सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 660, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 660

६०६ मीमांसादर्शनम् . [ सू०
त् क्रियारूपस्य नैराकाङ्क्ष्येऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेर्युक्त-
मित्यभिप्रायेणानुभाषणपूर्वकं परिहरति—यत्त्विति ।
ननु फलसिद्धयर्थत्वाद् अपूर्वकल्पनायात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य
क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह—क्रत्वर्थमिति । एतदेवोपपादयितुमेकस्य
उभयत्वं संयोगपृथक्त्वादिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति—एकस्य त्विति ।
ननु तत्र दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्माद् गुणानां
च. परार्थत्वादसंबन्धः समत्वात्स्यादि३-१-२२त्यनेन न्यायेन परस्परासङ्गतेरेकेन विहितस्य
दध्नः, परेण फलबोधाद्योगात्परस्परनिरपेक्षवाक्यद्वयेन युक्तोभयरूपता । नन्विह तथाविधं
वाक्यद्वयं श्रूयत इत्याशङ्कयाह—तच्चेहेति । ब्राह्मणेन न म्लेच्छितवा इति प्रकारणिकेन
निषेधेनासाधुभाषणस्य ऋतुवैगुण्यापादकत्वावगतेरर्थात्साधुभाषणनियमस्य क्रत्वर्थता-
वसीयते ।
एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवतीति
चानारभ्यवादेन शास्त्रशब्दस्य रूढ्या विद्यास्थानवाचित्वात्सम्प्रदायपरतया व्याख्यानानु-
पपत्तेर्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थतावसीयत
इत्यर्थः ।
ननु भाषणस्यार्थप्रतिपत्त्यर्थत्वेन जुह्वादिवत्पारार्थ्यादपापश्लोकश्रवणवत्स्वर्गे लोके
कामधुगिति फलश्रुतेरर्थवादत्वात्पर्णमयीत्वनियमवद्दृष्टवत्साधु नियम्यादृष्टस्यापि पुरुषार्थता न
युक्तेत्याशङ्कयाह--तत्रेति । यदि क्रत्वर्थस्य भाषणस्योपायनियमरूपफलश्रुतिरेषा स्यात्,
ततो भवेदर्थवादस्यानारभ्यविहितस्य तु भाषणस्य क्रत्वर्थत्वे प्रमाणाभावाद् दृष्टार्थव्यवहार-
हेतुत्वेन शुद्धपुरुषार्थत्वावगतेस्तस्य च नियमं विनापि सिद्धेरदृष्टफलाकाङ्क्षिणि नियमे
फलनिर्देशात्फलमेवावसीयत इत्यर्थः । एतदुपपादनार्थं फलमात्रेयो निर्देशादिति सूत्रोक्तं
चतुर्थन्यायं दर्शयितुम्—आत्रेयेत्युक्तम् । श्लोकं व्याचष्टे क्रत्वर्थं हीति । पुरुषार्थांश इत्य
नवधारितक्रत्वर्थत्वमात्रामिप्रायेण नियमस्य पुरुषार्थंतोक्ता । अनेन च क्रत्वर्थस्यांश इति
क्रत्वर्थंशब्दे विग्रहः सूचितः ।
यच्च न चेदं नियमापूर्वमित्याश्रयासम्भवेनेह—अपूर्वकल्पना न युक्तेत्युक्तम् ।
तदनुभाष्य परिहरति—यस्त्विति । पूर्वार्धेन क्रत्वर्थशब्देन साधुभाषणनियमस्यानृतवदन-
वर्जनवच्छुद्धक्रतुधर्मत्वाभिधानात्, तस्य च ऋतुसंयुक्तपुरुषधर्मविषयब्राह्मणसंयुक्तवाक्य-
विषयत्वायोगात्तस्मादेषा व्याकृता वागुद्यत इत्यनेन वाक्येन या वागुद्यते, साव्याकृतेति
वाग्वदनानुवादेन व्याकरणानुगतत्वविधिप्रतीतिरनारभ्याधीतस्यापि चेषेति सर्वनाम्ना-
सन्निहितवैदिकवाग्वदनविषयत्वप्रतीतेलौकिकविषयत्वे च फलकल्पनागौरवापत्तेर्वेदिककर्माङ्ग-
भूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं
यदवघातादिनियमजन्यापूर्ववत् शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतेष्वेव व्रीह्यादिष्वाश्रितम्, यत्तु न