सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८४ कथासरित्सागर

८४ कथासरित्सागर
इत्युवाच च साक्षेपं पुमान् क्रोधाग्निना ज्वलन् ।
ततो हसन्तस्तत्रान्ये तमूचुः किं ब्रवीत्यदः ॥२६३॥
प्रत्यक्षवञ्चितश्चौद्यसाहसोऽपि भवानिति ।
एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ॥२६४॥
एकस्य मूर्खराज्ञः कथा
इदानीं श्रूयतां मुग्ध-कन्यावर्धयिता नृपः ।
राजाभून्मूर्खोऽपि कन्यैका सम्प्राजनि तस्य च ॥२६५॥
स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् ।
वैद्यानानीय नृपतिः प्रीतिपूर्वमभाषत ॥२६६॥
सदौषधप्रयोगं तं कञ्चित् कुरुत येन मे ।
सुतैषा वर्धते शीघ्रं सद्मर्त्रे च प्रदीयते ॥२६७॥
तच्छ्रुत्वा तेऽब्रुवन्वैद्या उपजीवयितुं जडम् ।
अस्त्यौषधमितो दूरात्तत्तु देशादवाप्यते ॥२६८॥
आनयामश्च यावत्तावदेव सुता सव ।
बदृश्या स्मापनीयैषा विमाने सत्र हीदृशम् ॥२६९॥
इत्युक्त्वा स्वापयामासुश्छन्नां से तां नृपात्मजाम् ।
संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ॥२७०॥
यौवनस्थां च तां प्राप्तामोपधेन प्रवर्धिताम् ।
द्रुवाजा दर्शयामासुः सुतां तस्मै महीभृते ॥२७१॥
सोऽपि तान्पूरयामास वैद्यांस्तुष्टो मनोरथैः ।
इति व्याजाज्जडधियो धूर्तैर्मृग्यन्त ईश्वराः ॥२७२॥
मूर्खकृपणस्य कथा
अथ चाकर्ण्यतामर्धपणोपार्जितपण्डितः ।
अभून्नगरवास्येकः पुमान् प्रज्ञाभिमानवान् ॥२७३॥
ग्रामवासी च तस्यैकः पुमान् संवत्सरावधि ।
भृतकोवृत्यसन्तोषादापृच्छ्य स्वगृहं ययौ ॥२७४॥
गते तस्मिंश्च पप्रच्छ भार्या सन्धि गतः स ना ।
त्वत्त किञ्चिन्न गृहीत्वेति साप्यर्धपणमम्यधात् ॥२७५॥
ततो वक्षपजान् कृत्वा पाथेयं स नदीतटे ।
गत्वा स्वभृतकात्तस्मात्तमर्धपणमानयत् ॥२७६॥
तच्चार्धकोशरु शसन् स ययौ लोकहास्यताम् ।
एवं बहु क्षपयति स्वल्पस्यार्थे धनाधमी ॥२७७॥