सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८७६ कथासरित्सागर

८७६ कथासरित्सागर
सुवर्णमुग्धकथा
अथ सुवर्णमुग्धस्य देवेदानीं निशम्यताम्।
पुमान् कश्चिज्जल पातुं तडागमगमद्युवा ॥१८७॥
स जलोकोकहस्तस्य स्वर्णचूडस्य पक्षिणः।
सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ॥१८८॥
सुवर्णमिति मत्वा तद्ग्रहीतुं प्रविवेश खम्।
तडागं न च तत्राप दृष्टनष्टं चले जले ॥१८९॥
आरुह्यारुह्य च जले स तत्पश्यन् प्रविश्य तत्।
पुनः पुनस्तडागाम्भो जिघृक्षुर्नाप किञ्चन ॥१९०॥
पित्रा च स्वेन दृष्टोऽथ पृष्टो निन्ये गृहं च सः।
तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ॥१९१॥
निर्विमर्शा मृषाज्ञानैर्मुह्यन्त्येवमबुद्धयः।
उपहास्याः परेषां च क्षोभ्याः स्वेषां भवन्ति च ॥१९२॥
मूर्खसेवकानां कथा
अथ चान्यो महामूर्खवृत्तान्तोऽत्र निशम्यताम्।
कस्याप्युष्ट्रोऽवसन्नोऽभूद्भारेण वणिजोऽध्वनि ॥१९३॥
स भृत्यानब्रवीत् कश्चिदुष्ट्रं गत्वान्यमानये।
श्रित्त्वाधं योऽस्य करभस्याधं भारादितो हरेत् ॥१९४॥
मद्यागमं यथा वस्त्रपेटास्वेतासु न स्पृशेत्।
अम्भश्चर्माणि युष्माभिस्तथा कार्यमिह स्थितैः ॥१९५॥
इत्युष्ट्रपार्श्वेऽवस्थाप्य भृत्यांस्तस्मिंस्ततो गते।
वणिज्यकस्मादुन्नम्य प्रारेभे वर्षितुं घनः ॥१९६॥
तथा कार्यं यथा माम्भः पेटाश्चर्माणि संस्पृशेत्।
इति न स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ॥१९७॥
कृष्ट्वा वस्त्राणि पेटाभ्यस्तैस्ते तान्यन्ववेष्टयन्।
चर्माणि तेन वस्त्राणि विनेशुस्तेन वारिणा ॥१९८॥
पापा विमग्ने सकलो वस्त्रौघो नाशितोऽम्भसा।
इत्यागतोऽथ स वणिक्क्रुद्धो भृत्यानभाषत ॥१९९॥
स्वयंवोदिष्टमुदकात् पेटाचर्माभिरक्षणम्।
दोषस्तत्र च कोऽस्माकमिति तैऽपि तमभ्यधुः ॥२००॥