मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 657, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ६०३
त्वादङ्गविषयत्वम्, अपशब्दनिषेधस्यावसीयत इति सूचयितुम् - यथोक्तमित्युक्तम् । यच्च
प्रतिशब्दं विधिनिषेधवाक्यानुमानकल्पनानुपपत्तेर्न साध्वसाधुतोर्विधिनिषेधविषयत्वं
सम्भवतीत्युक्तम् । तत्परिहरति - द्वाभ्यामेवेति । ऋत्वर्थपुरुषार्थविध्योर्भेदेऽपि विधित्वेनैक्यं
मत्वा - द्वाभ्यामित्युक्तम् । ननु वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं
विधिप्रतिषेधानपेक्षं नैव किञ्चित्प्रमाणत्वेन सम्भवतीत्यनेन वेदस्य स्वरूपपरत्वनिषेधात्कथं
स्वरूपज्ञानार्थं शास्त्रविषयता साध्वसाधुत्वयोरुक्तेत्याशङ्क्याह - न चेति । 'यावदेकाहेनाश्वो
याति तावदाश्वीनं । ननु तत्राप्यविनाशी वा अरेऽयमात्मा ज्ञातव्य इत्येवंविधिपरस्यैव
शास्त्रस्य स्वरूपज्ञानार्थत्वान्न तन्निरपेक्षस्येत्याशङ्क्याह अथापीति । अत्रापि तह्यर्थं-
प्रत्यायनाङ्गत्वविशिष्टलक्षणानुगतस्वरूपैकोप लक्षणोपपत्तेर्यऽर्थप्रत्यायनाङ्गभूताः शब्दा लक्षणा-
नुगताः ते साधवः, अन्ये चासाधवः प्रत्येत्तव्या इत्येवं ज्ञात्वा शास्त्रावधारितप्रयोजनान्
शाधुशब्दान्प्रयोक्तुमिच्छेन्नानर्थंप्रत्यायनाङ्गभूताः शब्दा लक्षणेनानुगतास्ते साधवः न वा
लक्षणेनाननुगता नित्येवं विधिनिषेधपरयोः शास्त्रयोः साध्वसाधुस्वरूपज्ञानार्थत्वं भविष्य-
तीत्याशयः । यावद्रूपमित्यनेन द्वयोरेव विधिनिषेधयोरेकेनोपलक्षणेन - सर्वशब्दापशब्द-
व्यापित्वमुक्तम् ।
शास्त्रस्य विषयोऽप्येष इत्यपिशब्दसूचितमुपमानादिप्रमाणविषयत्वं दर्शयन्नुपमानं
तावद् द्विविधमाह- निः सन्दिग्धेति । यो ह्यविनष्टत्वेन निःसन्दिग्धो वृद्धप्रयुक्तो देवदत्त-
शब्दो, यश्च विनष्टत्वेन निःसन्दिग्धो बालप्रयुक्तस्तत्तु शब्दस्तत्साहश्यं यच्च पटुकरणाभि-
व्यक्त्यत्त्वादिधर्मसामान्यभूतस्वरूपं गोशब्दादेरुपमानेनावगम्य पटुकरणाभिव्यङ्ग्यत्वस्य
विनष्टाविनष्टरूपत्वेन देवदत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वेन देव-
दत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वानुमानं सम्भवतीत्युपमानपूर्वका-
नुमानविषयत्वं साध्वसाधुत्वयोरुपचारादुपमानविषयत्वेन विवक्षितमिति - शष्यशब्देन
सूचितम् । सङ्कीर्णं साधुविषयं चेदमुपमानं लक्षणानुगतवैदिकशब्दसादृश्यं लक्षणानुगतत्वस्या-
विनष्टत्वेन वैदिकेषु व्याप्तिदर्शनात् लौकिकेष्वविनष्टत्वानुमानमित्येतदप्युपमानपूर्वकमेवानु-
मानमसङ्कीर्णसाधुत्वविषयमिति दर्शयितव्यमित्यनेन सूचितम् । सङ्कीर्णसाधुत्वविषयां
तावदर्थापत्तिमाह - तथेति । लक्षणनैरपेक्ष्याभिप्रायो लौकिकशब्दः । वृद्धव्यवहारनिबन्ध-
नेनार्थप्रत्ययेन द्योत्थापिता वाचकत्वविषयार्थापत्तिः, तया विनष्टस्य स्वाभाविकाभिधान-
शक्तत्वरूपवाचकत्वानुपपत्तेरविनष्टरूपं साधुत्वं गाव्यादिशब्दसङ्कीर्णं निश्चीयत इत्यर्थः ।
असङ्कीर्णसाधुत्वविषयामर्थापत्तिमाह - तत् इति । अन्याशक्तिनिमित्तं तदनासक्तिनिमित्तं
स्पृष्टादिकरणवैगुण्यनिमित्तं वा यत्सम्भवत्यपभ्रष्टं रूपम्, तद्वर्जितस्य केवलस्य साधोर्यल्लक्षणे-
नान्वाख्यानम्, तदन्यथानुपपत्त्या गोशब्दादेरेव साधुतेति सिद्धम् । गवादिराब्दनियतमसङ्कीर्ण-
साधुत्वज्ञानमित्यर्थः । गाव्यादिशब्दानां लक्षणाभावस्यासाधुत्वं विनानुपपत्तेरभावपूर्वक-
यार्थापत्त्या साधुत्वाभावनिश्चयात्तद्वारेणाभावस्यापि साध्वसाधुत्वनिर्णयो विषय इत्याह-
अपभ्रंशेष्विति ।