कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
२६ कथासरित्सागर
२६ कथासरित्सागर
सुप्तस्य तस्य गत्वथ पार्श्वान्खड्गं तमग्रहीत्।
स राजा तेन भूयश्च प्रभावं दिव्यमाप्तवान्॥२२७॥
ततः पाशुपतं पादप्रहारेण प्रबोध्य तम्।
निरभर्त्सयदवापच्च स वीरो नावधीत्सुतम्॥२२८॥
प्राविशच्चासुरं पुरं सपरिच्छदया तया।
प्राप्तया स स्वया सार्धं सिद्धयवासुरकन्यया॥२२९॥
स च पाशुपतः सिद्धेर्भ्रष्टः कष्टमगात् परम्।
कृतघ्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम्॥२३०॥
एवत्साक्षाद्विलोक्यैवाहमिह प्राप्तः परिभ्रमन्।
तद्देवि प्रियसंगमस्तव भावी चिरादपि॥२३१॥
यथा त्रिभुवनस्याभूच्छुभङ्कन्नहि सीदति।
इति तस्माद्द्विजाच्छ्रुत्वा सोप धन्धुमती ययौ॥२३२॥
चकार च कृतार्थं तं विप्रं दत्त्वा धनं बहु।
अन्यद्युश्च द्विजोऽपूर्वस्तमागाद्दूरदेशजः॥२३३॥
तं च बन्धुमती सोत्का प्रोक्ताभिज्ञाननामका।
भर्तुर्वार्त्तामपृच्छत्सा सोऽथ तां ब्राह्मणोऽभ्यधात्॥२३४॥
न स देवि मया दृष्टस्त्वद्भर्त्ता क्वापि किं त्वहम्।
अन्वर्थं सुमनोनामा तवाद्य गृहमागतः॥२३५॥
तदाशु सौभगस्य ते भावीत्याख्याति मे मनः।
भवत्येव च संयोगश्चिरविश्लेषिणामपि॥२३६॥
तथा च कथयाम्येतामत्र देवि कथां शृणु।
नलदमयन्तीकथा
निषधाधिपती राजा नलो नामाभवत्पुरा॥२३७॥
यस्य रूपेण विजितः कामो मन्येऽब्रमागतः।
कोपितत्रिपुरारातिनेत्राग्नावजुहोत्तनुम् ॥२३८॥
तेनाभार्य्येण सदृशी भार्याद्यापि विचिन्वता।
दमयन्तीति भीमस्य विदर्भाधिपतेः सुता॥२३९॥
१ अत्रोल्लिखिता नलकथा महाभारतविधेनितकथातो किञ्चिदिव भिन्ना विलोक्यते।