मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 649, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपाद। ५९५
प्रमाणषट्कमूलत्वं पूर्वं चैषां प्रदर्शितम् ।
दृष्टादृष्टफलत्वेन तस्मान्नास्त्यप्रमाणता ॥ ९०८
एकस्य च यदा युक्त्या समूलत्वं निरूपितम् ।
पौरुषेयान्तरग्रन्थमूलताऽपि तदेष्यते ॥ ९०९
असंभावितमूलं हि पौरुषेयं यदुच्यते ।
मूले तस्याप्रतिष्ठत्वं रूपे जात्यन्धवाक्यवत् ॥ ९१०
इह तु समूलत्वादेकान्तरितप्रामाण्यसिद्धिः ।
सूत्र-वार्त्तिक-भाष्यकाराणां विगानस्य परिहारः
यत्तु सूत्रवार्तिकभाष्यकाराणामन्योन्यविगीतवचनत्वादप्रमाणत्वमिति ।
तत्राभिधीयते—
स्मृतीनामप्रमाणत्वे विगानं नैव कारणम् ।
श्रुतीनामपि भूयिष्ठं विगीतत्वं हि दृश्यते ॥ ९११
विगीतवाक्यमूलानां यदि स्यादविगीतता ।
तासां ततोऽप्रमाणत्वं भवेन्मूलविपर्ययात् ॥ ९१२
मूलानुरूप्येण हि स्मृतीनां प्रमाणत्वं तदविगानेन—
परस्परविगीतत्वमतस्तासां न दूषणम् ।
विगानाद्धि विकल्पः स्यान्नैकत्राप्यप्रमाणता ॥ ९१३
धर्मसाधनतांशे च विगानं नैव विद्यते ।
अन्वाख्यानविगानं तु लक्ष्यभेदान्न दुष्यति ॥ ९१४
सूत्रप्रत्याख्यानस्य समाधानम्
पुनरुक्तत्वादिना हि यत्सूत्रप्रत्याख्यानम्, तस्य च पुनः समाधानम् ।
यस्यावैदिकमूलत्वान्न किंचिदपि दुष्यति ।
ये चापीष्ट्युपसंख्याने ते च स्मृत्यन्तराश्रिते ॥ ९१५
न चाधिकोपसंख्यानान्न्यूनस्यास्त्यप्रमाणता ॥ ९१६
तद्यथा—वाजसनेयिशाखायामाध्वर्यवं चरकशाखासु च बह्वित्येतावता
नाल्पविषयप्रमाणीकुर्वन्ति । तस्मादयमपि न दोषः ।
यस्तु सूत्रकारस्य प्रयोजनानभिधानोपालम्भः ।
स श्रुतिस्मृतिसिद्धत्वान्नोपालम्भत्वमर्हति ।
ग्रन्थान्ते च स्वसंवेद्यं सुज्ञानं तत्प्रयोजनम् ॥ ९१७