सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

५५४ कथासरित्सागर

५५४ कथासरित्सागर
सदा च वर्षति घने घोरा धाराधरावली ।
न स वीरवरः सिंहद्वारास्तम्भ इवाचलत् ॥१०२॥
राजा विक्रमतुङ्गश्च प्रासादाद्वीक्ष्य तं सदा ।
आरुरोह स जिज्ञासुः प्रासादं तं पुनर्निशि ॥१०३॥
सिंहद्वारे स्थितः कोऽत्रेत्युपरिष्टाज्जगाद सः ।
सरक्षाङ्गः स्थितोऽत्रेति सोऽपि वीरवरोऽभ्यधात् ॥१०४॥
अहो अयं महासत्त्वः सुमहत्पदमर्हति ।
सिंहद्वारं न यो मुञ्चत्यम्बुदे वर्षतीदृशे ॥१०५॥
इति यावच्च स श्रुत्वा विचिन्तयति भूमिभृत् ।
तावद्दूरात् सकरुणं रुदतीमशृणोत् स्त्रियम् ॥१०६॥
दुःखितो मे न राष्ट्रेऽस्ति तदेषा का नु रोदिति ।
इत्यालोच्याब्रवीद्राजा स तं वीरवरं तदा ॥१०७॥
भो वीरवर कापि स्त्री दूरे रोदित्यसौ शृणु ।
कपा किं दुःखमस्याश्चेत्यत्र गत्वा निरूपय ॥१०८॥
तच्छ्रुत्वा स तथेत्युक्त्वा गन्तुं प्रववृते द्रुतः ।
धुन्वन्करतले वीरवरो बद्धासिधेनुकः१ ॥१०९॥
दृष्ट्वा तं प्रस्थितं मध्ये ज्वलद्विद्युति सादृशे ।
धारानिपातसंरुद्धरोदोरन्ध्रे सकौतुकः ॥११०॥
सकृपाञ्चावतीर्यैव प्रासादात्तस्य पृष्ठतः ।
अलक्षितः खड्गपाणिः प्रतस्थे सोऽपि भूमिपः ॥१११॥
स चानुससर्प यदितः पृष्ठान्वागतभूपतिः२ ।
गत्वा बहिः पुरादेकं प्राप वीरवरः सरः ॥११२॥
हा नाथ हा कृपालो हा शूर त्यक्ता त्वया कथम् ।
वत्स्यामीति च तन्मध्ये रुदतीं स्त्रीं ददर्श ताम् ॥११३॥
का त्वं शोचसि कं नाथमिति पृष्टा च तेन सा ।
उवाच पुत्र मामेतां विद्धि वीरवर क्षितिम् ॥११४॥
तस्या विक्रमतुङ्गो मे राजा मान्योऽथ धार्मिकः ।
मृत्युश्च भविता तस्य तृतीयेऽहनि निश्चितम् ॥११५॥
एतादृशश्च भूयोऽपि पतिः स्यात्पुत्र न ध्रुवं ।
तेनैतमनुशोचामि स्वात्मानं च सुदुःखिता ॥११६॥
१ कटिबद्धक्षुरिकः । २ पृष्ठं अभ्यागतः पश्चादागतः भूपतिर्यस्येति समासः ।