सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८९६ कथासरित्सागर

८९६ कथासरित्सागर
ततो यशोधरो लक्ष्मीधरश्च भ्रातरावुभौ।
कृत्वा व्रतं तत्राप्तार्थविद्यावास्तां यथासुखम् ॥९१॥
एव धर्मप्रवृत्तानां शीलं कृच्छ्रेऽप्यमुञ्चताम्।
देवता अपि रक्षन्ति कुर्वन्तीष्टार्थसाधनम् ॥९२॥
इत्य वसन्तकाख्यातकथामृतविनोदितः।
मत्सेश्वरसुतं प्रेप्सु स शक्तियशसं प्रियाम् ॥९३॥
आहारसमये पित्रा समाहूतस्तदन्तिकम्।
नरवाहनदत्तोऽथ ययौ स्वसचिवै सह ॥९४॥
अथानुरूपं भुक्त्वा च तत्र सायं स्वमन्दिरम्।
वयस्यैः स निजैः साकमयासी गोमुखादिभिः ॥९५॥
तत्र च गोमुखो भूयो विनोदयितुमब्रवीत्।
श्रूयतामिममन्यं वो देवाख्यामि कथाक्रमम् ॥९६॥
लब्धप्रणाशमकरवानरयोः कथा
आसीद्रक्तमुखो नाम परिभ्रष्टः स्वयूथतः।
उदुम्बरवने तीरे वारिधेर्वानिरर्षम ॥९७॥
तस्य भक्षयतो हस्ताच्च्युतमेकमुदुम्बरम्।
जघास शिशुमारोऽत्र वारिराशिजलाशयः ॥९८॥
तत्फलास्वादहृष्टश्च स प्रचक्रे कलं रवम्।
यद्वशात् स बहून्यस्मै फलानि कपिरक्षिपत् ॥९९॥
तथैव चाक्षिपन्नित्यं फलानि स तथैव च।
शिशुमारो ऽत्त चक्रे जग्ने सख्यं ततस्तयोः ॥१००॥
तेनान्वहं तटस्थस्य जलस्थो निकटे कपेः।
शिशुमारो दिनं स्थित्वा च सायं स्वगृहं ययौ ॥१०१॥
ज्ञाताथौ तस्य भार्या च सदा विरहदं विषा।
कपिसख्यमनिच्छन्ती भाम्यव्याजमधिष्ठितम् ॥१०२॥
ब्रूहि प्रिये किमस्वास्थ्यं तव केन च शाम्यति।
इत्यार्त्तस्तं स पप्रच्छ शिशुमार प्रियां मुहुः ॥१०३॥
निर्बन्धात्पृष्टापि यदा न सा प्रतिवचो ददौ।
रहस्यज्ञा सखी तस्यास्तदा तं प्रत्यभाषत ॥१०४॥