कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
८२२ कथासरित्सागर
८२२ कथासरित्सागर
हिरण्यकश्च तं बन्धविधुरं मूषको मृगम्।
क्षणादमुञ्चदाश्वास्य दशनच्छिन्नपाशकम्॥१२८॥
तावन्मन्थरकोऽभ्येत्य नदीमध्यान् कच्छपः।
आरुरोह तटं तेषां निकटं स सुहृत्प्रियः॥१२९॥
तत्क्षणं स कुतोऽप्येत्य लुब्धकः पाशदायकः।
विद्रुतेषु मृगाद्येषु लब्ध्वा तं कूर्ममग्रहीत्॥१३०॥
क्षिप्त्वा च जालकान्तस्तं यावन्नष्टमृगाकुलः।
स याति तावद्दृष्ट्वैतद् दीर्घदृश्वासुवाक्यत॥१३१॥
भृगो गत्वा ततो दूरं पतित्वासीन्मृतो यथा।
काकस्तु मूर्ध्नि तस्यासीच्चक्षुषी पाटयन्निव॥१३२॥
तद्दृष्ट्वा स गृहीत तं व्याधो मत्वा मृगं मृतम्।
गन्तुं प्रवृते नद्यास्तटं कूर्म्म निधाय तम्॥१३३॥
यात दृष्ट्वा तमभ्येत्य मूषकस्तस्य जालकम्।
कूर्मस्य सोऽच्छिनत्तेन मुक्तो नद्यां पपात स ॥१३४॥
मृगोऽपि निकटीभूतं व्याधं वीक्ष्य विकच्छपम्।
उत्थाय स पलाय्यागात् काकोऽप्यारुडवांस्तरुम्॥१३५॥
एत्य व्याधोऽत्र कूर्मं तं वत्सबच्छेदपलायितम्।
अप्राप्तोभयविभ्रष्टो दैव शोचन्नगाद् गृहम्॥१३६॥
ततो मिलन्ति स्मैकत्र हृष्टाः कूर्मादयोऽत्र ते।
मृगस्तु प्रीतिमानेवं कूर्मादींस्तानभाषत स॥१३७॥
पुण्यवानस्मि यत्प्राप्ता भवन्तः सुहृदो मया।
प्राणानुपस्कृत्य यैरेष मृत्योरहमुद्धृतः॥१३८॥
एवं प्रशंसता तेन मृगेण सह तत्र ते।
अन्योन्यप्रीतिसुखिताः काककूर्मसखोऽवसन्॥१३९॥
प्रज्ञया साधयन्त्येव विर्य्यल्पोऽपि समीहितम्।
प्राणैरपि न मुञ्चन्ति तेऽन्येव मित्रमापदि॥१४०॥
एवं च श्रेयसी मित्रष्वासक्तिर्नाङ्गनासु ताम्।
इर्ष्याय मत्त्याच्छंसन्ति तथा च श्रूयतां कथा॥१४१॥
ईर्ष्याकुपुरुषस्य तस्य च दुष्टस्त्रियःकथा
नगर क्वापि कोऽप्यासीदीर्ष्यावान्नृप प्रभो।
बभूव तस्य भार्या च वल्लभा रूपशालिनी॥१४२॥