सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

७२० कथासरित्सागर

७२० कथासरित्सागर

इत्युक्त्वा वाजिरत्नं तद्दत्त्वा सोमप्रभाय स।
आप्तपूजः समुत्पत्य ययौ वासवसारथिः ॥६८॥
ततो नीत्वैव दिवस तमुत्सवमनोरमम्।
सोमप्रभस्तमन्येद्युरुवाच पितरं नृपम् ॥६९॥
तात न क्षत्रियस्यैष धर्मो यदजिगीषुता।
तदाज्ञां देहि मे यावद्दिग्जयाय व्रजाम्यहम् ॥७०॥
तच्छ्रुत्वा स पिता तुष्टस्तथेति प्रत्यभाषत।
चक्रे ज्योतिष्प्रभस्तस्य यात्रासविदमथ च ॥७१॥
ततःप्रणम्य पितरं दिग्जयाय बलैः सह।
प्रायाच्छत्रुन्व्यपास्तङ्कः शुभे सोमप्रभोऽहनि ॥७२॥
जिगाय सोऽश्वरत्नेन तेन दिक्षु महीपतीन्।
आजहार च रत्नानि तेभ्यो दुर्वारविक्रमः ॥७३॥
नामितं स्वधनुस्तेन विद्धिषां च शिरः समम्।
उन्नतिं तद्धनुः प्राप न तु तद्विषतां शिरः ॥७४॥
आगच्छन् कृतकार्योऽथ हिमाद्रिनिकटे पथि।
सन्निविष्टबलश्चक्रे मृगयां स वनान्तरे ॥७५॥
दैवात् सद्रत्नखचितं तत्रापश्यत्स किन्नरम्।
अभ्यधावच्च स प्राप्तुं तेन शाक्रेण वाजिना ॥७६॥
स किन्नरो गिरिगुहां प्रविश्यादर्शनं ययौ।
सोमप्रभस्तु तेनाश्वेनातिदूरममीमत् ॥७७॥
तावत्प्रकीर्णं काष्ठासु प्रकाशं तिग्मतेजसि।
प्राप्ते प्रतीचीं ककुभं सन्ध्यासङ्गमकारिणीम् ॥७८॥
श्रान्तं कथञ्चिदावृत्य स ददर्श महत्सरः।
तत्तीरे तां निशां नेतुकामश्चाश्वादवातरत् ॥७९॥
दत्त्वा तृणोदकं तस्मायाहृताम्बुफलोदकः।
विश्रान्तश्चैकतोऽकस्मादशृणोत् गीतनिःस्वनम् ॥८०॥
गत्वा तदनुसारेण कौतुकात्रातिदूरतः।
सोऽपश्यच्छिवलिङ्गाग्रे गायन्तीं दिव्यकन्यकाम् ॥८१॥
केयमद्भूतरूपा स्यादिति तं च सविस्मयम्।
साप्युदाराकृतिं दृष्ट्वा कृतातिथ्यमवोचत ॥८२॥