सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

१८४ कथासरित्सागर

१८४ कथासरित्सागर
अन्यद्युश्च समं राज्ञा कथां कृत्वा तमेव सः।
निर्गत्य धूर्त्तोऽवादीत् नियोगिनमुपागतम् ॥ १२५॥
युक्तियुक्तैर्मया वाक्यैस्तव राजा प्रसादितः।
धीरो भवाधुनाहं ते सर्वच्छिद्रषु रक्षकः ॥ १२६॥
इति स्वीकृत्य स युक्त्या विससर्ज च सोऽपि तम्।
अधिकारी सदा तैस्तैस्तूपचारैरुपाहरत् ॥ १२७॥
एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान्।
राज्येभ्यो राजपुत्रेभ्यः सवकर्म्येषु युक्तिभिः ॥ १२८॥
बह्वीभिराददानोऽप्यनिजग्राह सर्वतः।
पञ्च कोटीः सुवर्णस्य कुर्वन् राजा समं कथाः ॥ १२९॥
ततो रहसि राजानं धूर्तमन्त्री जगाद सः।
यच्च दत्वापि नित्यं ते दीनारशतपञ्चकम् ॥ १३०॥
त्वत्प्रसादान्मया प्राप्ताः पञ्च काञ्चनकोटयः।
तत्प्रसीद गृहाणतत् स्वं स्वर्णमहमत्र कः ॥ १३१॥
इत्युक्त्वा प्रकटं राज्ञः कनकं सन्त्यवेदयत्।
राजापि कृच्छ्रात्तत्तस्य जग्राहार्धं ततो धनात् ॥ १३२॥
तुष्टस्य स्थापयामास महामन्त्रिणवं स तम्।
सोऽपि प्राप्य श्रियं धूर्त्तो दानभोगैरमानयत् ॥ १३३॥
एवं प्राप्नोति महत् प्राज्ञोऽप्याभातिपापतः।
कूपस्नानकबत्प्राप्ते फले दोषं निहन्ति च ॥ १३४॥
इत्युक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः।
एकाभिदानीमुदाहृत्सोत्सुकः शृण्विमां कथाम् ॥ १३५॥
बभूव दुर्मदारातिकरीन्द्रकुलकेसरी।
रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ॥ १३६॥
रत्नरेखाभिधानायां राज्ञ्यां तस्योपपद्यत।
कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ॥ १३७॥
सा च विद्याधरी शापादवतीर्णा यदा तदा।
नभोविहारसस्कारमदान्वितक्रीड दोलया ॥ १३८॥
पातभीरुया निषिद्धापि सा छतो न घनाच्च यत्।
तत्तस्याः स पिता राजा चपटं कुपितो ददौ ॥ १३९॥