कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
५७६ कथासरित्सागर
५७६ कथासरित्सागर
इत्युक्त्वा प्रतिमुक्तस्तद्रुपनीतन्द्रसद्रथम् ।
नरवाहनदत्तोऽसौ मातलिं तमभाषत ॥६३॥
मत्र दिव्यसरस्तीरे स्थिता मे गोमुखादयः ।
तन् मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ॥६४॥
ततस्तथति तनोक्तः साप्सरस्कः स तद्रथे ।
आरुह्य तत्सरः प्राप गोमुखादीन् ददर्श च ॥६५॥
आयातं स्वपथा शीघ्रं सर्वं वक्ष्यामि वो गृहे ।
इत्युक्त्वा तांश्च कौशाम्बीं ययौ शक्ररथेन सः ॥६६॥
तत्रावतीर्य नभसः पूजितं प्रेष्य मातलिम् ।
अप्सरोभिर्युतस्ताभिः स विवेश स्वमन्दिरम् ॥६७॥
स्थापयित्वा च तास्तत्र गत्वा वत्सेश्वरस्य सः ।
तदागमनहृष्टस्य ववन्दे चरणौ पितुः ॥६८॥
मातुर्वासवदत्तायाः पद्मावत्यास्तथैव च ।
अभ्यनन्दच्च तैश्चार्यं दर्शनातृप्तचक्षुषा ॥६९॥
तावच्च स रथासङ्गो गोमुखोऽत्र ससारथिः ।
प्रलम्बबाहुना सार्द्धं विप्रेण सममाययौ ॥७०॥
अथ स्थित मन्त्रिवर्गे पित्रा पृष्टः सादरं सः ।
नरवाहनदत्तस्तं स्ववृत्तान्तं महाद्भुतम् ॥७१॥
वदासि तस्य कस्याणमित्रप्रयोगमीश्वरः ।
इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ॥७२॥
इति शंसत्सु सर्वेषु राजा वत्सेश्वरोऽथ सः ।
चकार तुष्टस्तनयस्यान्युतामुपहोत्सवम् ॥७३॥
ददर्श पादपतनायानीता गोमुखेन च ।
हरप्रसादरम्भास्ताः सदारोऽप्सरसः स्नुषाः ॥७४॥
देवरूपां देवरतिं देवमालां तथैव च ।
देवप्रियां चतुर्थी च चेटीभिः पृष्टनामकः ॥७५॥
क्वाहं क्व मय्यप्सरसो दिष्ट्याह राजसूनुना ।
नरवाहनदत्तेन भुवि स्वर्नागरी कृता ॥७६॥
इतीवावकिरन्ती सा सिन्दूरं विततोत्सवा ।
चञ्चद्रक्तपताकाभिः कौशाम्बी वदृशे तदा ॥७७॥