सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

९ कथासरित्सागर

९ कथासरित्सागर
आगमिष्य स्वमादाय हृत्पद्मं त्वत्प्रियाकृते।
वासोदुम्बरवृक्ष हि तदिदानीं मम स्थितम्॥१२०॥
सञ्छ्रुत्वा शिश्रुमारस्तमार्त्तो मूर्खोऽब्रवीदिदम्।
तर्ह्येतदानयेहि त्वमुदुम्बरतरोर्चिरे॥१२१॥
आनितायाम्बुधेस्तीरं शिशुमारः पुन' स तम्।
तत्र तनान्तकेनेव मुक्तः स च कपिस्तटम्॥१२२॥
उत्पत्यारुह्य वृक्षाग्रं शिशुमारमुवाच तम्।
गच्छ रे मूर्ख हृदयं यद्वाङ्ग्भवति किं पृथक् ॥१२३॥
मयैव मोचितो ह्यात्मा न चात्रैष्याम्यहं पुनः।
किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया॥१२४॥
कर्णहृदयहीनस्य गर्दभस्य कथा
आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्वचित्।
॥१२५॥¹
स जात्वाखेटकायातेनात्र भूपेन केनचित्।
आहतो ह्तिमिश्चिद्वन् कथमप्यविशद्गुहाम्॥१२६॥
तत्र स्थितः गते तस्मिन् राजन्याहारनिःसहम्।
तच्छेयामिषवृत्तिं सन्गोमायुः सचिवोऽभ्यधात् ॥१२७॥
निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो।
सीदत्येव शरीरं ते मम परिजनेन यत्॥१२८॥
इत्युक्तः स शृगालेन तेन सिंहो जगाद तम्।
सद्य नाहं व्रणश्रान्तः शक्नोमि भ्रमितुं क्वचित्॥१२९॥
खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम्॥
तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च॥१३०॥
तदानय कुतोऽपि त्वं गत्वा गर्दभमाशु मे।
इत्युक्तस्तेन गोमायुः स तथेति ययौ ततः ॥१३१॥
भ्रमञ्जलान्तिकं लब्ध्वा रजकस्य स गर्दभम्॥
प्रीत्येवोपेतय वक्ति स्म दुर्बलः किं भवानिति॥१३२॥
१ मूलपुस्तके पदार्धं त्रुटितमस्ति।