सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

७३२ कथासरित्सागर

७३२ कथासरित्सागर
एकदा तस्य भार्यायास्तस्या पुत्रान्वितः पिता।
निमन्त्रणाय माळव्य सोत्कण्ठोऽभ्याययौ स्वयम् ॥८१॥
वज्रसारोऽथ सत्कृत्य तं स राज्ञे निवेद्य च।
निमन्त्रितस्तन समं सभार्यो मालवं ययौ ॥८२॥
मासमात्रं च विश्रम्य सोऽत्र श्वशुरवेश्मनि।
इहागाद्राजसंवार्थं सद्भार्या त्वास्त तत्र सा ॥८३॥
ततो दिनेषु यातेषु वज्रसारमुपेत्य तम्।
अकस्मात् क्रोधनो नाम सुहृदेवमभाषत ॥८४॥
भार्यां पितृगृहे त्यक्त्वा किं गृहं नाशितं त्वया।
तत्रान्यपुरुषासङ्गा पापया हि कृतस्तया ॥८५॥
आगतेन ततोऽद्यैतदाप्तेन कथितं मम।
मा मस्था विस्रभं तस्माद्भिगृहीतां जहापराम् ॥८६॥
इत्युक्त्वा क्रोधने याते स्थित्वा मूढ इव क्षणम्।
अचिन्तयद्वज्रसारः शङ्के सत्यं भवदिदम् ॥८७॥
आह्वयायके विसृष्टेऽपि सान्यथा नागता कथम्।
तदेतां स्वयमानेतुं यामि पश्यामि किं भवेत् ॥८८॥
इति सङ्कल्प्य गत्वैव मालवं श्वशुरौ स तौ।
अनुज्ञाप्य गृहीत्वैतां भार्यां प्रस्थितवांस्ततः ॥८९॥
गत्वा च दूरमध्वानं स युक्त्या वञ्चितानुगः।
उत्पथेनाविशद्वृभार्यामादाय गहनं वनम् ॥९०॥
तत्रोपवेश्य मध्ये तां विजने वदति स्म सः।
त्वमन्यपुरुषासक्तेत्याप्तान्मित्रात्प्रिया श्रुतम् ॥९१॥
मया चात्र स्थितेनैव यदाहूतासि नागता।
तत्सत्यं ब्रूहि नो चेद्वा करिष्ये निग्रहं तव ॥९२॥
तच्छ्रुत्वा तमवादीत् सा तच्चेद् यदि निश्चयः।
र्तार्हक पृच्छसि मां यत्ते रोचते तत्कुरुष्व मे ॥९३॥
इति सावज्ञमाकर्ण्य वचस्तस्याः स कोपतः।
वज्रसारस्तरी बद्ध्वा लताभिस्तामताडयत् ॥९४॥
वस्त्रं हरति यावच्च तस्यास्तावद्विलोक्य ताम्।
मग्ना रिरंसा मूढस्य तस्याजायत रागिणः ॥९५॥