सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 663, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 663

२७-२९ ] प्रथमाध्याये तृतीयपादः ६०९
परम्परान्यायः स्यादित्याह-- असम्भावितेति । यच्च परस्परेण चाचार्या इत्यादिनाऽ-
न्योन्यविगानादप्रामाण्यमुक्तं तदप्यनुभाष्य परिहरति -- यत्त्विति । श्रुतीनां च विगीतत्वे
तन्मूलश्रुतीनामविगानमेवा प्रामाण्यमापादयेदित्याह -- विगीतेति । न चान्योन्यसंवादः
प्रामाण्यकारणं येन तदभावादप्रामाण्यं स्यादित्याह -- मूलेति । उपसंहरति - परस्परेति ।
सिद्धे वस्तुनि विकल्पायोगाद्यथासम्भवविषयं विकल्पाभिधानं न सर्वविगीतव्याकरणस्मृति-
विषयम् । विगानं च धर्माधर्म्मसाधनत्वविषयं वा स्यात्, अन्वाख्यानविषयं वा, सूत्र-
प्रत्याख्यानसमाधानरूपं वा, इष्ट्युपसंख्यानावापारूपम्, तत्र सूत्रकृतोऽपि प्रयोजनाभावाभि-
प्रायाभावमभिप्रेत्य धर्माधर्म्मसाधनत्वे तावद्विगानं नास्तीत्याह - धर्म्मेति ।
यत्तु -
सम्बोधने त्यूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।
माध्यन्दिनिर्व्विगुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥
इत्याद्यन्वाख्यानविगानम्, तत्र ब्रूमः पदार्थात्मानः सर्वेष्वेतेषु भिद्यते (श्लो० वा० वा०
श्लो० १८२) इति तद्भूताधिकरणोक्तेन न्यायेन लक्ष्याणां सान्तनान्तादिशब्दानां भेदाद-
विरुद्धमित्याह - अन्वाख्यानेति । सूत्रप्रत्याख्यानसमाधानयोश्च तर्कमूलत्वात्, तस्य चोच्चा-
वचपुरुषबुद्धिप्रभवत्वेनानेकत्वरूपत्वोपपत्तेर्न व्याकरणाप्रामाण्यापादकतेत्याह- पुनरुक्तत्वा-
दिना हीति । हिशब्दोऽप्यर्थे वैदिकत्वाच्च मूलत्वे तस्यैकरूपत्वेनानेकरूपप्रत्याख्यानाच्चानु-
पपत्तिः स्यात्, न त्वेतदस्तीत्यर्थः ।
इष्ट्युपसंख्यानयोरपि व्याकरणान्तरमूलत्वादधिकोपसंख्यानस्य च मूलोपसंख्याना-
प्रामाण्यप्रसञ्जकत्वान्न व्याकरणाप्रामाण्यापादकतेत्याह - ये चापीति । अल्पविषयत्व-
मात्रस्याप्रामाण्यकारणत्वाभावं दृष्टान्तेनोपपादयति- तद्यथेति ।
ननु सूत्रकारस्य प्रयोजनानभिधानात्तद्भावाभिप्रायावगतेः, वार्त्तिककारादिभिश्च प्रयो-
जनाभिधानाद्विगानमुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्यानुभाषणपूर्वकं परिहारमाह-
यस्त्विति । वार्त्तिककृता शास्त्रेण धर्म्मनियम इति वदता साधुशब्दप्रयोगद्वारा धर्म्मसिद्धिः
परं प्रयोजनमुक्तम् । भाष्यकृता चाथ शब्दानुशासनमिति वदता साधुशब्दज्ञानं साक्षात्प्रयो-
जनमुक्तम् । तत्र यस्तावद्वार्त्तिककारोक्तप्रयोजनानभिधाननिमित्तः सूत्रकारस्योपालम्भः कृतः,
स चोपालम्भनत्वस्यानर्होऽसमर्थः श्रुतिस्मृतिसिद्धत्वनिबन्धनत्वादप्रयोजनानभिधानस्य,
भाष्यकारोक्तस्य च लक्षणश्रवणानन्तरमेव स्वसंवेद्यत्वेन सुज्ञानत्वादित्यर्थः । एकैकसूत्रेण
शब्दाज्ञानात्- ग्रन्थान्तर इत्युक्तम् । धर्म्मसिद्धेः श्रुतिस्मृतिसिद्धत्वं विवृणोति- सत्येति ।
कामधुगादिश्रुतेर्व्वर्त्तमानापदेशत्वेन फलपरत्वस्य दुर्ज्ञानत्वात्साधुशब्दप्रयोगविधिपरत्वेनान-
भिमतौपि सत्यवचनविषया श्रुतिः स्मृतिश्चोपरिक्षिप्ता । ननु सत्यशब्दस्य लोकवेदयोरर्थ-
विषयत्वाप्रसिद्धेः शब्दविषयता न युक्तेत्याशङ्कय, प्रौढिवादेन पूर्वोक्तमेवोभयविषयत्वं
स्मारयति - सत्यं चेति । नानृतं वदेदित्यभिधानार्थत्वाद्वदतेरर्थाभिधानकाल एवासाधुभाषणं
प्रत्यवायहेतुः, नान्यदेति विनियोगकालविशेषेणोक्तम् । साधुशब्दज्ञानस्यानुभवसिद्धत्वं
३९