कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
१८ कथासरित्सागर
१८ कथासरित्सागर
विकृतं पक्षिणं तं च पश्यतस्तान् सविस्मयान्।
ज्ञानी क्षपणकः कोऽपि पथा तत्रागतोऽब्रवीत्॥५९॥
राजपुत्रा बको नायं रूपमानेन राक्षसः।
भ्रमत्यग्निशिखाख्योऽयं नगराणि विनाशयन्॥६०॥
सद्विध्येतैन काण्डेन यावद् गच्छतितो द्रुतः।
एतत् क्षपणकाच्छ्रुत्वा भवतिस्म नवाधिकाः॥६१॥
काण्डानि चिक्षिपुर्ज्येष्ठा नकोऽप्याहतवान् बकम्।
ततो नग्नक्षपणकः पुनस्तानब्रवीच्च सः॥६२॥
अयं कनीयान् युष्माकं भ्राता शृङ्गभुजो बकम्।
शक्नोति हन्तुमतस्तद्गृह्णात्वेष क्षमं धनुः॥६३॥
तच्छ्रुत्वैव स्मरन् मातुस्तल्लब्धावसरं वचः।
स निर्वासभुजो बालस्तत्क्षणं समचिन्तयत्॥६४॥
सोऽप्य शृङ्गभुजस्यास्य स्यादुपायः प्रवासन।
तदर्पयामस्तातस्य सम्बन्धस्मै धनुःशरम्॥६५॥
सौवर्णं तच्छरं हृत्वा विद्धो यास्यति चेद् बकः।
पश्चादेषोऽपि गन्तास्य मार्गैरुत्स्वस्मासु स शरम्॥६६॥
मवा च लप्स्यते नैतं घ्निन्वन् रक्षो बकः तदा।
स्थास्यतीहस्ततो भ्राम्यँल्लप्स्यतीह शरं विना॥६७॥
इत्यालोच्य ददौ तस्मै पापः शृङ्गभुजाय सः।
बकघाताय सशरं पितृसम्बन्धि कार्मुकम्॥६८॥
स गृहीत्वा तदाकृष्य तेन स्वर्णशरेण सम्।
रत्नपुङ्खेन विव्याध बकं शृङ्गभुजो बली॥६९॥
स विद्धमात्रस्तं कायलग्नमादाय सायकम्।
बकः सद्यदसृग्धारं पलाय्यैव ततो ययौ॥७०॥
ततः शृङ्गभुजं वीरं स निर्वासिभुजः शठः।
तत्सङ्गात्प्रेरितास्ते च भ्रातरोऽन्ये समब्रुवन्॥७१॥
देहि हेममयं तं नस्तातसम्बन्धिनं शरम्।
अन्यथाद्य शरीराणि त्यक्ष्यामः पुरतस्तव॥७२॥
तातस्तेन विना ह्यस्मानितो निर्वासयिष्यति।
न च कर्तुं ग्रहीतुं वा शक्यं तत्प्रतिरूपकम्॥७३॥