सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

[८५६] कथासरित्सागर

[८५६] कथासरित्सागर

तदुलूको दिवाभोज्यः क्षुद्रो राज्यं कुतोऽर्हति ।
क्षुद्रश्च स्यादविश्वास्यस्तत्र चैतां कथां शृणु ॥४६॥
शशकपिञ्जलकथा¹
कदाचित् क्वापि वृक्षऽद्रुमवस तत्र चाप्यथ ।
पक्षी कपिञ्जलो नाम वसति स्म कृतालयः ॥४७॥
स कदाचिद् गत क्वापि यावन्न दिवसान् बहून् ।
आयाति तावत्तन्नीडं ततस्त्यः शशकोऽवसत् ॥४८॥
दिने कपिञ्जलोऽत्रागात् ततोऽस्य शशकस्य च ।
नीडो मे तव नेत्येव विवाद उदभूद्द्वयोः ॥४९॥
निर्णेतारं ततः सम्यगन्वेष्टुं प्रस्थितावुभौ ।
तावहं कौतुकाद् द्रष्टुमन्वगच्छमलक्षितः ॥५०॥
गत्वा स्तोकं सरस्तीरेऽहिंसाधृतमृषाव्रतम् ।
ध्यानाधोमीलितदृशं मार्जारं तावपश्यताम् ॥५१॥
एतमेव च पृच्छाव किं न्यायमिह धार्मिकम् ।
इत्युक्त्वा तौ बिडालं तमुपेत्यैवमवोचताम् ॥५२॥
शृणु नौ भगवन्न्यायं तपस्वी त्वं हि धार्मिकः ।
श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ॥५३॥
न शृणोमि तपः क्षामो दूरादायात मेऽन्तिकम् ।
धर्मो ह्यसम्यङ् निर्णीतो निहन्त्युभयलोकयोः ॥५४॥
इत्युक्त्वाश्वास्य तावप्रमानीय स बिडालकः ।
उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जलौ ॥५५॥
तदेवं नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने ।
[L23: तस्मादुलूको राज्याय न कर्त्तव्योऽतिदुर्जनः ॥५६॥
इत्युक्ताः पक्षिणस्तेन वायसेन तथेति ते ।
अभिषेकमुलूकस्य निवार्यैतस्ततो ययुः ॥५७॥
अद्यप्रभृति यूयं च वयं चाप्योन्यशत्रवः ।
स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ॥५८॥


१ क्षुद्रमर्थपतिं प्राप्य व्यापारवधतत्परौ ।
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ पञ्चतन्त्रे—