कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
७४४ कथासरित्सागर
७४४ कथासरित्सागर
प्रविशत्विति राज्ञोक्ते प्रतीहारनिवेशन ।
भिल्लकन्या नृपास्थानप्राङ्गणं प्रविवेश सा ॥२६॥
न मानुषीयं दिव्यस्त्री कापि नूनमसाविति ।
सर्वैरप्यचिन्त्यस्तत्र दृष्ट्वा तद्रूपमद्भुतम् ॥२७॥
सा च प्रणम्य राजानमेवं व्यज्ञापयत्तदा ।
देवाय सर्व्वशास्त्रज्ञोऽस्येनतुर्वेदघरः शुकः ॥२८॥
कविः कृत्स्नासु विद्यासु कलासु च विचक्षणः ।
भयैश्वरोपयोगित्वादहानीतोऽय गृह्यताम् ॥२९॥
इत्यर्पितस्तमादाय प्रतीहारेण कौतुकात् ।
नीतोऽग्रे नृपतेरेनं शुकः श्लोकं पपाठ सः ॥३०॥
राजन्युक्तमिदं सदैव यदयं दवस्य समुद्द्यते ।
धूमश्याममुखो द्विषद्विरहिणीनिःश्वासवातोद्गमैः ।
एतत्त्वद्भुतमेव यत्परिमषाद्वाष्पाम्बुपूरप्लवै-
र्गाढं प्रज्वलतीह दिक्षु वणसु प्राप्य प्रतापानलः ॥३१॥
एवं पठित्वा व्याख्याय शुकोऽवादीत् पुनश्च सः ।
किं प्रमेयं कुत शास्त्राद्ब्रवीम्याविश्यतामिति ॥३२॥
ततोऽतिविस्मितं राज्ञि मन्त्री तस्याब्रवीन्निदम् ।
शङ्के शापाच्छुकीभूतः पूर्व्वर्षि कोऽप्ययं प्रभो ॥३३॥
जातिस्मरो धर्मवशात् पुरासीत स्मरत्यतः ।
इत्युक्ते मन्त्रिणा राजा स शुकं पृच्छति स्म तम् ॥३४॥
कौतुक भद्र मे ब्रूहि स्ववृत्तान्त क्व जन्म ते ।
शुकत्वे शास्त्रविज्ञानं कुत को वा भवानिति ॥३५॥
शुकस्यात्मकथा
तत स बाष्पमुत्सृज्य ववति स्म शुकः शनै ।
अवाच्यमपि वैवंत्तच्छृणु वच्मि त्वाज्ञया ॥३६॥
हिमवन्निकटे राजंस्तस्येको रोहिणीतरुः ।
आम्नाय इव दिव्यापिभूरिशाखाश्रितद्विजः ॥३७॥
१ आम्नायपक्षे—भूरिशाखाश्रिता द्विजाः यस्य तरुपक्षे—भूरिशाखासु आश्रिता,
द्विजाः=पक्षिणो यस्य ।