सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

५८८ कथासरित्सागर

५८८ कथासरित्सागर
भोगो नाम फलं लक्ष्म्याः स तस्मादधिकोऽस्ति वः।
न चेच्छ्रुता श्रूयतां तत्कथात्र वणिजोर्द्वयोः ॥१५१॥
राज्ञो बहुसुवर्णस्य कथा
बभूव कौतुकपुरं नामह नगरं पुरा।
तस्मिन्नन्वर्थनामाभूद्राजा बहुसुवर्णकः ॥१५२॥
यशोवर्मेति तस्यासीत्सेवकः क्षत्रियो युवा।
सस्म दातापि स नृपो नादात्किञ्चित्कदाचन ॥१५३॥
यदा यदा च नृपतिस्तेनार्थ्या याच्यते स्म सः।
भावित्य दर्शयन्नव समुवाच तदा तदा ॥१५४॥
अहमिच्छामि तं दातुं किं पुनर्भगवानयम्।
तुभ्यं नेच्छति मे दातुं किं करोम्युच्यतामिति ॥१५५॥
तत सोऽवसरं चिन्वन् यावत्तिष्ठति दुःखितः।
सूर्योपरागसमयस्तावदत्रागतोऽभवत् ॥१५६॥
तत्कालं स यशोवर्मा गत्वा सततसेवकः।
नृपं भूरिमहादानप्रवृत्तं तं व्यजिज्ञपत् ॥१५७॥
यो ददाति न तं तुभ्यं धातुं सैष रविः प्रभो।
ग्रस्तोऽद्य वैरिणा यावत्सावत्किञ्चित्प्रयच्छ मे ॥१५८॥
तच्छ्रुत्वा स हसित्वा च दत्तवानो महीपतिः।
गवीं वस्त्रं हिरण्यादि तस्मै बहुसुवर्णकम् ॥१५९॥
क्रमात्तस्मिन्धने मुक्ते क्षिप्रं साऽर्द्धवति प्रभो।
मृतजानि यशोवर्मा प्रययौ विन्ध्यवासिनीम् ॥१६ ०॥
किं निरर्थेन देहेन जीवतापि मृतेन मे।
त्यक्ष्याम्यत पुरा देव्या वरं प्राप्स्यामि चेप्सितम् ॥१६१॥
इत्यग्रे विन्ध्यवासिन्या प्रविश्या दर्भसस्तरे।
तन्मनाः स निराहारस्तपा महत्तपायत ॥१६२॥
प्राविशत् च सा स्वप्ने देवी तुष्टास्मि पुत्र ते।
वदाम्यर्थंधियं किं ते किं वा भोगश्रियं वद ॥१६३॥
१ मृता जाया यस्यासौ मृतजानिः मृतभार्य इत्यर्थः।