः लोकः सूर्यमण्डलाद्युपासनस्थानं वचनविशेष उपदेष्टृत्वं कामादिभिर्मेनः-
पर्यन्तैः सहितस्यात्मनो ज्ञानमित्यवान्तरसमासार्थः । केन वाक्यान्तरेणाभ्युदयरूपं फल-
मुपात्तमित्यपेक्षायां वाक्यद्वयमुदाहृतम् । निःश्रेयसरूपं केनोपात्तमित्यपेक्षायां स ब्रह्मोपासको
यावदायुषमेवंविधां वृत्तिमाचरन् कुर्वंल्लोकात्मकं ब्रह्माभिसम्पद्यते इति वाक्यमुदाहृतम् ।