कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
शक्तियशो नाम दशमो लम्बकः
शक्तियशो नाम दशमो लम्बकः
१५ गुरुगिरीन्द्रजाप्रणयमम्बरास्योत्सना
स्फुरा किस कृपामृत हरमुखाभ्युषरुद्गतम्।
प्रसङ्ग रसयन्ति ये विगतविघ्नरूढ्यर्द्धयो
धुरं दधति वैबुधीं मूर्ध्नि भवप्रसादेन ते ॥
प्रथमस्तरङ्गः
मङ्गलाचरणम्
अवारणीय¹ रिपुभिर्वारणीयं करं नुमः।
हेरम्बस्य ससिन्दूरमसि दूरमपच्छिदम् ॥१॥
पायाद्वः पुरदाहाय शम्भोः सन्नद्धतं शरम्।
समं व्यग्रेषु नेत्रेषु तृतीयमधिकं स्फुरत् ॥२॥
रक्तारुणा नृसिंहस्य कुटिला विद्रिषो वधे।
नखश्रेणी च दृष्टिश्च निहन्तु दुरितानि वः ॥३॥
नरवाहनदत्तकथा (पूर्वानुवृत्ता)
एवं वत्सेश्वरसुतः कौशाम्ब्यां सचिवैः सह।
नरवाहनदत्तः स तस्थौ भार्यासखः सुखी ॥४॥
एकदा चास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः।
वत्सेश्वरस्य विज्ञप्त्यै तत्रासीद् वणिगागमौ ॥५॥
स रत्नदत्तनामा तं प्रतीहारनिवेदितः।
प्रविश्य नत्वा राजानं वणिगेव व्यजिज्ञपत् ॥६॥
अत्र मङ्गले विरोधाभासोऽलङ्कारः। यथा—अ-वारणीयम् वारणीयम् स-सिन्दूरम्
मसिदूरम्—इति। अत्र वारणस्य = गजस्येदं वारणीयम्=गजसम्बन्धि। न वारणीयम्
अवारणीयम् अप्रतिरोध्यम्। सिन्दूरेण सहितं ससिन्दूरम्—सिन्दूरलिप्तम् असि-ऋत दूरं =
दूरे इत्यर्थः, ईदृशं करं—शुण्डादण्डं नुमः=नमामि ।
इस पृष्ठ पर मुद्रण अत्यंत क्षीण, अस्पष्ट एवं खंडित (degraded/illegible) है, जिस कारण यहाँ कोई भी सुपाठ्य देवनागरी पाठ उपलब्ध नहीं है।