सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

८७२ कथासरित्सागर

८७२ कथासरित्सागर
ततस्तं वाहनसुखैरावश्यं सन्निधौभृतम्।
कृत्वावसन्नमात्मानमुवाच स सकेतवम् ॥१५८॥
आहारं विना देव न गन्तुमहमुत्सहे।
तन्मे दशाशनं भृत्याद्देववृत्तितस्तत् कथम् ॥१५९॥
तच्छ्रुत्वा भेकराजस्तमवाचद्वाहनप्रियः।
काञ्चित् परिमितांस्तर्हि भुङ्क्ष्व मदनुचरानिति ॥१६०॥
ततः क्रमात् स मण्डूकानहिः स्वेच्छमभक्षयत्।
सद्वाहनाभिमानाच्च सेहे भेकपतिः स तत् ॥१६१॥
एवं मध्यप्रविष्टेन मूर्खः प्राज्ञेन वञ्च्यते।
मयाप्यनुप्रविश्यैव तव स्वद्विषवो हताः ॥१६२॥
तस्मान्नीतिविदा राज्ञा भवितव्यं कृतात्मना।
यथैष मुच्यते मृत्योर्ह्रियते च परर्द्धयः ॥१६३॥
श्रीरियं च सदा देव द्यूतलीलेव सञ्चला।
वारिणीवोर्मिचपला मदिरेव विमोहिनी ॥१६४॥
सा धीरस्य सुमन्त्रस्य राज्ञो निर्व्यसनस्य च।
विशेषज्ञस्य सोत्साहा पार्श्वतश्चैव तिष्ठति ॥१६५॥
तदिदानीमवहितस्त्वं विद्वद्वचने स्थितः।
निहतारातिसुस्थितः पाथि राज्यमकण्टकम् ॥१६६॥
इत्युक्तो मन्त्रिणा मेघवर्णः स चिरजीविना।
सम्भाव्य तं काकराजश्चक्रे राज्यं तथैव तम् ॥१६७॥
इत्युक्त्वा गोमुखो भूयो वत्सराजसुतमब्रवीत्।
तदेवं प्रज्ञया राज्यं तिर्यग्भिरपि भुज्यते ॥१६८॥
निष्प्रज्ञास्त्ववसीदन्ति काकोपहसिताः सदा।
तथा च जाह्नवीभृत्या बभूवाश्वस्य कस्यचित् ॥१६९॥
साऽजानन्नपि तस्याज्ञां जानामीत्यभिमानतः।
स्फारं कुर्वन् मौर्व्याबलात्प्रभोस्त्वचमपाटयत् ॥१७०॥
ततस्त्वेनं परित्यक्तं स्वामिभाववशाद सः।
अजानानॊ ह्यतत्कुर्वन् प्राप्तमानी विनश्यति ॥१७१॥
इतश्च श्रूयतामन्यत् मासन्वै भ्रातरावुभौ।
विप्रावभूतानामद्वय तयोः पित्र्यमभूद्धनम् ॥१७२॥